OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, May 5, 2025

 केरळ फिलिं क्रिट्टिक्स् पुरस्कारः 'एकाकी' चलन चित्राय।

       पुतुव फिलिंस् संस्थया निर्मितम् एकाकी नाम चलनचित्रम् २०२५ संवत्सरस्य केरळ फिलिं क्रिटिक्स् पुरस्कारायः चितम्। प्रसाद् पाऱप्पुऱम्, अय्यम्पुष़ हरिकुमारः, वैदिकः जोण् पुतुव च अस्य चलनचित्रस्य निदेशकाः रचयितारः च भवन्ति। २०२४ संवत्सरे केन्दीय चलनचित्रप्रमाणनायोगेन (Central board of film certification) प्रमाणीकृतानां चित्राणां मध्ये संस्कृतविभागे एव प्रथमस्थानं सम्प्राप्तम्। चलनचित्रेऽस्मिन् अभिनेता एकः एव इत्यस्ति सविशेषता।

 केरलस्य 'साक्षरताप्रवर्तका' पद्मश्रीसम्मानिता च के वि राबिया दिवंगता। 


मलप्पुरं> स्वजीवनं सहनस्य सामाजिकसेवायाश्च पर्यायरूपेण कृतवती साक्षरता-सामाजिकक्षेमप्रवर्तका के वि राबिया दिवं गता। ५९ वयस्का सा अर्बुदरोगहेतुना परिचर्यायाम्  आसीत्। बाल्यादारभ्य चक्रयुतासन्दे आसीत् तस्याः जीवनम्। 

 नवमकक्ष्यायां पठितवत्यां शरीरे उच्छोषिते मनस्स्थैर्येण जीवितविजयं प्राप्तवती। चक्राकारम् आसन्दमधिष्ठाप्य  अध्ययनादिकं निर्वक्ष्य बिरुदानन्तरबिरुदं सम्पादितवती। चक्रासन्देन चरन्ती १९९० तः केरलस्य साक्षरतान्दोलने भागं स्वीकृत्य दशशः निरक्षरान् जनान् वाचनस्य लेखनस्य च मार्गेण सञ्चाल्य विज्ञानप्रकाशमानीतवती। अन्येषु सामाजिकक्षेमप्रवर्तनेषु निस्स्वार्थसेवां प्रदाय सक्रिया अभवत्। 

  अचञ्चलमात्मविश्वासं पुरस्कृत्य २०२२ तमे वर्षे राष्ट्रस्य पद्मश्रीपुरस्कारेण राबियावर्या समादृता। नेहरु युवकेन्द्रपुरस्कारः, साक्षरतामिषन् पुरस्कारः, राष्ट्रिय युवजनपुरस्कारः, केन्द्रसर्वकारस्य महिलाशक्ति  पुरस्कारः इत्यादयः पुरस्काराः तया सम्प्राप्ताः। ३२ तमे वयसि अर्बुदरोगबाधिता सा निर्भयेन जीवितम् अग्रमनयत्। 

  बहवः प्रमुखाः तस्याः वियोगे अनुशोचितवन्तः। तिरूरङ्ङाटि स्थाने वर्तमाने आराधनालयस्थे श्मशाने  तस्याः शरीरं संस्कृतम्।

 आस्ट्रेलियायां 'लेबर् पार्टी' विजयमुपगच्छति।

आन्तणी आल्बनीस् एव प्रधानमन्त्री भविष्यति। 

सिडनी> आस्ट्रेलियायां सामाजिकनिर्वाचने प्रधानमन्त्री आन्तणी आल्बनीस् इत्यस्य नेतृत्वे विद्यमानं लेबर् पार्टीदलं विजयमुपगच्छति। संसदः १५१ अङ्गोपेतायाम् अधोसभायां ७८ स्थानेषु लेबर् पार्टी अग्रे वर्तते। विपक्षदलं लिबरल् पार्टी द्वितीयस्थाने अस्ति।

Sunday, May 4, 2025

 दृश्यफलकस्य अनुस्यूतावलोकनेन देशस्थानां बालकेषु ५०% बालकेभ्यः हृस्वदृष्ट्यवस्थायाः सम्भावना।

चित्रं meta AI

   अत्यधिकं कालं अन्तर्जाल-पटलदर्शनेन कालयापनं कर्तुं अद्यतनबालकेभ्यः उत्साहः दृश्यते। एषः तेषां स्वास्थ्ये प्रतिकूलप्रभावं जनयति। 

    अतिपुष्टता, हृदयरोगः, मधुमेहः (विभागः-२) इत्येतेषां रोगाणां कारणत्वेन अयं स्वभावविशेषः एव इति पूर्वमेव वेदितः। किन्तु अधुना हृस्वदृष्टिः इत्यस्याः अवस्थायाः कारणम् अयमेव इति नवीनं ज्ञानं विशेषज्ञाः प्रकाशयन्ति।

   असोसियेषन् ओफ् कम्यूणिट्टी ओप्ताल्मोलजिस्ट् ओफ् इन्ट्या इत्यस्य वैद्याः एव विषयेऽस्मिन् अनुसन्धानं कृतवन्तः।

दृश्यफलकः - Screen 

 पाकिस्थानस्य पुनःप्रहरः।

आयातत्वं निरुद्धम्। 

नवदिल्ली> पहल्गामभीकराक्रमणस्य हेतुना पाकिस्थानात् सर्वेषाम् उत्पन्नानाम् भारतं प्रति आयातत्वम् सर्वकारेण निरुद्धम्। पाकिस्थानात् व्योम-स्थलमार्गैः प्राप्यमाणाः पत्र - भाण्डव्यवहाराश्च निश्चेतनीकृताः। पाकिस्थानीयमहानौकाः भारतस्य महानौकाश्रयेषु निरुद्ध्य महानौकमन्त्रालयस्य आदेशः बहिरागतः। 

  राष्ट्रसुरक्षां राष्ट्रस्य सामान्यतात्पर्यं चालक्ष्य एव निरोधः विहित इति वाणिज्यमन्त्रालयेन निगदितम्। नूतननिर्णयेन भारतात् पाकिस्थानस्य आयातायः शून्यं भविष्यति।

 अयोध्यायां रामपथे मांसमद्यानां विक्रयः निरुद्धः। 

अयोध्या> अयोध्या - फैसाबाद नगरद्वयं संयुज्यमानस्य रामपथनामकस्य सुप्रधानमार्गस्य १४ कि मी दूरपरिधौ मदिरामांसानां विक्रयं निरुध्य अयोध्यानगरसभायाः आदेशः बहिरागतः। 'पान्, गुड्का, बीडी, सिगार' इत्यादि प्रादेशिकनाम्नि कथ्यमानानां धूम-चर्वणाद्युन्मादकवस्तूनां प्रख्यातिविज्ञप्तिरपि [publicity]  निरुद्धः। 

  नगरस्य आत्मीयवातावतरणं सुस्थापनीयमिति अस्य लक्ष्यम्। चिरकालं यावदेव अयोध्यायां मद्यमांसादीनां विक्रयः नास्त्येव।

 पाकिस्थानाय चारवृत्तिः - राजस्थानवासी निगृहीतः।

जयपुरं> पाकिस्थानचारसंघटनं ऐ एस् ऐ इत्यस्मै चारवृत्तिं कृतवान् इत्यारोप्य राजस्थाने जयसाल्मीर् निवासी पठान खानः भारतीयगुप्तचरदलेन  निगृहीतः। २०१३ तः आरभ्य सीमायां निर्णायकवार्ताः सः ऐ एस् ऐ संस्थायै उपसंक्रमितवानिति सूच्यते। बहुवारं सः पाकिस्थानं गत्वा ऐ एस् ऐ कार्यवाहकैः सह भाषते स्म।  धनराशिं स्वीकृत्य एव चारवृत्तिं कृतवानिति अधिगतमस्ति।

Saturday, May 3, 2025

 पहल्गामाक्रमणं पाकिस्थानस्य बोध्येन।

 श्रीनगरं> पहल्गाम आक्रमणे पाकिस्थानस्य भागभाक्त्वं दृढीकृत्य एन् ऐ ए संस्थायाः प्राथमिकावेदनम्। २६ पर्यटकानां जीवहानिविषये लष्कर् ई तोय्बा इति भीकरसंघटनस्य , ऐ एस् ऐ इति पाकिस्थानस्य गुप्तविभागः, पाकिस्थानसेना इत्येषां भागभाक्त्वं दृढीकृतम् इति आवेदनपत्रे अस्तीति सूच्यते। 

  आक्रमणे मुख्यभागभाक् हाषिम मूसा इति सुलैमान् नामधारी, अलि भाई इति कथ्यमानः तल्हा भाई इत्येतौ पाकिस्थाननागरिकौ इति प्रत्यभिज्ञातम्। 

  ऐ एस् ऐ संघटनस्य अधिकारी आसीत् भीकराणां नियन्ता इत्यपि आवेदने सूच्यते।

 ५३ संवत्सरेभ्यः पूर्वं विक्षिप्तस्य बहिराकाशवाहनस्य अंशः पृथ्वीम् उत्पतति। 

'कोस्मोस् ४८२' इत्यस्य अवतरणविभागः।

ए ऐ साह्येन चित्रितं कोस्मोस् ४८२ इति पेटकम्। 

 

फ्लोरिडा> १९७२ तमे वर्षे सोवियट् यूणियन् राष्ट्रेण शुक्रग्रहस्य पर्यवेषणाय विक्षिप्तस्य बहिराकाशपेटकस्य कश्चिदंशः बहिराकाशात् विसृष्टः सन् भूमिं प्रत्यागच्छतीति शास्त्रज्ञैः निगदितम्। मेमासस्य दशमे दिने एषः भूमेरन्तरिक्षं प्रवेक्ष्यतीति सूच्यते। तस्मिन् समये अन्यथा किमपि न भविष्यति तर्हि होरायां २४२ कि मी इति शीघ्रगत्या अयंपेटकांशः लोहखण्डः भूमौ निपतिष्यति। लण्टन-दक्षिणामेरिकयोर्मध्ये यत्रकुत्रापि पतितुं सम्भावना विद्यते। 

   सोवियट् यूणियन् राष्ट्रस्य शुक्रग्रहपर्यवेषणदौत्यस्य अंशतया विक्षिप्तस्य  कोस्मोस् ४८२' इत्यस्य उत्तरणांश एव भूमिं प्रत्यागच्छति। किन्तु इदं दौत्यं पराजितमासीत्। १९७९ तमे वर्षे आविश्वं सूच्यग्रे प्रतिष्ठितस्य 'स्कैलाब्' पेटकस्य स्मरणां जनयति अयं पेटकांशः।

 विष़िञ्ञं वाणिज्यमहानौकाश्रयं विश्वस्मै समार्पयत्। 

विषिञ्ञं अन्ताराष्ट्रनौकाश्रयं विश्वस्मै प्रधानमन्त्री नरेन्द्रमोदी समर्पयति।
अन्ताराष्ट्र समुद्रव्यापारमण्डले विष़िञ्ञं विश्वस्य केन्द्ररूपेण भविष्यतीति प्रधानमन्त्री। 

विष़िञ्ञम् [अनन्तपुरी]> ह्यः केरलस्य स्वप्नसाफल्यस्य दिनम्। राज्यस्य तथा राष्ट्रस्यापि विकासमुखत्वेन  भविष्यमाणः अन्ताराष्ट्र वाणिज्यमहानौकाश्रयः प्रौढगम्भीरे समारोहे राष्ट्राय विश्वस्मै च समर्पितः। शुक्रवासरे प्रभाते एकादशवादने प्रधानमन्त्री नरेन्द्रमोदी नौकाश्रयपरिसरे सज्जीकृतायां वेदिकायां पूर्णतया सुसज्जस्य नौकाश्रयस्य औद्योगिकमुद्घाटनं निरवहत्। 

  अन्ताराष्ट्र समुद्रव्यापारमण्डले विष़िञ्ञं नौकाश्रयः विश्वस्य केन्द्ररूपेण भविष्यतीति प्रधानमन्त्री प्रोक्तवान्। एतदर्थं राज्यप्रशासनेन सह सर्वात्मना यतिष्यते इति च तेन प्रोक्तम्। मुख्यमन्त्री पिणरायि विजयः अध्यक्षः अभवत्। राज्यपालः राजेन्द्र आर्लेकरः मुख्यातिथिरासीत्। 

  नौकाश्रयविभागस्य मन्त्री वि एन् वासवः, केन्द्रमन्त्रिणौ  जोर्ज् कुर्यः, सुरेष् गोपिः, जनप्रतिनिधी शशि तरूरः (लोकसभा), एम् विन्सेन्ट् (विधानसभा), अदानी ग्रूप् इत्यस्य अध्यक्षः गौतम अदानी इत्येते वेदिकायामुपविष्टाः आसन्।