OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, December 6, 2025

 एकदिनक्रिकटे विशाखविजयः। 

भारतस्य परम्पराप्राप्तिः।

यशस्वी जयस्वालस्य शतकप्राप्तिः। 

विशाखपट्टणं> दक्षिणाफ्रिकां विरुध्य विशाखपट्टणे सम्पन्ने तृतीये अन्तिमे एकदिनक्रिकट् प्रतिद्वन्द्वे भारतस्य अनुपमविजयः। दक्षिणाफ्रिकां नव द्वारकैः पराजित्य भारतं परम्परां सम्प्राप। 

  ५० क्षेपणचक्रेषु १० ताडकानां विनष्टे २७० धावनाङ्काः दक्षिणाफ्रिकया सम्पादिताः। प्रत्युत्तरक्रीडायां केवलमेकस्य कन्दुकताडकस्य विनष्टे २७१ धावनाङ्कान् सम्पाद्य भारतेन परम्परा प्राप्ता २ - १। ६१ कन्दुकेषु अवशिष्टेषु आसीत् भारतस्य उज्वलविजयः। यशस्वी जयस्वालस्य शतकं (११६), विराट कोहली (६५), रोहित शर्मा च अर्धशतकं च प्राप्तवन्तौ।

Latest news

 केरलस्य प्रादेशिकसर्वकारनिर्वाचनम्। 

प्रथमसोपानाय सघोषप्रचरणं श्वः समाप्यते। 

अनन्तपुरी> केरले प्रादेशिकानां स्वयंशासनसंस्थानां कृते सदस्यनिर्वाचनप्रचारणं शक्तिमता प्रचलति। राज्यप्रशाशकाः वामपक्षदलीयाः [LDF] विपक्षिकाः ऐक्यजनाधिपत्यदलीयाः [UDF] च समासमं प्रचारणे प्रगच्छन्ति। भा ज पा दलीयाश्च आत्मविश्वासेन तेषां शक्तिप्रकाशनाय कठिनप्रयत्नं कुर्वन्ति च। 

  कुजवासरे गुरुवासरे च चरणद्वयेन निर्वाचनं सम्पत्स्यते। कुजवासरे निर्वाचनं सम्पद्यमानेषु तिरुवनन्तपुरं, कोल्लं, पत्तनंतिट्टा, आलप्पुष़ा, इटुक्की, कोट्टयम्, एरणाकुलम् इत्येतेषु  ७ जनपदेषु सघोषप्रचरणं श्वः समाप्यते। इतरेषु ७ जनपदेषु कुजवासरस्य षट्वादनपर्यन्तं सघोषप्रचरणाय कालः विद्यते।

 अवरजानां होक्की विश्वचषकः। 

भारतं पूर्वान्त्यचक्रे। 

पूर्वान्त्यचक्रं प्रविष्टस्य भारतदलस्य आह्लादः। 

चेन्नै> अवरजानां होक्की विश्वचषके [Junior Hokkey Worldcup] भारतं बल्जियं पराजित्य पूर्वान्त्यचक्रं प्राविशत्। अत्यन्तोत्साहयुक्ते प्रतिद्वन्द्वे दलद्वयमपि निश्चितसमये लक्ष्यद्वयं सम्पाद्य समस्थितिमभजत। ततः त्वरितलक्ष्यवेधने [Penalty Shoot out] ४ - ३ इति क्रमेण भारतं विजयतीरं प्राप्नोत्। रविवासरस्य पूर्वान्त्यस्पर्धायां जर्मनी अस्ति प्रतिद्वन्द्वी।

 भारत-दक्षिणाफ्रिका 

अन्तिमम् एकदिनम् अद्य। 

विशाखपत्तनं> भारत-दक्षिणाफ्रिकयोः अन्तिमा तृतीया च एकदिनक्रिकट् प्रतिस्पर्धा अद्य मध्याह्ने १. ३० वादने आरप्स्यते। यो दलः विजयं प्राप्स्यति तस्मै परम्परां प्राप्तुमर्हति। 

  अतीते स्पर्धाद्वये अपि विनष्टोत्क्षेपनिर्णयः भारतीयदलः एकस्यां विजयं अन्यस्यां पराजयमपि रोचते स्म।

 भारताय तैलेन्धनं अनुस्यूतं प्रदास्यते इति पुतिनः।

नवदिल्ली> भारताय तैलेन्धनं प्रदातुं रष्यः सज्जः इति रष्यस्य राष्ट्रपतिः व्लादिमीरः पुतिनः अवदत्। रष्यातः तैलस्य आनयनं स्थगयितुं भारतस्योपरि अमेरिकः महासम्मर्दः क्रियमाणः अस्ति। सन्दर्भेऽस्मिन् भवति पुतिनस्य इदं खापनम्। भारत रष्ययोः मिथः भाषणवेलायाम् आसीत् पुतिनस्य इदं ख्यापनम् ॥

 व्योमयात्रायां प्रतिसन्धिः। 

इन्डिगोसंस्थायाः उपसहस्रं विमानानि निरस्तानि। 

इन्डिगोप्रतिसन्धौ आशङ्काकुलाः यात्रिकाः। 

नवदिल्ली> अतीते दिनद्वये इन्डिगोसंस्थायाः विमानसेवा  अव्यवस्थीकृता जाता। द्वित्राणि दिनान्यपि एषः क्रमभङ्गः अनुवर्तिष्यते इति सूच्यते। 

  वैमानिकानां सेवानिष्कर्षे विधत्तेन परिवर्तनेन जातः वैमानिकदौर्लभ्य एव प्रतिसन्धेः कारणम्। सहस्रशः यात्रिकाः दिनद्वयेन क्लेशमनुभवन्ति। 

  यात्राप्रतिसन्धौ विपक्षदलीयसदस्याः संसदः अन्तः बहिश्च प्रतिषेधः विधत्तः। विषये गृहमन्त्रिणः अमित शाहस्य व्यवहारे जाते डि जि सि ए इत्यनेन समस्यापरिहाराय प्रक्रमः आरब्धः। शनिवासरादारभ्य प्रतिसन्धेः लाघवं भविष्यतीति इन्डिगो संस्थायाः सि ई ओ पदीयः पीटर् एल्बेर्स् इत्यनेन प्रस्तुतम्।

Friday, December 5, 2025

केरलेषु संस्कृतदिनाचरणं सम्पन्नम्।

  कालटी> केरलसर्वकारस्य राज्यस्तरीयं संस्कृदिनाचरणं अद्य सम्पूर्णम् अभवत्।  कलटी श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य परिसरे आसीत् मेलनम्। कार्यक्रमस्य अध्यक्षः शैक्षिकविभागस्य उपनिर्देशकः श्री. षिबु आर् आसीत्। कार्यक्रमस्य उद्घाटनं संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफ. गीताकुमारी अकरोत्।  संस्कृतभाषायां विद्यमानां वैज्ञानिकतां ज्ञात्वा एव विदेशीयाः संस्कृतभाषाध्ययनाय  समागताः सन्ति इति महाभागया उक्तम्। 

 चिकित्सार्थं खालिदा सिया लण्टनं नीयते। 


धाक्का> धाक्कास्थे आतुरालये अतिक्लिष्टावस्थायां परिचरणे वर्तमाना बङ्गलादेशस्य भूतपूर्वप्रधानमन्त्री बी एन् पी दलस्य अध्यक्षा च खालिदा सिया श्रेष्ठचिकित्सार्थं लण्टनं नेष्यते। खालिदायाः  परिचरणं कुर्वतः  वैद्यसंघस्यायं निर्णयः। अद्य रात्रौ खत्तरस्य 'रोयल् एयर् आम्बुलन्स्' द्वारा भवेत् तस्याः गमनम्।

 श्रीलङ्कायां भारतेन 'बेय्लिसेतुः' निर्मीयते। 

कोलम्बो> डिट् वा चक्रवातस्य दुष्प्रभावात् जातेन प्रलयेन महान्तं विनाशं दुरापन्ने श्रीलङ्काराष्ट्रे बेय्लिसेतुं निर्मातुं भारतं सन्नद्धमभवत्।  सेतुनिर्माणाय उपकरणानि ५०० जलशुद्धीकरणसंविधानानि च वायुसेनायाः विमाने श्रीलङ्कामानीतानि। सेतुनिर्माणे कुशलाः तन्त्रविदः,  दुरन्ताधीनानां साहाय्यार्थं वैद्यानभिव्याप्य २२ अङ्गोपेतः संघश्च श्रीलङ्कां प्राप्ताः। 

  ओपरेषन् सागरबन्धुः इत्यस्य अंशतया एव भारतस्य साह्यम्। गतसप्ताहे दुरापन्ने प्रलये अद्यावधि ४७९ जनाः मृत्युवशं गताः। ३५० जनाः अप्रत्यक्षाः जाताः च। बहवः जनपदाः पृथक्कृताः वर्तन्ते।

 पुतिनः भारतं सम्प्राप्तवान्।

व्लादिमिर्  पुतिनः नरेन्द्र मोदी च। 

नवदिल्ली> २३ तमे भारत-रूसयोः सांवत्सरीयोच्चमेलने भागं गृहीतुं रूसराष्ट्रपतिः व्लादिमीर पुतिनः भारतं सम्प्राप्तवान्। गुरुवासरे सायं ६.३५ वादने  दिल्ल्यां पालं विमाननिलयं सम्प्राप्तं पुतिनं भारतप्रधानमन्त्री नरेन्द्रमोदी साक्षात् गत्वा स्वीकृतवान्। २०२१ तमस्यानन्तरं पुतिनस्य प्रथमं भारतसन्दर्शनं भवत्येतत्।

  कञ्चित् विदेशनेतारं विमाननिलयं गत्वा  स्वीकृतवान् इति प्रधानमन्त्रिणः नयतन्त्रप्रक्रमः अस्मिन् सन्दर्शनविषये  भारतेन प्रदत्तं प्राधान्यं सूचयति। पुतिनेन सह रूसीयवाणिज्यमण्डलस्य बृहत्संघोSपि आगतः अस्ति।

Thursday, December 4, 2025

 कोह्लिनः ऋतुराजस्य च शतकं विफलम्। 

द्वितीये एकदिने दक्षिणाफ्रिकायाः विजयः। 

रायपुरं> विराट कोह्लिनः (१०२) ऋतुराज गेय्कवादस्य (१०५) च शतकाभ्यां भारताय महान् प्राप्ताङ्कः उपलब्ध अपि दक्षिणाफ्रिकां विरुध्य द्वितीये एकदिनप्रतिद्वन्द्वे भारतं पराजयं रुरोच। भारतीयकन्दुकक्षेपकान् प्रहृत्य परवशीकृत्य दक्षिणाफ्रिका द्वारकचतुष्टयस्य विजयमग्रहीत्। 

  प्रथमे चरणे भारतेन ५० क्षेपणचक्रेषु पञ्च द्वारकाणां विनष्टे ३५८ धावनाङ्काः प्राप्ताः। प्रत्युत्तरेण दक्षिणाफ्रिका ४९.२ क्षेपणचक्रेषु षट् द्वारकाणां विनष्टे ३६२ धावनाङ्काः प्राप्ताः। दक्षिणाफ्रिकायाः पक्षतः प्रारम्भकः एय्डन् मार्क्रमः ११० धावनाङ्कान् सम्प्राप्य विजयस्य आधारशिलां रोपितवान्। ततः ब्रीट्स् के [६८ धावनाङ्काः ६४ कन्दुकैः], ब्रेविस् [५४ /३४], नायकः तेम्बा बवुमः [ ४६ ] च दक्षिणाफ्रिकां विजयमनयन्। 

  प्रथमे एकदिने भारतं विजयं प्राप्नोति स्म। अनेन स्पर्धात्रयात्मिका एकदिनपरम्परा इदानीं समस्थितिं भजते। अन्तिमा स्पर्धा शनिवासरे सम्पत्स्यते।

 रष्या-भारतशिखरमेलनं

व्लादिमिर् पुतिनः अद्य भारतं प्राप्नोति। 


नवदिल्ली> राष्याराष्ट्रपतिः व्लादिमिर् पुतिनः दिनद्वयात्मकसन्दर्शनार्थं गुरुवासरे भारतं प्राप्स्यति। उभयोरपि राष्ट्रयोः २३ तमं शिखरमेलनं शुक्रवासरे दिल्ल्यां हैदराबाद हौस् इत्यत्र सम्पत्स्यते। भारतं प्रति ट्रम्पस्य शुल्कयुद्धे अनुवर्तमाने सम्मेलनस्य प्राधान्यं कल्पते।

  व्यापार-वाणिज्यमण्डलेषु सहयोगः उभयपक्षचर्चायाः मुख्यविषयो भविष्यति। भारतात् मत्स्यविभवानां तथा आलुक-मातुलुङ्गानां च निर्याताय विपणीमारब्धुं निर्णयः अस्मिन् मेलने प्रतीक्षते। अनेन सह भारत-रूस् सैनिकसन्धेः रूसीयसंसदः अङ्गीकारः लब्धः इति सैनिकक्षेत्रे च नूतनसहयोगः भविष्यति।

 प्रधानमन्त्रिणः कार्यालयसमुच्चयस्य नाम परिष्कृतम्। 

नवदिल्ली> प्रधानमन्त्रिणः कार्यालयान्तर्भूतस्य भवनसमुच्चयस्य 'सेवातीर्थ' इति नूतनं नाम विधत्तम्। सेन्ट्रल् विस्ता अभियोजनायां निर्माणं पूर्तीकृतस्य भवनसमुच्चयस्य Executive Enclave इति  नाम आसीत्। एतन्नाम एव परिष्कृतम्। 

  एषः नामधेयपरिष्कारः न केवलं प्रशासनपरं किन्तु सांस्कृतिकं धार्मिकं चास्तीति अधिकारिभिरुक्तम्। राज्येषु राज्यपालानां भवनं लोकभवनमिति नाम्ना परिष्कर्तुं निर्णयमासीत्।

Wednesday, December 3, 2025

 डिट् वा चक्रवातः - श्रीलङ्कायै भारतस्य साहाय्यम्। 

कोच्ची> डिट् वा चक्रवातस्य दुष्प्रभावेण महान्तं क्लेशमनुभूयमानाय श्रीलङ्कराष्ट्राय भारतस्य उदारसाहाय्यं विधत्तम्। 'ओपरेषन् सागरबन्धुः' इति कृतनामधेयस्य साहाय्यस्य अंशतया ५३ टण् मितानि अवश्यवस्तूनि लङ्कामुपनीतानि। श्रीलङ्कायां लग्नाः २००० भारतीयाः स्वराष्ट्रमानीताः। 

  भारतनौसेनायाः नेतृत्वे दुरिताश्वासप्रवर्तनानि अनुवर्तन्ते। ऐ एन् एस् विक्रान्तः, ऐ एन् एस् उदयगिरिः इत्येतयोः महानौकयोः नेतृत्वे रक्षाप्रवर्तनानि आरब्धानि। महानौकाभ्यां उदग्रयानानि विन्यस्य रक्षाप्रवर्तनानि ऊर्जस्वलेन प्रचलन्ति।

 राष्ट्रपतिः अद्य केरले।


अनन्तपुरी> नौसेनादिनोत्सवे भागं कर्तुं राष्ट्रपतिः द्रौपदी मुर्मू वर्या अद्य सायं केरलं सम्प्राप्नोति। नौसेनादिनोत्सवे मुख्यातिथिः भवति  राष्ट्रपतिः। सेनया सज्जीकृतं चलच्चित्रद्वयं [Telefilm] राष्ट्रपतेः पुरतः प्रदर्शयिष्यते।  ततः लोकभवनं प्राप्यमाणा मुर्मूवर्या गुरुवासरे प्रातः ९. ४५ वादने दिल्लीं प्रतिनिवर्तयिष्यति।

 'ब्रह्मोस्' निर्माणाय केरलम् अनुज्ञितम्। १८० एकरमितम्।

सशस्त्रसीमाबलाय ४५ एकरमितं, फोरन्सिक् विश्वविद्यालयाय ३२ एकरमितं च।


नवदिल्ली> केरले 'ब्रह्मोस्' नामकाग्निबाणस्य निर्माणाय  भूमिम् दातुं राज्यसर्वकाराय सर्वोच्चन्यायालयस्य अनुज्ञा लब्धा।  तिरुवनंतपुरं जनपदस्थस्य  नेट्टकाल्त्तेरी अपावृतकारागृहस्य  [Open Jail] १८० एकरमितं भूमिं केन्द्रप्रशासनस्य ब्रह्मोस् निर्माणसंस्थायै दातुं न्याया. विक्रमनाथस्य आध्यक्षे वर्तमानेन नीतिपीठेन आदिष्टम्। केरलसर्वकारस्य अर्थनायामासीत् नीतिपीठस्य अनुज्ञा। 

  Brahmos Airospace Trivandrum Ltd (BATL) संस्थायै भूमिदानेन राष्ट्रसुरक्षा, प्रतिरोधाभिवृद्धिः इत्यादीनां साक्षात् योगदानाय शक्यते इति राज्यसर्वकारस्याभिमतं सर्वोच्चन्यायालयेन अङ्गीकृतम्। तथा च सशस्त्रसीमाबलम् इति केन्द्रसायुधारक्षकसेनायै [SSB] ४५ एकरमितं, Central Forensic sciences University इत्यस्मै ३२ एकरमितं च भूमिम् अनुमोदितुं राज्यसर्वकारस्य अपेक्षा च न्यायालयेन अङ्गीकृतम्।

Tuesday, December 2, 2025

 जोर्जियराज्ये रासायुधप्रयोगः। 

राज्यविरुद्धसमरान् नियन्त्रितुं जोर्जिय सर्वकारेण रासायुधप्रयोगः कृतः इत्यस्ति प्रतिवेदनम्। द्वितीये विश्वमहायुद्धे उपयुक्तं कामैट् नाम रासवस्तु अत्रापि उपयुक्तम्। यूरोपीयगणे जोर्जिया राज्यस्य प्रवेशनम् उद्दिश्य सर्वकारेण अनवरतं क्रियमाणः प्रयासः  स्थागितः इत्युक्त्वा आसीत्  समरः।

 कायिकभारताय संसदः अभिनन्दनम्। 

नवदिल्ली> इदंप्रथमतया महिलानां विश्वचषकक्रिकटकिरीटं प्राप्तवते भारतदलाय, दर्शनपरिमितानां टि - २० क्रिकट् विश्वचषकं प्राप्तवते भारतदलाय च संसदः अभिनन्दनं समर्पितम्। लोकसभाध्यक्षः ओं बिर्लवर्यः तदर्थं अभिनन्दनपत्रं प्रस्तुतवान्। 

  सोमवासरे प्रभाते सभायाः उपवेशने प्रथमं दिवंगतानां भूतपूर्वसदस्यानां कृते उपचारः समर्पितः। तेभ्यः आदरं संसूच्य  निमेषं यावत् मौनाचरणं कृतम्। तदनन्तरमासीत् कायिकभारताय अभिनन्दनं   संवृत्तम्।