OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 31, 2025

 केरलस्य दीर्घतमस्य सुरङ्गमार्गस्य निर्माणोद्घाटनम् अद्य। 

भारते तृतीयः दीर्घतमसुरङ्गमार्गः।


कोष़िक्कोट्>  कोष़िक्कोट्तः वयनाटं प्रति गमनागमनं सुगमं कर्तुं युगलसुरङ्गमार्गस्य निर्माणोद्घाटनं रविवासरे सायं मुख्यमन्त्री पिणरायि विजयः करिष्यति। कोष़िक्कोट् जनपदस्थे आनक्कां पोयिल् स्थाने कल्लाटि स्थानात् वयनाटस्थं मेप्पाटि स्थानपर्यन्तं ८. ११ किलोमीटर् दीर्घः मार्गः अस्ति एषः। वर्तमानीनस्य तामरश्शेरि कन्दरमार्गसमस्यानां शाश्वतपरिहारः अनेन मार्गेण शक्यते। 

 २१३४ कोटि रूप्यकाणां व्ययं प्रतीक्षमाणः अयं मार्गः भारतस्य दीर्घतमसुरङ्गमार्गेषु तृतीयस्थानं वक्ष्यति।