कोच्ची > केरलेषु संस्कृत-शिक्षामण्डले सारभूतैः योगदानैः संस्कृतप्रचारणे तथा संस्कृताध्यापकानां योगक्षेमे च अनुस्यूतं प्रवर्तमानायाः केरल संस्कृताध्यापक-फेडरेषन् नामिकायाः संस्थायाः ३८तमं राज्यस्तरीयसम्मेलनं जन्मभूमौ कोल्लं नगरे फिब्र. १८,१९ २० दिनाङ्केषु प्रचलिष्यति। उद्घाटनसम्मेलनेन सह प्रतिनिधि-सांस्कृतिक- विद्याभ्यास- संस्कृत-सेवननिवृत्तादरण- सार्वजनीनसम्मेलनानि एषु दिनेषु आयोजितानि।
१८ प्रभाते नववादने राज्याध्यक्षः वेणु चोव्वल्लूर् वर्यः पताकोन्नयनं करिष्यति। ततः प्रवृत्तमानं सम्मेलनं जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनं करिष्यति। दशवादने प्रतिनिधिसम्मेलनं भूतपूर्वः राज्यस्तरीयकार्यदर्शिप्मुखः कटय्कोट् सुरेन्द्रः उद्घाटयिष्यति। अनन्तरं नूतनशासनसमित्याः निर्वाचनकार्यक्रमाणि भविष्यन्ति। ६वादने सांस्कृतिकसम्मेलनं कोल्लं नगरसभायाः उपाध्यक्षया विजया फ्रान्सिस् वर्यया उद्घाटनं करिष्यते।तस्मिन्नवसरे प्रशस्तः कविः गिरीष् पुलियूर् मुख्यभाषणं करिष्यति। तत्र विविधमण्डलेषु लब्धपुरस्काराः अध्यापकप्रतिभाः समादरिष्यन्ते।
१९ दिनाङ्के १० वादने विद्याभ्यास-संस्कृतसम्मेलने भारतसंसदङ्गः एन् के प्रेमचन्द्रः उद्घाटकः भविष्यति। देवस्वं बोर्ड् समित्यध्यक्षः प्रयार् गोपालकृष्णः मुख्यभाषणं करिष्यति। ११.३० वादने सेवननिवृत्तानाम् अध्यापकानां कृते आदरः।द्विवादने आरभ्यमानं सार्वजनीनसम्मेलनं केरलस्य गतागतमन्त्री तिरुवञ्चूर् राधाकृष्णः उद्घाटनं करिष्यति।नियमसभासामाजिकः मुल्लक्करा रत्नाकरः मुख्यभाषणं करिष्यति।
२०प्रभाते दशवादने राज्यसमित्याः उपवेशनं भविष्यति।
OUR YouTube Channel 1. SampratiVartah |
marquee
Wednesday, February 17, 2016
केरलसंस्कृताध्यापकसमित्याः राज्यस्तरीयसम्मेलनं श्वः आरभते।
नासिक् - महाराष्ट्रायां नासिक् वाल्देवी जलबन्धस्य उपरि स्थित्वा सेल्फी नामकस्वार्थछायाचित्रचित्रीकरणाभ्यन्तरे जले पतित्वा द्वौ कलालयछात्रौ मृतौ।विनोदयात्रार्थमागतेषु दशछात्रेषु सौरव् जगन्नाथ (१८),अजिन्क्य बावुसाहेब् (१८)इत्यतौे एव जलसमाधिं प्राप्तवन्तौ
सि.ऐ.ए अध्यक्षः।
वाषिड़्टण् > यु एस् राष्ट्रे पुनः भीकराक्रमणं भविष्यति इति गूढसंघानां विज्ञापनम् । गत नवबंर मासे पारीस् राष्ट्रे भवितः भीकराक्रमणस्य कारणं गुप्तान्वेषणसंघस्य जाग्रताराहित्यस्य फलमेव इति सि ऐ ए (सेन्ट्रल इन्टलिजन्स् एजनसि) अध्यक्षेण जोण् ब्रेननेन उक्तः।
यद्यपि पारीस् आक्रमणानन्तरं इस्लामिक् स्टेट् भीकाराणां पद्धदीनामधिकृत्य अवगमनाय क्लेशमस्ति तथापि ते यु एस् राष्ट्रम् आक्रमितुं सज्जा भवेत् इति शङ्का नास्ति; ब्रननेन अवदत्। आतंकवादिनः
नूतन आशयविनिमय-संविधानानि उपयुज्यन्ते। एतस्य भेदनं दुष्करं भवतीति रहस्यान्वेषणसंधस्य मतम्।
पारीस् भीकराक्रमणे १३० जनाः हताः। तेषु अष्टेषु मृत्यु योध्रृषु सप्त संख्याकाः फ्रञ्च् पौराः अभवन्। "ते सिरिया राष्ट्रं गत्वा शिक्षणं प्राप्तवन्तः- इति सि ऐ ए अध्यक्षः अवदत्। पाश्चात्यराष्ट्र-इस्लामिकराष्ट्रयोः मध्ये विद्वेषमुद्पाद्य भीकरप्रवर्तनानि आयोजयितुमेव आतंकवादिनां श्रमः। ,
यु एस् ऐतेषु राज्येषु अधीशत्व स्थपनाय श्रमं कुर्वन्तीति असत्य प्रचारणमपि भवेत्। ऐ एस् सङ्घः इदानीं रासायुधशक्तियुक्ताः, तेषां पाश्चात्यगमनं निवारणीयं च भवेत् इति ब्रेननेन उक्तः ।
नवदिल्ली >ओर्तडोक्स्, याकोबाय विभागयोः विवादैः अस्वस्थभूते कोलञ्चेरि क्रैस्तवदेवालये (केरलं) विभागद्वयस्यापि तात्कालिकाराधनासौकर्याय सर्वोच्चन्यायालयेन निर्दिष्टः।
Tuesday, February 16, 2016
नवदिल्ली - मृत्युदण्डितः अफ्सल् गुरुनामकः जवहर्लाल् नेह्रु विश्वविद्यालये (जे एन् यू) अनुस्मृतः इत्यस्मात् विश्वविद्यालयपरिसरः प्रक्षुब्धः जातः। विद्यार्थिनेता कनय्यकुमारः राष्ट्रद्रोहापराधित्वेन आरक्षकैः गृहीतः इति कारणेन राजधानीनगरं आन्दोलन संघर्षेषु निमग्नमभवत्।
कनय्यकुमारस्य मोचनमुन्नीय विद्यार्थिनः अनिश्चितकालान्दोलनम् आरब्धवन्तः। अफ्सल् गुरु अनुस्मरणाय ऐ.एस् संस्थायाः साहाय्यं लब्धमित्यारोप्य आसीत् संघर्षस्य प्रारंभः।
रमादी इदानीं सैन्यस्य पूर्णाऽधीना भवति इति इराख् सैन्यः अवदत्।
अनन्तपुरी - दिवंगतस्य कैरलीकवेः ओ एन् वि कुरुप् महोदयस्य स्मरणार्थं राजनगर्यां तस्य प्रतिमां स्थापयिष्यति। जन्मदेशे चवरायां ओ एन् वि कवितानां दृश्याविष्कारेण कलाग्रामं च स्थापयिष्यति। केरलनियमसभायां संवृत्ते अनुस्मरणसम्मेलने मुख्यमन्त्रिणा एवमुद्घोषितम्।
Monday, February 15, 2016
Sunday, February 14, 2016
श्रीनगरम् > काश्मीरस्य कुप्वारा जनपदे सीमारेखायाः समीपे संवृत्ते संघट्टने पञ्च भीकरान् भारतसैन्यं हन्ति स्म। द्वौ भटावपि निहतौ। चौक्की बाल् प्रविश्यायां कस्मिंश्चित् गृहे भीकराःनिलीय वर्तमाना इति ज्ञात्वा एव सुरक्षासेना अत्र प्राप्ताः।
न्यूदिल्ली > मुम्बै भीकराक्रमणस्य सूत्रधारः डेविड् कोल् मान् हेड्लेः वाक्यमनुसृत्य पाक्किस्थानं भीकरराष्ट्रत्वेन प्रख्यापनीयमिति बि. जे.पि दलानां मतम् । तदर्थं नूतनकार्याणि नय तन्त्रेषु स्वीकरणीयानि । पाक् गुप्तचराणां संस्थया आदड़्कवादीनां सीमलड़्घने प्रोत्साहनं करोतीति हेड्लेः उक्त्या व्यक्तः। लोकराष्ट्रणां मध्ये पाक्किस्तानं निराकर्तुं भारतं श्रद्धालुः भवेयमिति भा.ज.पा. दलस्य देशीयकार्यकर्ता सिद्धार्थनाथ सिंहेन उक्तः।
इस्रत् जहानायाः कलहमृत्युः निर्वाचनवेलायाम् अद्यतनविपक्षस्य अनुकूलं यथा, तथा परिणामयितुं ते ऐच्छन्। इस्रत् जहाना लष्कर् तोयिबायाः 'सन्नद्धमृत्युयोद्ध्री' इति हेड्लिना निर्दिष्टम्। गुजरात्त् देशे इस्रत् गोलिकाप्रहरणेन कारणं विना मारिता इति कुप्रचारः आसीत्।
ज्ञानपीठ-पद्मविभूषण-पद्मश्रीपुरस्कारैःआदृतः आसीत्। महाकविकालिदासस्य जीवनचरितमुपजीव्य विरचितम् उज्जयिनीकाव्यमवलम्ब्य तस्मै ज्ञानपीठपुरस्कारः दत्तः। कैरलीचलच्चित्रगानशाखायामपि अस्य योगदानं महत्तरमासीत्। १३ वारं उत्तमगानरचयितुः पुरस्कारेण आदृतः।त्रिवारं देशीयपुरस्कारमपि प्राप्तः।
Saturday, February 13, 2016
परश्वः प्रस्तूयमाने धनविनियोगपत्रावतरणे स्त्रीणां क्षेमाय निर्मितमिदं पत्रं मुख्यमन्त्रिणा एव सभायां प्रस्तोष्यते। गतवर्षे राज्येषु कृतायां चर्चायामेव स्त्रीणां कृते धनविनियोगपत्रमिति आशयं जातम्।
फ्री बेसिक्स् द्वारा कानिचन वेब् सैट् स्थानानि निशुल्कानि प्राप्तानि शक्यन्ते। 'सर्वेभ्यः जनेभ्यः अन्तर्जालं लभ्यमानं भवेत्' इति अन्तर्जाल समत्वस्य लक्ष्यम् ।
"रिलयन्स् कम्यूणिकेषन्स्" संस्थायाः सहकरणेन भारते फ्री बेसिक् इति योजनायाः प्रसारः निश्चितः आसीत्। किन्तु " टेलिकों रगुलेटरि अतोरटरि आफ् इन्ड्यायाः " विज्ञापनानुसारेण अन्तर्जालस्य लब्धये विविधानां शुल्कानां स्वीकारः रोधितः। एतेन एयर् टेल् स्य 'सीरो रेट्टिङ्' इत्यस्य च विरामः भवेत्।
2014 तम वर्षादारभ्य इन्टर् नेट् ओर्ग मार्गेण सप्तादशराज्येषु फेस् बुक् लभ्यमानं भवेत्। विवादाभिमत-प्रकाशनात् परं 'फ्री बेसिक्' इति पुनर्नामकरणं कृतः । सर्वेषां सामान्यजनानां सहकरणार्थं टी वि-पत्रमध्यम द्वारा प्रचारणं कुर्वदासीत्।
अनन्तपुरी > केरले निर्वाचनद्वारे तिष्ठति क्षेमपद्धतीनां वर्षैः मुख्यमन्त्रिणा उम्मन् चाण्टिमहाभागेन आयव्ययपत्रम् अवतारितम्। दारिद्र्यरेखाधःस्थितेभ्यः परिवारेभ्यः (बि पि एल्) निःशुल्कव्रीहीदानं प्रख्यापितम्।विपक्षदलैः आयव्ययपत्रावतरणं बहिष्कृतम्।
Friday, February 12, 2016
कर्णाटकाराज्ये धार्वाड् स्वदेशिं हनुमन्तप्पां सोमवासरे हिमपातस्थलात् अरक्षत्। ३५ पादमितस्य हिमपातस्य अधोभागात् एव सः उद्धारयित्वा रक्षितः। प्रधानमन्त्री नरेन्द्रमोडी , भूतल सैनिकनेता दलबीर् सिंहः च हनुमन्तप्पां द्रष्टुम् आगतवन्तौ । हनुमन्तप्पा महोदयस्य परिवारः च दिल्ल्याम् आसीत्।
Wednesday, February 10, 2016
जर्मनी राष्ट्रे रयिल् यानयोः अपघातः बहवः मृताः
पुदुच्चेरी> पुदुच्चेरीस्थेन श्री - अरविन्द - भारतीयसंस्कृति - संस्थानेन आयोजितः सप्तदिनात्मकः 'स्पन्दन' झ्याख्यः संस्कृतशिक्षणवर्गः सुचारुतया सम्पन्न:। असिन् शिक्षण वर्गे देश विदेशेभ्यः उपपञ्चाशत् प्रतिभागिनः संस्कृत शिक्षणार्थम् आगतवन्तः आसन्। संस्थानस्य निदेशकः डॉ. सम्पदानन्द मिश्रः वर्ग सञ्चालनमकरोत्। वर्गे अस्मिन् मन्त्रोच्चारणशिक्षणं, संभाषणकौशलं, संस्कृते कथानिर्माण कौशलं, बालगीतनिर्माणकौशलं, व्याकरणज्ञानं, छन्दसां परिचयः इत्यादयः अनेके विषयाः योजिताः आसन्। अन्तर्जालस्य उपयोगेन संस्कृताध्ययनं इति विषयमपि सत्रे चर्चिताः। प्रतिभागिनां संभाषणदक्षतावर्धनाय प्रतिदिनं होरात्रयं सम्भाषणाभ्यासः चासीत्। संस्कृतस्य नानाविधविभवान् अधिकृत्य प्रतिभागिनः सप्ताहाभ्यन्तरेण प्रबोधिताः।![]() |
| डा. सम्पदानन्द मिश्रः कक्ष्यां चालयति |
जर्मनीराष्ट्रे रयिल् यानयोः अपघातः बहवः मृताः
Tuesday, February 9, 2016
पुदुच्चेरी> पुदुच्चेरीस्थेन श्री - अरविन्द - भारतीयसंस्कृति - संस्थानेन आयोजितः सप्तदिनात्मकः 'स्पन्दन' झ्याख्यः संस्कृतशिक्षणवर्गः सुचारुतया सम्पन्न:। असिन् शिक्षण वर्गे देश विदेशेभ्यः उपपञ्चाशत् प्रतिभागिनः संस्कृत शिक्षणार्थम् आगतवन्तः आसन्। संस्थानस्य निदेशकः डॉ. सम्पदानन्द मिश्रः वर्ग सञ्चालनमकरोत्। वर्गे अस्मिन् मन्त्रोच्चारणशिक्षणं, संभाषणकौशलं, संस्कृते कथानिर्माण कौशलं, बालगीतनिर्माणकौशलं, व्याकरणज्ञानं, छन्दसां परिचयः इत्यादयः अनेके विषयाः योजिताः आसन्। अन्तर्जालस्य उपयोगेन संस्कृताध्ययनं इति विषयमपि सत्रे चर्चिताः। प्रतिभागिनां संभाषणदक्षतावर्धनाय प्रतिदिनं होरात्रयं सम्भाषणाभ्यासः चासीत्। संस्कृतस्य नानाविधविभवान् अधिकृत्य प्रतिभागिनः सप्ताहाभ्यन्तरेण प्रबोधिताः।![]() |
| डा. सम्पदानन्द मिश्रः कक्ष्यां चालयति |
Monday, February 8, 2016
आधुनिकसमाजः नूतनाशयेषु तेषां साक्षात्कारेषु च तत्परो भवति। अतः छात्रेषु तात्पर्यजननम् अनुपेक्षणीयमस्ति।परिस्थितिसंरक्षणे पारम्पर्येतरोर्जविनिमये च छात्राः अध्या,पकाश्च उत्सुकाः भवेयुः।भारतस्य बहिराकाशकार्यक्रमाः आगोलश्रद्धां प्राप्तवन्तः इति प्रधानमन्त्री अब्रवीत्।
गिरिधिक् जे.सि.बोस् डिस्ट्रिक्ट् सयन्स् सेन्टर् नाम संस्थायाः वैद्युतोपयोगस्य शुल्कम् एव तत् । जार्खण्डराज्यस्य उत्भवात्पूर्वं बीहार राज्यस्य कौण्सिल् फोर सयन्स् आन्ट टेक्नोलजी नाम संस्थया विद्युत्शुल्कम् पूरितम् आसीत्I
कोच्ची> अद्वैतवेदान्तसंस्थापकस्य जगद्गुरुश्रीशङ्कराचार्यस्य कुलदेवतामन्दिरमिति विख्याते कालटी श्रीकृष्णमन्दिरे अष्टदिनात्मकमहोत्सवस्य अद्य शुभारम्भः।
श्रीशङ्करस्य कालं यावत् स्मारयति सर्वस्य साक्षिरूपम् इदं च मन्दिरम्।अत्र श्रीशङ्करेणैव कुलदेवताप्रतिष्ठा कृतेति ऐतिह्यः।
अद्य सायं अष्टवादने "कोटियेट्" इति पताकाध्वजारोहणेन उत्सवः प्रारभ्यते।फेब्रुवरी १५तमदिनाङ्के ध्वजावरोहणेन समापनं भविष्यति।श्रीमन्नारायणीय-भागवतपारायणानि, आध्यात्मिकप्रभाषणं,सोपानसंगीतं, चाक्यार् कूत्त्, पञ्चारिमेलं, नृत्तकार्यक्रमाः,बाले इति नृत्तसंगीतनाटकम् इत्यादीनि उत्सवसमारोहे अन्तर्भूय आयोज्यन्ते।
Sunday, February 7, 2016
प्रस्तुतमन्दिरे १० - ५० मध्ये वयस्कानां नारीणां प्रवेशनं दर्शनं च बहुकालैः निषिद्धमस्ति। धर्मानुष्ठानानि विश्वासान् च अनुवर्तितुं शासनसंविधानस्य २५ ,२६ अनुच्छेदाभ्यां निश्चितम्। तुल्यतानिर्णयप्रकारः १४तम अनुच्छेदः आचारनिषेधाय न पर्याप्तो भवति इति सर्वकारस्य सत्यवाङ्मूले विशदीक्रियते।
Saturday, February 6, 2016
Thursday, February 4, 2016
बहिर्पतितः यात्रिकः मृतः।
Wednesday, February 3, 2016
Tuesday, February 2, 2016
आयुर्वेदशास्त्रस्य शक्तिः कियती अस्तीति चिन्तनीयं भवेत्' - प्रधानमन्त्री।
कोष़िक्कोट् (केरळम् )> 'आयुर्वेदशास्त्रस्य शक्तिः कियत् अस्तीति चिन्तनीयं भवेत्' इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः। आयुर्वेदः जीवशास्त्रं भवति। ह्यस्तनानां नानाविधानाम् आरोग्यसमस्यानां परिहारः आयुर्वेदे अस्तीति मोदिवर्यः अवदत्। कोष़िक्कोट्देशे स्वप्ननगर्यां आगोल -आयुर्वेद सम्मेलने विषन् कोण्केव् इति पद्धत्याः उद्घाटनं कृत्वा भाषमाणः आसीत् प्रधानमन्त्री।
आयुर्वेदशास्रं सर्म्पूणतया प्रयोगं कर्तुं वयम् श्रद्धालवः न भवेम। भारतसर्वकारेण आयुर्वेदस्य अपि च पारम्बर्यचिकित्सा सम्प्रदायस्य च प्रधान्यं तथैव प्रचारं यथायोग्यं करिष्ये। भारतेषु योगाशास्त्राय आयुर्वेदशास्त्राय च महत्वपूर्णं स्थानमस्ति। इदानीं आधुनिकी चिकित्साविधीनां कृते अधिकं धनं आवश्यकं औषधानां तु पार्श्वफलं च अनेन कारणेन पारम्पर्य चिकित्सा सम्प्रदायेषु विदग्धाः बद्धश्रद्धाः अभवन्। अन्येषां राष्ट्राणां अवस्थां संज्ञात्वा भारते आयुर्वेदशास्त्राय महत् प्रधान्यं दद्मः।
आयुर्वेदशास्त्रस्य प्रसूति गृहम् (हब्) इव केरलराज्यः वर्तते इति मोदिवर्यः अवदत्। यथा वयम् आत्मानं पश्यामः तथा अन्येषां जीविनां च मनसि निधाय पालनीयः इति अष्टाड़्गहृदयस्य वाक्यम् उक्त्वा एव प्रधानमन्त्री नरेन्द्रमोदिवर्यः तस्य भाषणं समापितवान् ।
केन्द्र आयुष् विभागमन्त्री श्रीपद् यशोनायिक् च प्रधानमन्त्रिणम् अनुगच्छति।
Monday, February 1, 2016
Sunday, January 31, 2016
भारते प्रथमतया एव सर्वकारीय विद्यालयेषु छात्राणां कृते मध्याह्नभोजनादधिकतया प्रभातभक्षणमपि दीयते। यदा विद्यालयेषु मध्याह्नभोजनं दातुमारब्धं तदा छात्राणाम् उपस्थितिसड़्ख्या वर्धिता आसीत्। प्रभातभक्षणमपि ददाति चेत् उपस्थिति सड़्ख्या इतोऽप्यधिकं वर्धयितुं शक्यते इति तेषां प्रतीक्षा । अनया पद्धत्या छात्राणां आरोग्यं पठनसामर्थ्यं च वर्धयितुं शक्यते। प्रतिदिनं सार्धदशवादने प्रभातभक्षणं, सार्धैकवादने मध्यह्नभोजनं च दातव्यमिति सर्वकारस्य विज्ञापने सूचितमस्ति।
एष्यानेट् द्वारा संप्रेषितया "कण्णाटी" इति परम्परया शतशानां निरालम्बानां जीवितदुःखानि सामान्यजनानां सर्वकारस्य च श्रद्धामानीय परिहारं कृतवानासीत्।
त्रिंशदधिकवर्षेभ्यः माध्यमलोके सम्पूर्णसान्निध्यमासीत्। इन्ड्यन् एक्स्प्रस् मातृभूमी स्टेट्स्मान् बि बि सि इत्यादिषु बहुषु माध्यमेषु स्वस्य व्यक्तिमुद्रां पातयामास।
Friday, January 29, 2016
पुस्तकोत्सवस्य उद्घाटनाय आगतः षरीफ् इस्मायिलः भारतस्य विपणनप्रकोष्टस्य सन्दर्शनवेलायामेव भारतसंविधानस्य अरबिभाषानुवादसमर्पणम् ।
| मेलबण्
> विविध मण्डलेषु कृतानां प्रवर्तनानाम् आधारेण तृभ्यः भारतीयवंशजेभ्यः
आस्त्रेलियायाः बहुमतिः। तैः फिसिक्स्, एञ्चिनीयरिङ्, मेडिसिन्, मण्डलेषु
कृतप्रयत्नानि परिगणयन् एव पुरस्काराः दीयन्ते। अस्य वर्षस्य (2016)
आस्त्रेलियादिनाघोषवेलायां पुरस्काराः प्रख्यापिताः। एते आस्त्रेलियन् नाषनल्
यूनिवेर्सिट्टीतः एमिनन्ट् प्रोफसर् चेन्नुपति जगदीशः, न्यू सौत्त्
वेयिल्सतः नेत्र वैद्यः जय् चन्द्रः, मेलबनतः दन्तविदग्धः सजीव् कोशीः च
भवन्ति। फिसिक्स्, एञ्चिनीयरिड़् |
-
|
नानो टेक्नोलजि आदि मण्डलेषु कृताय उत्तमप्रवर्तनाय, पुनः अक्कादमिक् गवेषणं, ग्रन्थरचना, देशीय अन्ताराष्ट्रस्तशास्त्रोपदेशक स्थानेषु कृतप्रयत्नानि च आधारीकृत्य जगदीशमहोदयाय पुरस्कारस्य अर्हता अभवत्। सपादशताब्दवर्षस्य प्रवर्तनसामर्थ्यमस्ति महोदयस्य। 1985 वर्षादारभ्य नेत्रचिकित्सारंगे अन्ताराष्ट्रतले प्रसिद्धः भवति जयचन्द्रः। दन्तचिकित्सा मण्डलेषु कृतेषु श्रेष्ठप्रवर्वतनानि परिगण्य एव कोशीमहोदस्य पुरस्कारप्राप्तिः। |
कोच्चि > कोच्ची नगरेण सह 20 नूतन स्मार्ट सिट्टीनां पट्टिका केन्द्र सर्वकारेण प्रख्यापिता। केन्द्रनगर विकसन विभागस्य मन्त्रिणा वेड़्कय्य नायिडुमहाभागेन पट्टिका प्रसिद्धीकृता। भुवनेश्वर्, पूने, जय्पूर्, सूरत्, कोच्चि, अहम्मदाबाद्, जबलपूर, विशाखपट्टणं, षोलापूर्, देवड़्करे, इन्डोर्, न्यू दिल्ली, कोयम्पत्तूर्, काक्किनट, बेलागवी, उदैपूर्, गुवहाती, चेन्नै, लुधियाना, भोपाल, आदीनां नगराणां नामानि पट्टिकायाम् अन्तर्भूतानिऽभवन्।
संयुक्त प्रवर्तनेन स्मार्ट् सिट्टि पद्धतिः प्रवृत्तिपथमानेतुं शक्यतेति वेड़्कय्य नायिटुना उक्तम् । ५०,८०२ कोटिः रुप्यकाणि पञ्चवर्षीय पद्धत्यर्थं व्ययीकरिष्यति इति सः अवदत् ।प्रथम स्मार्ट सिट्टि पद्धत्याः स्पर्धायां ९७ नगराणि आसीत्। तेषु नगरेषु पञ्च नगाराणि चिनोति स्म। तानि नगराणि राजधानि च। प्राथमिकसौकर्याणां विकासः , जलम् , विद्युत् , मालिन्यनिर्मार्जनम् , गतागतम् , ई- गवेणनडस् , इन्टरनेट् कणक्टिविटि च स्मार्ट् सिट्याः सविशेषताः भवन्ति। आगामिनि वर्षे ४० नगराणि योजयित्वा शतं स्मार्ट सिट्ट्याः रूपीकरणार्थं पद्धतिः आविष्करोति इति प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण उक्तम्।
Wednesday, January 27, 2016
कालिफ़ोर्णिया> मातृनक्षत्रात् लक्षं कोटि किलोमीट्टर् दूरे भ्रमन्तं ग्रहं ज्योतिशास्त्रज्ञैः दृष्टः। एतावत्कालपर्यन्तं प्रत्यभिज्ञातेषु बृहत् आकारको सौरयूथो भवत्ययमिति गवेषकाः वदन्ति। ग्रहस्य एकवारं मातृनक्षत्रपरिक्रमणाय नवलक्षवर्षाणि अवश्यकानि। सूर्यस्य भूमेः च मध्ये १५ कोटि किलोमीट्टर मितिः अस्ति। १५ कोटि किलो मीट्टर् एकं अस्ट्रोणमिक् मीट्टर् इति (AU). सौरयूथे सूर्यस्य नेप्टूणस्य मध्ये 30 अस्ट्रोणमिक् मीट्टर् (AU) भवति । नूतनग्रहं तु सूर्यात् ६०० - १२०० AU भवति। फ्रान्स् राष्ट्रः प्रञ्चशाक्तिशालिषु प्रथमगणे एव। परस्परधारणया एतौ १६ सुप्रधान-उभयानुकूलपत्रे हस्ताक्षरं कृतवन्तौ।
३६ राफेल् नामकानि युद्धविमानानि क्रेतुं उभयानुकूलपत्रे हस्ताक्षरमकरोत्। ६०,००० कोटिरूप्यकाणां व्ययः प्रतीक्षते। फ्रञ्च् राष्ट्रपतिः फ्रान्स्व ओलादः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी च मिथः संवृत्तायाः चर्चायाः अनन्तरमेव एतादृशनिर्णय अभवत्। ८०० रयिल् यानानि च स्वीकरिष्यन्ते। उभयराष्ट्रयोः मिथः प्रतिरोधसहकरणसन्धिः आगामिनिदशसंवत्सराणि अनुवर्तिष्यते। जय्तापुरे ६ आणवरियाक्टर् निलयानि स्थापयिष्यन्ते।


