OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, September 7, 2025

 गुजराते 'कार्गो रोप् वे' [Cargo Ropeway] प्रभञ्य षट् मरणानि।

दुर्घटनादृश्यम्।

अहम्मदाबादः>  राज्ये पावगढ् इत्यत्र कालिक मातामन्दिरस्य पुनर्निर्माणे उपयुज्यमानं 'कार्गो रोप् वे' प्रभञ्ज्य ट्रोलीयन्त्रं  विशीर्य ६ कर्मकराः अकालमृत्युं प्राप्ताः। 

  शनिवासरे सायं ५. ३० वादने आसीत् दुर्घटना। द्वौ लिफ्ट् चालकौ, द्वौ कर्मकरौ, इतरौ द्वौ एव मृताः। चत्वारः आहताः। ८०० मीटर् मितम् उच्चे वर्तमाने स्थाने अस्ति मन्दिरम्। तत्र सामानानि आनेतुम्  रोप् वे द्वारा ट्रोली उपयुज्यमानमस्ति। एतत् रोप् वे एव भग्नम्।

 आरक्षकस्थानेषु 'सि सि टि वि छायाग्राहिण्यः' [CCTV Cameras] न सन्ति।

सर्वोच्चन्यायालयेन अपराधप्रकरणं पञ्जीकृतम्। 


नवदिल्ली> आराष्ट्रं सर्वत्र आरक्षकस्थानेषु सि सि टि वि छायाग्राहिण्यः' कार्यक्षमाः न वर्तन्ते इत्यतः भारतस्य सर्वोच्चन्यायालयेन स्वेच्छया अपराधप्रकरणं पञ्जीकृतम्। 

  आरक्षकस्थानेषु मानवाधिकारध्वंसनानि निरोधुम् उद्दिश्य २०१८ तमे वर्षे सर्वेषु आरक्षकस्थानेषु सि सि टि वि छायाग्राहिण्यः स्थापनीयाः इति सर्वोच्चन्यायालयेन आदिष्टम्। किन्तु राष्ट्रे अतीतेषु अष्टसु मासेषु ११ निगृहीतजनाः आरक्षकसकाशे हताः इति माध्यमवार्तानुसारमेव प्रकरणं स्वीकृतम्।

 केरले २० पेटिकायुक्तं वन्दे भारत रेल् यानं कुजवासरात् आरभ्य। 

कण्णूर्> १६ पेटिकाभिः  सह सेवां कुर्वत् आलप्पुष़ा मार्गेण सञ्चरत् मङ्गलुरु-अनन्तपुरी वन्दे भारत रेल् यानं [२०६३१/ २०६३२]  नवमदिनाङ्कतः २० पेटिकाभिः सह सेवां करिष्यति। अनेन यात्रिकाणां संख्या ३२० वर्धापयित्वा १३३६ भविष्यति।

Saturday, September 6, 2025

 एष्या चषक होक्की

'सूपर् 4 मध्ये अद्य चीन-भारतस्पर्धा। 

भारतगणं स्पर्धामध्ये।

विजयी चेत् अन्तिमस्पर्धायाम्।

राजगिरिः> बिहारस्थे राजगिरौ प्रचाल्यमानायाः एष्या चषक होक्कीस्पर्धायाः  'सूपर् 4' नामकपूर्वान्त्यप्रतिद्वन्द्वस्य तृतीयचरणे अद्य भारतं चीनेन सह स्पर्धते। रात्रौ ७. ३० वादने एव स्पर्धा। भारतगणम् अद्य विजयं प्राप्स्यते तर्हि अन्तिमस्पर्धां प्रवेक्ष्यति। 

  इदानीं भारतस्य द्वाभ्यां 'सूपर् 4' स्पर्धाभ्यां चत्वारः अङ्काः सन्ति। गतदिने मलेष्यां ४-१ लक्ष्यकन्दुकरीत्या पराजयत। इतरस्मिन्  'सूपर् 4' प्रतिद्वन्द्वे मलेष्या कोरियां प्रति स्पर्धते।

 ट्रम्पं प्रति पुतिनस्य कठोरविमर्शः।

चीनं भारतं च ट्रम्पस्य व्यवहारः सीमातीतः। 

पुतिनः ट्रम्पश्च। (छायाचित्रसंग्रहात्)

बीजिङ्> अधिकशुल्कमभिव्याप्य आर्थिकप्रक्रमान् उपयुज्य भारतस्य चीनस्य चोपरि यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन उपयुज्यमानः सम्मर्दः सीमातीत इति रूसराष्ट्रस्य अधिपः व्लादिमीर पुतिनः व्यमर्शयत्। "'कोलनिवत्करणस्य' कालः अतीतः इति ट्रम्पेण स्मर्तव्यम्। १५० कोटिसंख्याकैः जनैः विश्वस्य बृहत्तमं जनाधिपत्यराष्ट्रं भवति भारतम्। तथा च सर्वथा विकसितराष्ट्रमस्ति चीनः। उभयोरपि राष्ट्रयोरभिमानः माननीयः" - पुतिनः प्रावोचत्। षाङ् हाय् शिखरसम्मेलने तथा चीनस्य 'मिलिटरि परेड्' इत्यस्मिन् च भागं कृत्वा, तस्मिन्नवसरे  वार्ताहरैः सह भाषमाणः आसीत् पुतिनः।

 '6G चिप्' साक्षात्कृत्य गवेषका‌ः। 

5G अपेक्षया दशगुणितस्य शीघ्रता।

AI उपयुज्य विरचितं ६जि चिपस्य प्रतीकात्मकचित्रम्।

कैलिफोर्निया> १०० क्षणमात्रे १०० गिगा बिट्स् [100 Gbs] मिताधिकम् अन्तर्जालीयशीघ्रतां सम्प्राप्तुं शक्तियुक्तं 'प्रोटो टैप् [prototype] '6G चिप्' गवेषकैः पुष्टीकृतम्। पेकिङ्ग् विश्वविद्यालयः, City University of Hongkong, University of California, Santa Barbara इत्येतेषु विश्वविद्यालयेषु गवेषणं कुर्वन्तः तन्त्रज्ञाः एव शास्त्रमण्डले एतादृशप्रगतेः कारणभूताः जाताः। 

  वर्तमानीनस्य ५ जि युक्तस्य   अधिकतमवेगात् दशगुणिता शीघ्रता ६ जि युक्तस्य अन्तर्जालस्य अस्ति। प्रायेण सर्वेषाम् उपभोक्तॄणां  सामान्यतया लभ्यमानात् वेगात् ५०० गुणितवेगः अनेन लभते इति 'नेचर् जेर्णल्' मध्ये प्रकाशिते लेखने सूचितमस्ति।  'मिल्लीमीटर्'मात्रमानयुक्तमिदं  चिप् उपकरणं ०.५ GHzतः  आरभ्य ११५ GHz पर्यन्तं विद्यमानस्य बृहत् frequency band मध्ये प्रवर्तयितुं शक्यम् इति लेखने विशदीक्रियते।

Latest News


Friday, September 5, 2025

 मणिप्पुरे राष्ट्रियवीथिम् पुनरुद्घाटयितुं कुक्किजनसमूहस्य सम्मतिः। 

राज्ये शान्तिस्थापनं लक्ष्यम्। 

नवदिल्ली> सामुदायिकसंघर्षेण अराजकत्वं वर्तमाने मणिप्पुरराज्ये शान्तिपुनःस्थापनाय केन्द्रसर्वकार-कुक्किसमुदायश्च मिथः सन्धिमकुर्वाताम्। यात्रिकाणां सञ्चारसुविधायै अवश्यवस्तूनां सुगमानयनाय च इम्फाल-चुराचन्दपुरं राष्ट्रीय मार्गः [NH 2] पुनरुद्घाटयितुं कुक्कीसमुदायसंघटनेन अनुज्ञा दत्ता। राज्ये शान्तिसंस्थापनाय सुरक्षासेनया सह सर्वथा आनुकूल्येन व्यवहरिष्यतीति  'कुक्की सो कौसिल्' [KZC] संस्थया शपथं कृतम्। सेप्टम्बर् द्वितीयवारे प्रधानमन्त्री नरेन्द्रमोदी मणिप्पुरं सन्द्रक्ष्यति इत्यतः अयं पदक्षेपः प्राधान्यमर्हति।

 सेप्टम्बर् ७, ८ दिनाङ्कयोः भारते पूर्णं चन्द्रग्रहणम्। 

केरले 'रक्तचन्द्र'प्रतिभासः।

कोच्ची> आगामिरविवासरे सोमवासरे च आकाशम् अपूर्वविस्मयदृश्यस्य वेदिका भविष्यति। सेप्टम्बर् सप्तमदिनाङ्के पूर्णिमायां ९ वादनतः अष्टमदिनाङ्कस्य  [सोमवासरः] प्रत्युषसि २. २४ पर्यन्तं चन्द्रग्रहणं भारते अनुभववेद्यं भविष्यति। न केवलं भारते अपि तु एष्याभूखण्डमशेषं, आफ्रिकाखण्डस्य पूर्वभागेषु, आस्ट्रेलियायां च एषः दृश्यविस्मयः अनुभविष्यते। 

 रविवासरे रात्रौ ११ वादने चन्द्रः पूर्णतया आच्छाद्यते। तदा केरले चन्द्रस्य रक्तवर्णप्रतिभासः [Blue Moon] द्रष्टुं शक्यते। रक्त ओरञ्जवर्णे वा चन्द्रमण्डलं प्रतिभास्यते। ८१ मिनिट् समयं यावत् पूर्णचन्द्रग्रहणं भविष्यति।

Thursday, September 4, 2025

 राष्ट्ररक्षणाय रष्यातः अधिकं 'एस् 400' प्रतिरोधसंविधानम्। 

रष्यायां विन्यस्तम् एस् ४०० इति प्रतिरोधसंविधानम्। 

नवदिल्ली> राष्ट्ररक्षां संवर्धयितुं रष्यातः अधिकं 'एस् 400' इति प्रतिरोधसंविधानं क्रेतुं भारतप्रशासनेन निश्चितम्। वर्तमानकाले तादृशानि पञ्चसंख्याकानि क्रेतुं सन्धिरस्ति। तेषु त्रीणि भारताय दत्तानि। अवशिष्टे द्वे २०२७ तमे वर्षाभ्यन्तरे स्वीकर्तुं रष्यायाः रक्षाविभागेन सह चर्चा प्रचलन्ती अस्ति। 

  रूसराष्ट्रस्य सर्वोत्कृष्टं भूतल-व्योम अग्निशस्त्र [Surface to Air Missile]  प्रतिरोधसंविधानं भवति 'एस्  ४००'। एतदतिरिच्य भारतेन सह प्रतिरोधसहयोगं प्रबलीकर्तुं चर्चाः प्रचाल्यन्ते इति रष्यायाः Federal Service for Military Technical Co operation इत्यस्य उन्नताधिकारी दिमित्री षुगयेव् इत्यमुं पुरस्कृत्य 'टास्' इति रूसीयवार्तामाध्यमेन निगदितम्।

 केरले तद्देशनिर्वाचनार्थम् अन्तिममतदायकावलिः प्रसिद्धीकृता। 

संक्षिप्तावलीमपेक्ष्य षोडशलक्षाधिकं मतदायिनः। 

अनन्तपुरी> केरलराज्ये त्रयस्तरीय तद्देशनिर्वाचनार्थं मतदायिनाम् अन्तिमावलिः प्रसिद्धीकृता। जूलाय् मासे प्रसिद्धीकृतां  संक्षिप्तावलीमपेक्ष्य १६,३४,२१६ मतदायिनः अधिके विद्यन्ते। 

  कुजवासरे प्रसिद्धीकृतायाम् अन्तिमावल्यां २,८३,१२,४७२ मतदायिनः सन्ति। नूतनतया नामयोजनाय २९,८१,३१० अर्थिनः आसन्। मतदायकावल्यां पुनरपि परिवर्तनं भवेदिति राज्यनिर्वाचनायोगेन निगदितम्।

Wednesday, September 3, 2025

 पण्यसेवकरस्य पुनर्विभाजनं जीवनस्वास्थ्ययोगक्षेमस्य  करविमुक्तिश्च।

उच्चस्तरीयसमित्याः परामर्शमनुसृत्य भारतशासनेन पण्यसेवकरप्रणाल्यां महतीं पुनर्व्यवस्थां कर्तुं निश्चितम्। इयं नूतना करव्यवस्था आगामिनः सप्ताम्बर् मासस्य द्वाविंशतिदिनाङ्कात् प्रचलिष्यति।


अस्याः नूतनयोजनायाः अनुसारेण केवलं पञ्चप्रतिशतात्मकोऽष्टादशप्रतिशतात्मकश्चेति द्वौ एव मुख्यौ करस्तरौ स्थास्यतः। वर्तमानौ द्वादशप्रतिशतात्मकः अष्टाविंशतिप्रतिशतात्मकश्च करस्तरौ सर्वथा निरस्तौ भविष्यतः। पूर्वम् एतयोः स्तरयोः समावेशितानि सर्वाणि वस्तूनि सेवाश्च अधुना अष्टादशप्रतिशतस्तरे अन्तर्भावयिष्यन्ते। एतदतिरिक्तं सुवर्णरजतहीरकादिबहुमूल्यवस्तुभ्यः त्रिप्रतिशतात्मक एको विशिष्टः करस्तरः अपि प्रतिष्ठापयिष्यते।


सर्वप्रधानं यत् जीवनयोगक्षेमस्य ( Life insurance) स्वास्थ्य-योगक्षेमस्य  पण्यसेवकरः पूर्णतया विमोक्ष्यते। तथा च अमुद्रितानि खाद्यवस्तून्यपि अस्मात् करभारान्मुक्तानि भविष्यन्ति। शासनस्य उद्देश्योऽस्ति यदनेन सरलीकृतेन विधानेन सामान्यजनानाम् उपरि आर्थिकभारो लघूभविष्यति समग्र-करप्रणाली च सुगमतरं भविष्यति॥

 अतिवृष्टिः

दिल्ल्यां जलोपप्लवभीतिः। 

नवदिल्ली> अनुस्यूततया अनुवर्तमानया अतिवृष्ट्या राष्ट्रराजधान्यां जलोपप्लवभीतिः वर्तते। नगरेण प्रवहन्त्यां यमुनानद्यां जलवितानं गतदिने जागरूकताङ्कनमतीतम्। अस्मिन् वर्षे प्रथमतया एव एतादृशरीत्या जलवितानम् अत्युच्चमुपस्थितम्। 

  नदीतटे निम्नप्रदेशमधिवसन्तः जनाः सर्वकारेण समाश्वासशिबिरं नीताः। हिमालये अनुवर्तमाना घोरवृष्टिः एव यमुनायां जलवितानवर्धनस्य कारणम्।

Tuesday, September 2, 2025

 अफ्गानिस्थाने महान् भूकम्पः 

८०० जनाः मृताः; २५०० क्षताः।

काबूल्> अफ्गानिस्थानस्य पूर्वीयक्षेत्रे रविवासरे रात्रौ दुरापन्ने महति भूकम्पे ८०० जनाः मृत्युमुपगताः। २५०० अधिके जनाः आहताः। भूकम्पावशिष्टेषु बहवः लग्नाः इत्यतः मृत्युसंख्या अधिका भवेदिति तालिबानप्रशासनेन निगदितम्। 

  जलालाबादनगरस्य २७ कि मी दूरे आसीत् भूकम्पस्य प्रभवकेन्द्रम्। भूकम्पमापिन्यां तीव्रता षट् अङ्किता। बहूनि अनुवर्तकम्पनानि च जातानि।

 एष्या चषक होक्की 

कसाकिस्थानस्य उपरि बृहद्विजयः। [१५ -०]

राजगिरिः> एष्या चषक होक्कीस्पर्धायां भारतस्य तृतीये प्रतिद्वन्द्वे कसाकिस्थानं प्रत्युत्तररहितैः १५ लक्ष्यकन्दुकैः पराजयत। अनेन अनुस्यूतविजयत्रयेण पूल् ए विभागे भारतम् प्रथमस्थानमावहति।

Monday, September 1, 2025

 एष्या चषक होक्की

भारतस्य 'सूपर् ४' स्थानं प्रतिष्ठितम्।

राजगिरिः> अनुस्यूततया द्वितीयविजयेन एष्या चषक यष्टिक्रीडास्पर्धायाः 'सूपर् ४' इत्यस्मिन् चरणे भारतस्य स्थानं लब्धम्। 'पूल् बि' प्रतिद्वन्द्वे जापानं ३-२ इति लक्ष्यकन्दुकक्रमेण पराजयत। 

  भारताय नायकः हर्मन् प्रीत सिंहः लक्ष्ययुगलं प्राप्तवान्। मन दीप सिंहः एकमपि सम्प्राप्तवान्। परं कसाकिस्थानं विरुध्य प्रतिद्वन्द्वः भारताय अवशिष्यते।

 नरेन्द्रमोदिने वन्दे मातरगीतेन चीने स्वागतम्।

चीने नरेन्द्रमोदिने लब्धं स्वीकरणम्। 

टियान् जिन्> एस् सि ओ शिखरसम्मेलनाय टियान् जिनं प्राप्तं भारतप्रधानमन्त्रिणं नरेन्द्रमोदिनं तत्रस्थः भारतीयजनततिः हृद्यतया स्वीचकार। शनिवासरे बिन्हाय् विमाननिलयं प्राप्तं मोदिनं भारतस्य चीनस्य च अधिकारिणः रक्तास्तरणं प्रसार्य स्वीचक्रुः। अनन्तरं वासस्थानं प्राप्तवति तत्र प्रतीक्षमाणाः भारतीयाः "भारत माता की जय्" आह्वानेन तथा 'वन्दे मातर'गीतालपनेन च स्वीचक्रुः। कथक् ओडीसी इत्यादीनि भारतीय कलारूपाणि, सितार्, सिन्दूर्, तबला इत्यादीनि वाद्योपकरणानि च स्वीकरणवेलायाम् उपयुक्तानि च।

Sunday, August 31, 2025

 नेहरु ट्रोफी नौकाक्रीडा - 'वीयपुरं चुण्टन्' किरीटं प्राप। 

वि बी सी कैनकरी नामिका नौका प्रथमस्थानं प्राप्नोति। 

आलप्पुष़ा> नौकाक्रीडास्पर्धासु अन्ताराष्ट्रप्रशस्तिमापन्ने  नेहरु ट्रोफी जलोत्सवे चुण्टन् नामकनौकानां स्पर्धायां 'विल्लेज् बोट् क्लब् कैनकरी' [VBC Kainakari] इति नौकसंघटनेन नीयमाना वीयपुरं नामिका नौका अन्तिमस्पर्धायां विजयकिरीटम् अधरत्। 

  ४ मिनेट् २१. ०८४ सेकन्ड् समयं स्वीकृत्य १. ११० कि मी दूरं वीयपुरं चुण्टन् तरणमकरोत्। 'मैक्रो सेकन्ड्' समयस्य व्यत्यये आसीत् इतराः चुण्टन् नौकाः अन्तिमाग्रं स्पृष्टवत्यः। २१ चुण्टन् नौकाः अस्मिन् वर्षे स्पर्धायां भागमकुर्वन्।

 केरलस्य दीर्घतमस्य सुरङ्गमार्गस्य निर्माणोद्घाटनम् अद्य। 

भारते तृतीयः दीर्घतमसुरङ्गमार्गः।


कोष़िक्कोट्>  कोष़िक्कोट्तः वयनाटं प्रति गमनागमनं सुगमं कर्तुं युगलसुरङ्गमार्गस्य निर्माणोद्घाटनं रविवासरे सायं मुख्यमन्त्री पिणरायि विजयः करिष्यति। कोष़िक्कोट् जनपदस्थे आनक्कां पोयिल् स्थाने कल्लाटि स्थानात् वयनाटस्थं मेप्पाटि स्थानपर्यन्तं ८. ११ किलोमीटर् दीर्घः मार्गः अस्ति एषः। वर्तमानीनस्य तामरश्शेरि कन्दरमार्गसमस्यानां शाश्वतपरिहारः अनेन मार्गेण शक्यते। 

 २१३४ कोटि रूप्यकाणां व्ययं प्रतीक्षमाणः अयं मार्गः भारतस्य दीर्घतमसुरङ्गमार्गेषु तृतीयस्थानं वक्ष्यति।