डोलो ६५० गोलिकां निर्देष्टुं वैद्येभ्यः १००० कोटि रूप्यकाणि दत्तानि। प्रमाणानि लब्धानि।
OUR YouTube Channel 1. SampratiVartah |
marquee
Saturday, August 6, 2022
Friday, August 5, 2022
विद्यालयेषु जङ्गमदूरवाणीनिरोधः।उच्च-उच्चतरविद्यालयानामेकीकरणं प्रवृत्तिपथमानेष्यति।
अनन्तपुरी> केरलेषु विद्यालयेषु छात्राणां जङ्गमदूरवाणीनाम् उपयोगं कर्कशेन निरुध्य राज्यसर्वकारस्य आदेशः। विद्यालयाङ्कणे कक्ष्यासु वा छात्रैः जङ्गमदूरवाणी न उपयोक्तव्या इति सर्वकारस्य निर्णय इति शिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण निगदितम्। अध्ययनवेलायां पाठ्यानुबन्धप्रवर्तनानि विना इतरकार्यक्रमेषु छात्राणां भागभागित्वं न कारयेदिति च मन्त्रिणा निर्दिष्टम्।
उच्च-उच्चतरविद्यालयानामेकीकरणार्थं 'खादर्समित्या' निर्दिष्टानि निवेदनानि प्रवृत्तिपथमानेतुं अस्मिन् वर्षे एव यतिष्यते। तदर्थं विशिष्टावेदनानि कारयितुं उद्यमः आरब्धः इति च मन्त्री अवोचत्।
भारते उपराष्ट्रपतिनिर्वाचनं श्वः।
नवदिल्ली> भारतस्य नूतनस्य उपराष्ट्रपतेः निर्वाचनार्थं मतदानं फलप्रख्यापनं च श्वः भविष्यति। उपराष्ट्रपतिस्थानाय शासनपक्षात् एन् डि ए सख्यात् जगदीप धनकरः विपक्षदलात् मार्गरट् आल्वा च स्पर्धिष्येते। संसद्सदस्यानामेव मतदाने अधिकारः।
वर्तमानस्य उपराष्ट्रपतेः वेङ्कय्यनायिडोः कार्यकालः आगस्टमासस्य १० तमे दिनाङ्के समाप्यते। नूतनोपराष्ट्रपतेः स्थानारोहणं ११ तमे भविष्यति।
वानरज्वरव्यापनं निरोदधुं मार्गनिर्देशाः प्रकाशिताः। वाक्सिनं संस्फुटीकर्तुं सजीवचर्चा प्रचलति।
नवदिल्ली> वानरज्वरव्यापनं निरोद्धुं स्वास्थ्यमन्त्रालयेन मार्गनिदेशाः प्रकाशिताः। रोगिणा साकं प्रत्यक्षसम्पर्केण, रोगिणः शरीरस्रवाणां व्रणानां च सम्पर्केण, रोगिणा उपयुज्यमानानां वस्तूनां परोक्षसम्पर्केण च रोगस्य संक्रमणसाध्यता अस्ति इत्यतः ते त्यजनीयाः इति निर्देशे सूचयति। रोगसम्बन्धीनि व्याजप्रचारणानि न करणीयानि इति मन्त्रालयेन आवेदितम् अस्ति।
Thursday, August 4, 2022
वङ्गसमुद्रे न्यूनमर्दसाध्यता। अतिवातेन सह प्रवर्षाः भविष्यन्ति। अतिजाग्रता पालनीया।
तय्वानं परितः समुद्रेषु चीनस्य आकाशबाणवर्षः। युद्धविमानानि समुद्रसीमामुलङ्घितानि।
Wednesday, August 3, 2022
अतिवृष्टिदुष्प्रभावः अतितीव्रः - केरले ह्यः ७ मरणानि, १३ भूविच्छेदाः, जलोपप्लवः।
१२ जनपदेषु विद्यालयानां विरामः, २३०० जनाः अभयस्थानं प्राप्तवन्तः, दिनत्रयमपि वृष्टिरनुवर्तिष्यते।
कोच्ची> अतिवृष्टिः केरले तीव्रविनाशं वपन्ती अनुवर्तते। गतदिने राज्ये १३ स्थानेषु भूविच्छेदाः अभवन्। कण्णूर् जनपदे ६ स्थानेषु वयनाट्, इटुक्की, अनन्तपुरी, कोट्टयं जनपदेषु च भूविच्छेदाः जाताः। सार्धद्विवयस्कां बालिकां समेत्य ७ जनाः ह्य एव मृत्युवशं प्राप्ताः। आहत्य १२ जनाः विनष्टप्राणाः अभवन्।
१० जनपदेषु बुधवासरे गुरुवासरे च रक्तजागरूकता विज्ञापिता। शिष्टेषु ४ जनपदेषु ओरन्ज् जागरूकता च विज्ञापिता। १२ जनपदेषु समेषां विद्यालयानां शिक्षणविरामः विज्ञापितः। विश्वविद्यालयानां सर्वाः परीक्षाश्च व्याक्षिप्ताः।
विविधजनपदेषु जलोपप्लवेन वासस्थाननष्टेन च २३०० जनाः समाश्वासशिबिराणि प्राप्तवन्तः। सर्वकारेण समाश्वासप्रक्रियाः दुरन्तस्थानेषु रक्षाप्रवर्तनानि च समारब्धानि।
सवाहिरिः यू एस् सैन्येन हतः।
वाषिङ्टण्> अल् खायिदा इति भीकरसंघटनस्य नेता अय्मान् अल् सवाहिरिः [७१] यू एस् सैन्येन हतः। अफ्गानिस्थानस्य राजधानीभूते काबूलस्थे षेरपुरं नामके स्थाने सपरिवारं अज्ञातवासं कुर्वन्नासीत् सवाहिरिः। तत्स्थानं प्रति रविवासरे कृतेन 'ड्रोण्' अग्निशस्त्राक्रमणेन सवाहिरिः हतः इति यू एस् राष्ट्रपतिः जो बैडनः विश्वं न्यवेदयत्।
न्यूयोर्कस्थं वाणिज्यभवनसमुच्चयं लक्ष्यीकृत्य २००१ सेप्टंम्बर् ११ दिनाङ्के संवृत्तस्य भीकराक्रमणस्य मुख्यसूत्रधारः, तथा नेतुः बिन् लादस्य दक्षिणहस्तीयश्च आसीत् सवाहिरिः। २०११ तमे वर्षे बिन् लादनस्य हत्यानन्तरं सवाहिरिः अल् खायिदायाः प्रथमनेता भूत्वा अमेरिक्काम् इतरराष्ट्राणि च विरुध्य भीकरप्रवर्तनानां कपटनिगूढायोजनं कुर्वन्नासीत्। यू एस् राष्ट्रेण अस्य २. ५ कोटि डोलर् परिमितं शिरोमूल्यं प्रख्यापितमासीत्।
चीनस्य अनियन्त्रितानि आकाशबाणावशिष्टानि सिन्धुमहासमुद्रे पतितानि।
नियन्त्रणं विना भूमिं लक्ष्यीकृत्य आगतस्य चीनस्य लोङ् मार्च५ बि नाम आकाशबाणस्य अवशिष्टानि सिन्धुमहासागरे (Indian ocean) पतितानि। मलेष्यायाः सरावाक् नाम राज्यस्य समीपे एव एतानि पतितानि। भारतीयकालगणनानुसारं रात्रौ१०.१५ वादने अग्निबाणावशिष्टानि सागरे पतितानि इति यु एस् बहिराकाशशासनेन दृढीकृतम्।
Tuesday, August 2, 2022
भारते वाणिज्यपाकेन्धनमूल्यं न्यूनीकृतम्।
कोच्ची> राष्ट्रे वाणिज्यापेक्षितानां एल् पि जि पाकेन्धनकोशस्य मूल्ये ३६ रूप्यकाणां न्यूनता कृता। अनेन कोच्चिनगरे १९ किलोपरिमितस्य पाकेन्धनगोलस्य मूल्यं १९९१ जातम्। पूर्वमेतत् २०२७ आसीत्। किन्तु गार्हिकावश्यकाणां कृते उपयुज्यमानानां गोलकानां मूल्ये व्यत्ययः नास्ति। १०६० रूप्यकमूल्यं वर्तते। गतमासे गार्हिक एल् पि जि पाकेन्धनकोशस्य मूल्ये ५० रूप्यकाणां वृद्धिः कारिता आसीत्।
'कोमण् वेल्त्' कायिकस्पर्धा - भारतेन ८ पतकानि प्राप्तानि।
बर्मिङ्हामः> यू के राष्ट्रे समारब्धा कोमण् वेल्त्' कायिकस्पर्धा दिनचतुष्टये अतीते भारतं षष्ठस्थानं प्राप्य अभिमानार्हे मार्गे वर्तते। त्रीणि सुवर्णपतकानि, त्रीणि रजतानि, द्वे कांस्यपतके च भारताय लब्धानि। २३ सुवर्णानि समेत्य ५६ पतकैः आस्ट्रेलिया प्रथमस्थाने विद्यते। १५ सुवर्णैः सह ३६ पतकलाभेन इङ्लाण्ट् द्वितीयस्थानं वहति।
केरले अतिवृृष्टिः - ४ मरणानि, सर्वत्र विनाशः।
विद्यालयेषु अद्य विरामः।
अनन्तपुरी> केरलराज्ये दिनद्वयेन अनुवर्तमानया अतिवृष्ट्या दक्षिण-मध्यकेरलेषु सर्वत्र व्यापकतया नाशनष्टाः जाताः। अनन्तपुरी, कोट्टयं जनपदयोः एकैकः मृत्युं प्राप्तः। मत्स्यबन्धनाय समुद्रं गतवन्तौ द्वौ जलयानदुर्घनया अदृष्टौ अभवताम्।
वृष्टिप्रकोपेन राज्ये ९० जनाः वासगृहाणि त्यक्त्वा अभयकेन्द्राणि प्राप्तवन्तः। कोल्लं, पत्तनंतिट्टा, इटुक्की, तृश्शूर्, कोट्टयं, वयनाट् जनपदेषु सप्त पुनरधिवासशिबिराणि उद्घाट्तानि।
कोट्टयं जनपदे पञ्च स्थानेषु भूविच्छेदाः जाताः। ४८ वासस्थानानि भागिकतया विशीर्णानि। इटुक्की, पत्तनंतिट्टा जनपदेष्वपि मृत्प्रपाताः जाताः। विद्यालयेषु मङ्गलवासरे विरामः प्रख्यापितः। आराज्यम् अतिवृष्टिः दिनद्वयमपि अनुवर्तिष्यते इति पर्यावरणविभागेन निगदितम्।
Monday, August 1, 2022
गगने संदृष्टः उत्कावर्षो न। चीनीयाकाशबाणस्य अवशिष्टानि एव।
Saturday, July 30, 2022
पञ्चदशसंवत्सराधिक पुरातनानि यानानि षण्मासाभ्यन्तरे निरोधितव्यानि इति हरितव्यवहारसभायाः निर्देशः।
यानेम्यः निर्गतं मलिनीकरणम् अपनेतुं पुरातनयानानि क्रमेण निरोद्धुं भारतं सज्जते। एतस्य अनुबन्धतया पञ्चदश संवत्सराधिकपुरातनान् कार् यानान् आहत्य निरोधयितुं हरितव्यवहारसभया पश्चिमवंगदेशाय निर्देशो दत्तः। आगामि षण्मासाभ्यन्तरे पञ्चदश संवत्सराधिकपुरातनानि यानानि यानमार्गात् अपनेतुमेव हरितव्यवहारसभया निर्देशो दत्तः।
Friday, July 29, 2022
मध्ये मध्ये दुर्घटनया पतति। मिग् २१ युद्धविमानानि २०२५ संवत्सराभ्यन्तरे पूर्णतया त्यक्तुं परिगणयति।
राष्ट्रस्य अभिमानः ऐ एन् एस् विक्रान्तः भारतीयनाविकसेनायै समर्पितः।
कोच्चि> राष्ट्रे इदंप्रथमतया स्वदेशे निर्मिता ऐ एन् एस् विक्रान्तः नाम विमानवाहिनीमहानौका भारतीयनाविकसेनायै समर्पिता। भारतीयनाविकसेनायाः कृते विक्रान्त् सेनाध्यक्षेण विध्याधर् हार्के महोदयेन कोच्चिन् नौकाशालायाः सि एम् डि मधु एस् नायर्वर्यस्य सकाशात् औद्योगिकं प्रमाणपत्रं स्वीकृतम्। नाविकसेनायाः कोच्चि नौकाशालायाः च मुख्यकर्मकराणां सान्निध्ये एव समर्पणं सम्पन्नम्। आगामि मासस्य प्रथमसप्ताहे प्रधानमन्त्री नरेन्द्रमोदी महानौकायाः कार्यानुष्ठानं (commission) करिष्यति इति प्रतिवेदनमस्ति।Thursday, July 28, 2022
'कोमण् वेल्त्' कायिकक्रीडास्पर्धाः अद्य आरभन्ते।
पतकशतकमालक्ष्य भारतम्।
बर्मिङ्हाम्> २२ तमः 'कोमण् वेल्त् राष्ट्राणां कायिकक्रीडास्पर्धाः अद्य यू के राष्ट्रे बर्मिङ्हामनगरे आरभन्ते। ११ दिवसकालीनायम् अस्यां क्रीडास्पर्धायां ७२ राष्ट्रेभ्यः पञ्चसहस्रं कायिकक्रीडकाः भागं करिष्यन्ति। २८० संख्याकाः पतकाधिकरणाः सन्ति।
एषु प्रतिद्वन्द्वेषु १०० पतकानि भारतेन लक्ष्यीक्रियन्ते। २१५ क्रीडकाः भारतं प्रतिनिधीभूय स्पर्धिष्यन्ति। पिच्छकन्दुक-भारोद्वहन-मल्लयुद्धादिषु स्पर्धासु भारताय सुवर्णप्रतीक्षा अस्ति।
Wednesday, July 27, 2022
आनमला छायाप्राचिका - केरलेषु सूचीप्राचिकायाः नूतनप्रभेदः संदृष्टः।
Tuesday, July 26, 2022
रोगः वर्धते । वानरज्वरः आविश्वसांक्रमिकव्याधिः इति ख्यापयित्वा विश्वस्वास्थ्यसंस्था।
जनीव> वानरज्वरः आविश्वसांक्रमिकव्याधिः इति विश्वस्वास्थ्यसंस्थया ख्यापितः। व्याधिरयं सर्वराष्ट्रेषु अपि बाधिते सन्दर्भे एव प्रक्रमोऽयम्। विश्वस्वास्थ्यसंस्थया आयोजिते आपत्कालीनमेलने एव निर्णयोऽयम् स्वीकृतः। वानरज्वरः आपत्कालीन - आविश्व - सामान्यजनस्वास्थ्य - आशङ्का भवति इति विश्वस्वास्थ्यसंस्थया प्रकाशिते वार्ताटिप्पण्यौ विशदयति ।
कोविड्रोगबाधितेषु रोगशमनानन्तरं स्मृतिभ्रंशः विषादः च व्याप्यते।
कोविड्रोगबाधितेषु रोगशमनानन्तरं स्मृतिभ्रंशः मानसिकरोगसमस्याः च वर्धन्ते इति भिषग्वराः। कोविड्रोगः बहुवारं बाधितेषु मानसिकसम्मर्दः, स्मृतिभ्रंशः, विषादः च वर्धन्ते इति भिषावराः सूचयन्ति। कोविड्रोग: रक्तनालिकायां स्वाभाविकरक्तप्रवाहस्य विघ्नकारणं भवति। बहुवारं कोविड्रोगः बाधते चेत् तत् मस्तिष्के स्वाभाविकरक्ततप्रवाहान् बाधते। न्यूनरक्तप्रवाहस्य मुख्यलक्षणानि भवन्ति स्मृतिभ्रंशः विषादः, अत्युत्कण्ठा, निद्राभङ्गः, उन्मेषनाशः च।
राष्ट्रपतिः द्रौपदी मुर्मू महाभागायाः जीवितचरित्रं विरचितवती त्रयोदशवयस्का विख्याता अभवत्।
त्रयोदशवयस्का भाविका महेश्वरी भारतस्य पञ्चदशतमराष्ट्रपतेः द्रौपदी मुर्मू महा भागायाः जीविनकथां विरच्य अतितोषम् अनुभवन्ती विराजते। सूरट् स्वदेशीया भाविका अष्टमकक्ष्यायाः छात्रा भवति। प्रचोदकप्रभाषिका, ग्रन्थद्वयस्य रचयिता इत्येवं रूपेण निपुणेयं उतरभारतस्य सांस्कृतिकमण्डलेषु प्रसिद्धा भवति।
Sunday, July 24, 2022
चीना-भारतसीम्नि अप्रत्यक्षेषु नवदश भारतीयकर्मकरेषु सप्तकर्मकराः भारतीयव्योमसेनया संदृष्टः।
शिक्षकनियुक्तौ भ्रष्टाचारः - वंगस्य मन्त्री मित्रं च निगृहीतौ।
कोल्कोत्ता> पश्चिमवंगराज्ये विद्यालयेषु शिक्षकाणां नियुक्तौ आर्थिकभ्रष्टाचारः कृतः इत्यपराधमालक्ष्य राज्यस्य उद्योगमन्त्री पार्थ चाटर्जी तस्य मित्रम् अर्पिता मुखर्जी नामिका अभिनेत्री च प्रवर्तननिदेशालयेन [ई डि] निगृहीतौ। अर्पिता मुखर्जेः गृहात् २१. २ कोटि रूप्यकाणि, ५४ लक्षरूप्यकाणां विदेशमुद्राः, ७९ लक्षंरूप्यकमूल्ययुक्तानि सुवर्णाभरणानि च निगृहीतानि।
यदा पार्थ चाटर्जी शिक्षामन्त्री आसीत् तदा विद्यालयेषु अध्यापकनियुक्तये उद्योगार्थिजनेभ्यः महद्रूप्यकाणि उत्कोचरूपेण स्वीकृतानि इत्यारोपः। अर्पितायाः गृहे आसीत् तानि सम्भृतानीति ई डि संस्थया प्रमाणीकृतम्।
Saturday, July 23, 2022
राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। कैरल्यै ८ पुरस्काराः।
नवदिल्ली> भारतस्य २०२० तमसंवत्सरस्य राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। तमिलभाषातः 'सूररै पोट्र्' नामकं चित्रं श्रेष्ठतमं चलच्चित्रमिति पुरस्काराय चितः। तस्मिन्नेव चलच्चित्रे अतुल्यमभिनयं प्रदर्शितवन्तौ नायिकानायकौ अपर्णा बालमुरलिः, सूर्यः च यथाक्रमं श्रेष्ठतमौ नटीनटौ अभवताम्। अजय देवगण् नामकः बोलिवुड् चलच्चित्रनटः अपि श्रेष्ठतमनटस्य पुरस्काराय सहभाजी जातः।
कैरल्यां बहवः प्रतिभाधनाः चलच्चित्रकलाकाराः अस्मिन् पुरस्कारनिर्णये बहुमानिताः। 'अय्यप्पनुं कोशियुम्' इति चित्रस्य निदेशकः सच्ची [सच्चिदानन्दः] अस्ति श्रेष्ठतमः निदेशः। एषः पुरस्कारः तस्मै मरणानन्तर बहुमतिरभवत्। एतस्मिन्नेव चलच्चित्रे गानानि गीतवती नञ्चियम्मा नामिका वनवासिगायिका एव श्रेष्ठतमा गायिका। कैरल्याः प्रतिभाधनः अभिनेता बिजुमेनोनः अय्यप्पनुं कोशियुम्' इति चित्रेण श्रेष्ठतमः सहाभिनेता जातः। वाणिज्यचलच्चित्रक्षेत्रे ८ पुरस्काराः मलयालभाषायै सम्मानिताः।
Friday, July 22, 2022
बालिका-बालक विद्यालयाः न आवश्यकाः इति बालधिकारसमितिः।
तिरुवनन्तपुरम्> राज्ये बालिकाविद्यालयाः बालकविद्यालयाः च स्थगयितुं बालाधिकारसमित्या निर्देशो दत्तः। विद्यालयेषु पुंस्त्रीभेदौ न आवश्यकौ। भेदोऽयं लिङ्गनीतिनिषेधः भवति इत्येव बालाधिकारसमित्याः निरीक्षणम्। अञ्चल् स्वदेशीयेन डो. ऐसक् पोल् नामकेन प्रदत्तं याचनापत्रं पुरस्कृत्यैव बालाधिकारसमित्या चरित्रप्रधाननिर्देशो दत्तः ।
.jpeg)



.webp)



