OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, July 15, 2025

 शुभाशुः ससंघम् अद्य प्रत्यागमिष्यति। 

शुभांशुः सहयात्रिकाश्च ग्रेय्स् इत्यस्मिन् पेटके प्रतिनिवर्तनवेलायाम्। 

  नवदिल्ली> नासायाः बहिराकाशनिलये १८ दिनानि यावत् परीक्षणनिरीक्षणानि समाप्य भारतस्य बहिराकाशसञ्चारी शुभांशु शुक्लः त्रिभिः संघाङ्गैः सह सोमवासरे पृथ्विं प्रतिनिवर्तनयात्रां समारभत। आक्सियं - ४ इति दौत्यस्य 'ग्रेय्स्' इति पेटकं ह्यः सायं ४. ४५ वादने [भारतीयसमयः] बहिराकाशनिलयेन सह बन्धं विच्छिद्य भूमिं प्रति यात्रा आरभत। 

  अद्य अपराह्ने त्रिवादने कालिफोर्णियायां शान्तसमुद्रे पेटकम् अवतरिष्यतीति प्रतीक्षते। अवतरणानन्तरं  भूमेः गुरुत्वाकर्षणेन सह समीकर्तुं सप्ताहं यावत् तेभ्यः एकान्तवासः विहितः।

Monday, July 14, 2025

 पाकिस्थाने रामायणं नाटकरूपेण प्रस्तुतम्। 

पाकिस्थाने प्रस्तुतस्य  रामायणनाटकस्य दृश्यानि। 

कराच्ची> पाकिस्थाने  रामायणं नाटकरूपेण प्रस्तूय प्रेक्षकाणां अभिनन्दनानि स्वीकृतानि। कराची आर्ट्स् कौण्सिल् इत्यत्र 'मौज्' नामकेन नाटकसंघेनैव नाटकं प्रस्तुतम्। कृतकबुद्धेः साह्यमपि उपयुज्य प्रस्तुतं नाटकं कला-चलच्चित्रनिरूपकैः अभिनन्दितम्। 

  नाटकस्य नाम्नि अतृप्तिः भीषा वा नाजायत इति नाटकस्य निदेशकः योहेश्वर करेरा इत्येषः अवोचत्। राणा कास्मी इत्येषा अस्ति नाटकस्य निर्मात्री। नाटके सीतावेषः तया एव कृतः।

 राज्यसभां प्रति चतुर्णां नामानि निर्दिष्टानि। 

नवदिल्ली> आराष्ट्रं समाजे विविधक्षेत्रेषु सेवां कुर्वन्तः चत्वारः राष्ट्रपतिना राज्यसभां प्रति निर्दिष्टाः। 

  भूतपूर्वः विदेशकार्यसचिवः हर्षवर्धन श्रृङ्लः, मुम्बई भीकराक्रमणप्रकरणे सर्वकारस्य नीतिज्ञरूपेण [Public prosecutor] उपस्थितवान् उज्वल निकमः, दिल्लीस्था चित्रकारी मीनाक्षी जेय्नः, कृतकपादयोः साह्येन  केरले समाजसेवया अध्यापनवृत्या च वरिष्ठत्वं प्राप्तवान् कण्णूर् प्रदेशीयः सि सदानन्दः इत्येते चत्वारः एव राज्यसभासदस्यरूपेण आमान्यमानाः।

Sunday, July 13, 2025

 भारतेङ्गलण्टयोः प्रथमचरणे कौतुकपूर्वसमाप्तिः। 

भारतमपि ३८७ धावनाङ्कैः बहिर्नीतम्। 

के एल् राहुलाय शतकम्।

लोर्ड्स्> भारतेङ्गलण्टयोः तृतीयनिकषस्पर्धायाः प्रथमचरणस्य कौतुकोपेतसमाप्तिः। प्रथमं कन्दुकताडनं कृतवति इङ्लण्टदले ३८७ धावनाङ्कैः बहिर्नीते अनुताडनं कृतवान् भारतदलोSपि ३८७ धावनाङ्कैः बहिर्गतवान्। 

  भारतस्य ताडकेषु के एल् राहुलः शतकं प्राप्तवान्। १०० धावनाङ्कान् सः सम्पादयामास। तं विना ऋषभपन्तः [७४] रवीन्द्र जडेजः च ताडनक्रियायां शशुभतुः।

 दिल्ल्यां बहुस्तरीयभवनं प्रभञ्ज्य षट् मरणानि। 

नवदिल्ली> उत्तरपूर्वदिल्ल्यां चतुस्तरीयः भवनसमुच्चयः प्रभञ्ज्य षट् जनाः मृत्युमुपगताः। अष्ट जनाः आहताः। मृतेषु चत्वारः एकपरिवारीयाः भवन्ति। 

   वेल्कं जे जे क्षेत्रे शनिवासरे उषसि सप्तवादने आसीत् दुर्घटना। भवनस्य स्वामी, पत्नी, तयोः अपत्यद्वयं, इतरौ द्वौ वासकौ - एवं षट् जनाः मृत्युमुपगताः।

 अहम्मदाबाद विमानदुर्घटना 

प्राथमिकम् आवेदनपत्रं बहिरागतम्। 

उड्डयनात्परं इन्धनवितरणपिञ्जः अपगतः। 


नवदिल्ली> अतीते जूण् १२ तमे दिनाङ्के अहम्मदाबादे उड्डयनवेलायां भग्नस्य एयरिन्डिया बोयिंग्   विमानस्य 'एञ्जिनं' [Engine] प्रति इन्धनदायकपिञ्जद्वयं प्रवर्तनरहितमासीत् [switched off] इति प्राथमिके अनुसन्धानावेदनपत्रे सूच्यते।  उड्डयनानन्तरं कतिपयसेकन्ड् समयावधौ सेकन्ड्द्वयस्य आभ्यन्तरे पिञ्जद्वयमपि अपगतं, तत्तु विमानचालकयोर्मध्ये सम्भ्रमस्य कारणमभवदिति च आवेदनपत्रे सूचितम्। विमानस्य 'ब्लाक् बोक्स्' इत्यस्मिन् विद्यमानानां सूचकानां विशकलनानन्तरमेव इदं आवेदनं सज्जीकृतम्।

 इगा स्विया टेक् विम्बल्डण् महिलाकिरीटं प्राप्तवती। 


लण्टनं> महिलानां विम्बिल्डण् लानक्रीडाकिरीटं [Tennis] पोलण्ट् देशीया इगा स्विया टेक् प्राप्तवती। अन्तिमस्पर्धायां प्रतिद्वन्द्विनी अमेरिकायाः अमन्डा अनिसिमोवा इत्यस्यै एकामपि क्रीडामदत्वा आसीत् इगायाः अपूर्वविजयः - [६-०, ६-०]। 

  पुरुषाणां विम्बिल्डण् अन्तिमप्रतिद्वन्द्वः अद्य सम्पत्स्यते। फ्रञ्च् ओपण् अन्तिमस्पर्धायाः क्रीडकौ यानिक् सिन्नर् , कार्लोस् अल्करासः च प्रतिद्वन्दिनौ।

Saturday, July 12, 2025

 ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री स्ववृत्तिं पुनःप्रविष्टः। 

ऋषि सुनकः। 

लण्टनं> ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री ऋषि सुनकः पूर्वं भूतां वित्तकोशवृत्तिं पुनःप्रविष्टवान्। यू एस् राष्ट्रम्  आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इति वित्तकोशालये [Bank] वरिष्ठोपदेशकरूपेण वृत्तिं पुनःप्राविशत्।

  राजनैतिकसेवाम् आरब्धात् पूर्वम् ऋषि सुनकः यू एस् आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इत्यत्र 'अनलिस्ट्' पदीयः सन् वृत्तिं कृतवानासीत्। निर्वाचने पराभूय वर्षैकानन्तरमेव सः वृत्तिं प्रत्यागच्छति। 

  ब्रिटनस्य नियमानुसारं प्रशासनकाराः स्थानत्यागानन्तरं वर्षद्वयाभ्यन्तरे वृत्तिप्रवेशमिच्छन्तः तर्हि तेभ्यः  'बिसिनस् अपोयिन्ट्मेन्ट्स्' [Business appointments] उपदेशकसमित्याः अनुज्ञा आवश्यकी। बह्व्यः व्यवस्थाः परिपाल्य एव सुनकाय अनुज्ञा दत्ता।

 भारत-इङ्गलण्ट निकषस्पर्धा। 

इङ्गलण्टः ३८७, भारतं १४५/३

लोर्ड्स्> भारत-इङ्गलण्टयोः तृतीयनिकषस्पर्धायाः द्वितीयदिने क्रीडासमाप्तौ इङ्गलण्टस्य ३८७ इति धावनाङ्कानां प्रत्युत्तररूपेण भारतेन ताडकत्रयस्य विनष्टे १४५ धावनाङ्कानि प्राप्तानि। 

  प्रथमं कन्दुकताडनं कृतवान् इङ्गलण्टदलः जो रूट् इत्यस्य शतकेन [१०४]जामि स्मित् [५१], ब्रैडन् कार्स् [५६], बेन् स्टोक्स् [४४] इत्येतेषां साह्येनैव ३८७ धावनाङ्कान् सम्प्राप। भारतस्य जस्प्रीत बुम्रः पञ्च ताडकान् बहिर्नीतवान्। मुहम्मद सिराजः, नितीष् कुमार रड्डी इत्येतौ एकैकेन द्वौ द्वारकौ इति सम्प्राप्तवन्तौ। 

  भारतस्य कन्दुकताडने यशस्वी जयस्वालः [१३], करुण नायर् [४०], नायकः शुभमान गिलः [१६] च बहिर्नीताः। के एल् राहुलः [५३*], ऋषभ पन्तः [१९*] च ताडकक्षेत्रमधितिष्ठतः।

Friday, July 11, 2025

 वर्षाकालदुष्प्रभावः

राज्येभ्यः १०६६. ८ कोटि रूप्यकाणि अनुमोदितानि।

नवदिल्ली> प्रलयः भूस्खलनम् इत्यादिवर्षाकालदुष्प्रभावैः क्लेशमनुभूयमानानां राज्याणां कृते १०६६. ८ कोटि रूप्यकाणि केन्द्रप्रशासनेन  अनुमोदितानि। असमः, मणिपुरं, मेघालयः, मिसोरामः, उत्तराखण्डः, केरलम् इत्येतेभ्यः राज्येभ्यः एव  इदमार्थिकसाहाय्यम्।

  असमाय ३७५. ६ कोटि, उत्तराखण्डाय ४५५. ६कोटि रूप्यकाणि अनुमोदितानि। इतरेभ्यः राज्येभ्यः एवंप्रकारेण -  मणिपुरं २९. २कोटि, मेघालयः ३०. ४ कोटि, केरलं १५३. २ कोटि, मिसोरामः २२. ८कोटि रूप्यकाणि।