ब्लास्टेर्स् दलस्य विजयः।
कोच्ची > ऐ एस् एल् पादकन्दुकस्पर्धापरम्परायां दिल्ली डैनामोस् दलस्य उपरि एकं विरुध्य लक्ष्यकन्दुकद्वयेन केरला ब्लास्टेर्स् दलस्य विजयः। इयान् ह्यूमः विजयलक्ष्यं प्राप्तवान्। अनेन विजयेन ब्लास्टेर्स् दलं पञ्चमं स्थानं प्राप्तम्।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Sunday, January 28, 2018
Saturday, January 27, 2018
सैनिकबहुमतयः प्रख्यापिताः ; ज्योतिप्रकाश् निरालाय अशोकचक्रम्।
नवदिल्ली > राष्ट्रगणतन्त्रदिनाघोषम् अनुबन्ध्य सैनिकबहुमतयः प्रख्यापिताः। शान्तिकालीयः परमोन्नतबहुमतिः 'अशोकचक्रम्' व्योमसेनायाः 'कोर्परल्' पदस्थः ज्योतिप्रकाशनिरालः लभते। काश्मीरे भीकरान् प्रतियोद्धुमाने सति वीरमृत्युं प्राप्तवते तस्मै मरणानन्तरबहुमतिरूपेणैव अयं बहुमतिः समर्प्यते। एकम् अशोकचक्रं, एकं कीर्तिचक्रं, १४ शौर्यचक्राणि चसहितानि राष्ट्रपतेः ३९० सैनिकपतकानि उद्घोषितानि।
'पत्मावत्' प्रकाशितम् ; प्रतिषेधः व्याप्यते।
नवदिल्ली > विवादात्मकं 'बोलिवुड्' चलच्चित्रं पत्मावन्नामकं न्यायालस्य आदेशानुसारं गतदिने प्रदर्नशनाय प्राप्तं तथापि विविधेषु राज्येषु महान् प्रतिषेधः सम्पन्नः इत्यतः प्रदर्शनं नाभवत्। । मध्यप्रदेश् , राजस्थान् ,गुजरात् , गोवा इत्येतेषु राज्येषु चित्रप्रदर्शनम् असाध्यमिति भूरिशः रङ्गमण्डपस्वामिभिः उक्तम्। सुरक्षाविषय एव कारणम्।
Friday, January 26, 2018
अत्यधिकसुरक्षायां भारतगणतन्त्रदिनम् आघुष्टम्। दशराष्ट्रतः राष्ट्राधिपाः उपस्थिताः आसन्।
नवदिल्ली > एकोनसप्ततितमं गणतन्त्रदिनं सामोदम् आधुष्टम् । राजपथे विविधराष्ट्रेभ्यः दशराष्ट्राधिपाः समागताः आसन्। प्रभाते दशवादने राष्ट्रपतिना रामनाथ कोविन्देन भारतध्वजारोपणं कृतम्। इन्द्यागेट् स्थानस्य अमरज्योति इति मान्यस्थाने प्रधानमन्त्रिणा नरेन्द्रमोदिना पुष्पचक्रं समर्पितम्। अशोक चक्रादयः सेनापुरस्काराः राष्ट्रपतिना सम्मानिताः। राजपथेषु स्थल - नाविक- व्योम सेनयोः पथातिसञ्चलनं सेनयोः शक्तिप्रकाशनानि अभवन्।
भारतेतिहासे ऐदं प्राथम्येन आसन् राष्ट्रान्तर अधिपानाम् उपस्थितिः। उपस्थिताः राष्ट्राधिपाः ब्रूणेय्, कम्बोडिया, सिंगपुर्, लावोस्, इन्दोनेष्या, मलेष्या, म्यान्मर्, फिलिप्पीन्स्, ताय् लान्ट्, वियट्नाम् राष्ट्रस्थाः एव। अति शाक्तया सुरक्षया आसीत् गणतन्त्रदिनाघोषः।
आत्मविश्वासयुक्त-राष्ट्रनिर्माणं यूनामेव शाक्यते - राष्ट्रपतिः रामनाथ कोविन्दः।
नवदिल्ली> आत्मविश्वासेन भविष्यत्कालं मनसिनिधाय प्रतीक्षानिर्भरं राष्ट्रनिर्माणं यूनामेव शक्यते इति राष्ट्रपतिना रामनाथ कोविन्देन उक्तम्। गणतन्त्रदिनात् पूर्वं राष्ट्रं प्रति भाषमाणः आसीत् राष्ट्रपतिः। राष्ट्रपौरेषु ६०% जनाः ऊन पञ्चत्रिंशत् ३५ वयस्काः एव। अस्माकं भविष्यः प्रतीक्षा च तेषां हस्तेषु एव।
अस्माकं शिक्षासम्प्रदायः परिष्करणीयः आधुनिक समस्या परिहाराय समर्था भवतु सा। केवलं कण्ठस्थीकरणं पुनरवतारणं च इति मा भवतु शिक्षया। चिन्तावर्धनाय नैपुणी वर्धनाय च उपकारकाः भवतु शिक्षा। युवजनान् स्पर्धाक्षमयुक्तान् कर्तुं योग्याः योजनाः इदानीम् आरब्धाः सन्ति। प्रतिभायुक्ताः सन्दर्भः उपयोक्तव्यः इति च राष्ट्रपतिना यूनः उपदिष्टाः।
जी. एस. टी. उपरि एकदिवसीय कार्यशालाया: आयोजनम्
वार्ताहर: - दीपक शास्त्री
जयपुरम् > २४/०१/२०८ तमे दिनाङ्के जगद्गुरूरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालये "वस्तु: एवं सेवाकर:( GST)" उपरि एकदिवसीयकार्यशालाया: आयोजनम् अभवत्। कार्यशाला-संयोजकेन कैलाशचन्द्रशर्मणा सूचितं यत् कार्यक्रमस्य उद्घाटने अध्यक्षता विश्वविद्यालयस्य कुलपति: डॉ. विनोदशास्त्री तथा कार्यक्रमस्य निर्देशनं कुलसचिव: डॉ. के. साम्बशिवमुर्तिमहोदयेन कृतम्। उद्घाटने ICAI अध्यक्ष: क्षेत्रीय GST परामर्शसमित्या: सदस्य: अभिषेकशर्मणा विशिष्टं उद्बोधनं प्रदत्तं। कार्यशालायां तकनीकसत्राणां आयोजनमपि अभवत्। तत्र क्रमश: राकेश: काबरा, अक्षयकुमार जैन: इत्यादय: विषयविशेषज्ञा: स्व विस्तृतव्याख्यानै: कार्यशालायां समुपस्थितान् शिक्षकान् छात्रान् शोधार्थिन जनसामान्यं च लाभान्वितं कुर्वाण:। जी.एस.टी सम्बन्धिन: तेषां जिज्ञासाया: समाधानं अकरोत् तथा जी. एस. टी इति नियमं पालयितुं प्रेरित:।
कार्यक्रमस्य प्रमुख प्रतिपाद्य "एक: देश: एक: कर:" भवतु इति अस्य पुर्ण प्रारूपोपरि तथा अस्यां समायोजित कर विभेद ( त्रिणी प्रकाराणि )उपरि समीक्षा: कृता। मुख्यत्वेन भिन्न भिन्न श्रेणीषु कर स्लेब (5-28 ) नि:शुल्कसेवादि विषये विस्तृतं ज्ञानं दत्तं। विशेषज्ञै: कथितं यत् जनसामान्य: कर ज्ञानस्य अभावात् ग्राहक: अनावश्यकहान्या: भारं वहति। अत: जनसामान्यस्य कृते अस्य विषयस्य ज्ञानं स्यात् स्वस्य समाजस्य देशस्य लाभाय सहैव कृष्णव्यापार: सदृशी सामाजिक अभद्रतात् देशस्य: रक्षणार्थं अग्रेसर: भवितव्य:। सहैव लक्ष्यप्राप्त्यर्थं डिजिटल इण्डिया एवं नूतन भारतस्य निर्माणार्थं सहयोगं दातव्यम्।
गोखाद्यकुम्भकोणं - लालुप्रसाद यादवः पुनरपि दण्डितः।
राञ्ची > गोखाद्यकुम्भकोणमनुबद्ध्य तृतीये व्यवहारे आर् जे डि दलस्य देशीयाध्यक्षः लालुप्रसादयादवः पञ्चसंवत्सराणां कारागारवासाय दण्डितः। बीहारस्य भूतपूर्वमुख्यमन्त्री तथा कोण्ग्रस् दलस्य भूतपूर्वनेता जगन्नाथमिश्रः च ५ वर्षाणां कारागृहदण्डनाय विहितः। १९९२-९३ काले सर्वकारवित्तकोशेभ्यः ३३.६७ कोटिरूप्यकाणि व्याजरेखाः समर्प्य स्वायत्तीकृतानीति व्यवहारे एवायं विधिः।
Thursday, January 25, 2018
राष्ट्रपतिना धनं दत्तम्, चतुर्दशवयस्केन चत्वारः कराबद्धाः बहिरानीयन्ते|
भोपाल् > अध्ययने कुशलः इत्यनेन भारतस्य राष्ट्रपतेः हस्तात् लब्धानि दशसहस्रं रुण्यकाणि उपयुज्य आयुष् किशोरः नामकः चतुर्दशवयस्कः चत्वारान् काराबन्धितान् बहिरानयति। लघुदोषेण द्वि सहस्रं रुप्पकाणि वा दण्डनं लब्ध्वा तनि प्रत्यर्पणाय नास्ति इत्यनेन कारायां बन्धितानां चतुर्णमेव एवं बहिरागन्तुं भाग्यः सिद्ध्यते। श्वस्तन-गणतन्त्रदिने चत्वारः कारागृहात् मोचिताः भविष्यन्ति।
विशेष-श्रेष्ठतायै २०१६ तमे लब्धस्य राष्ट्रियपुरस्कारस्य राशिः एव किशोरः एवं व्ययीकरोति। गणित विषये विद्यमान कौशलस्य सम्मानन रूपपेण आसीत् राष्ट्रपतिना दशसहस्रं रुप्यकाणि दत्तानि।
राष्ट्रिय, राष्ट्रान्तर गणितस्पर्धासु बहुवारं विजयीभूतः एषः ' लिंका पुस्ति'कायां राष्ट्रियख्यातिः सम्पादितवान्। यु के वेल्ड् रेक्कोर्ड् विश्वविद्यालयात् सुवर्णपतगः तथा ओणररि डाक्टरैट् च चतुर्दशवयस्केन आयुष् किशोरेण सम्प्राप्तः अस्ति।Wednesday, January 24, 2018
संस्कृतपत्रकारितायां त्रैमासिक-एडवांसपाठ्यक्रमस्य शुभारम्भ:
-पुरुषोत्तम शर्मा
नवदिल्ली>श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविद्यापीठेन भारतीयजनसञ्चारसंस्थानेन च संयुक्तरूपेण जनवरी मासस्य षोडशे दिने संस्कृतपत्रकारितायां त्रैमासिक-एडवांस पाठ्यक्रमस्य शुभारम्भो विहित:। अस्मिन् कार्यक्रमे पत्रकारिता जगत: नेके गणमान्या: उपस्थिता: आसन्। विद्यापीठस्य कुलपति: प्रो. रमेशकुमारपाण्डेय: कार्यक्रमस्याध्यक्षं निरवहत्।
अत्रावसरे मुख्यातिथित्वेन केन्द्रीयपत्रसूचनाकार्यालयस्य अथ च रेलमंत्रालयस्य महानिदेशकेन अनिलकुमारसक्सेनावर्येण संस्कृतभाषाया: वैशिष्ट्यं प्रकटयता पत्रकारिताक्षेत्रे संस्कृतस्यावश्यता सबलम प्रतिपादिता, आङ्गलसङ्गणकाभ्यां सह संस्कृतस्य प्रयोगेण राजभाषाकार्यालयेषु श्रेष्ठतमशब्दावली निर्माणस्य संभावनादृशि युवान: सम्प्रेरिता:। येन संस्कृतयुववर्ग: युवभारतस्य निर्माणे विशेषयोगदानं प्रदद्यु:।
सम्मानिततिथिना भारतीयजनसञ्चारसंस्थानस्य महानिदेशके डॉ. के.जी. सुरेशेण स्कृतपत्रकारिताया: भाविस्वरूपो व्याख्यायित:। सारस्वततिथि: दिल्ली संस्कृताकादम्या: अध्यक्षा डॉ. कान्तारानी भाटिया विशिष्टातिथि: पार्थसारथी थपलियाल: डॉ.ऋतुराजपूत: विनोदमल्होत्रा च पाठ्यक्रमस्य उद्घाटनकार्यक्रमे उपस्थिता: आसन् । समागततिथिभि: छात्रेभ्य: प्रमाणपत्राणि प्रदत्तानि । सममेव पाठ्यक्रमसम्बन्द्धमहत्त्वपूर्णविवरणं च प्रदत्तम्।
संस्कृतपत्रकारिताया: विद्यार्थिनां आधुनिकपत्रकारितया सह संयोजनदिशि महत्त्वपूर्णपदक्षेपस्य श्रेय: पाठ्यक्रमस्य संयोजिकायै प्रो.कमलाभारद्वाजवर्यायै गच्छति। संस्थानद्वयस्य मिथ: सेतुरूपेस्य पाठ्यक्रमस्य विशेषता वर्तते यत् छात्रा: द्विविधशिक्षकाणां निर्देशनं प्राप्स्यन्ति। अस्मिन् क्रमे विद्यापीठेन विगतवर्षे एकवर्षीय: ( पी.जी डिप्लोमा) पत्रकारिता पाठ्यक्रम: संचालित: आसीत् , यस्मिन् त्रिंशच्छात्रै: अध्ययनं प्राप्य कार्यं प्रारब्धम् ।
Tuesday, January 23, 2018
जनतन्त्रस्य सुस्थितये स्वतन्त्रनियमव्यवस्था अनिवार्या - न्यायाधीशः चेलमेश्वरः
नवदिल्ली>जनतन्त्रस्य सुस्थितये स्वतन्त्रा पक्षरहिता नियमव्यवस्था अनिवार्या इति न्यायाधीशेन चेलमेश्वरेण उक्तम्। सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशं दीपक् मिश्रां विरुद्ध्य कृतस्य वार्तामेलनानन्तरं भाषमाणः आसीत् सः। नवदिल्याम् आयोजिते पुस्तकप्रकाशनसन्दर्भे आसीत् तस्य अभिमतप्रकाशनम्। जनानाम् उत्कर्षं लक्षीकृत्य सर्वोच्चन्यायालयस्य प्रवर्तनानि पोषणीयानि इत्यपि तेन उक्तम्।
सर्वेषु पट्टिकाशकटेषु CCTV छायाग्राही संस्थाप्यते।
नवदिल्ली> यात्रिकाणां सुरक्षायै सर्वेष्वपि रयिल् यानेषु रयिल् निस्थानेषु च सि सि टि वि छायाग्राही उपयुज्य निरीक्षणं कर्तुं रयिल् विभागः सज्जः अभवत् । 3000 कोटि रुप्यकाणि एतदर्थं 2017 - 18 तम संवत्सरस्य केन्द्र आर्थिकासूत्रणे निवेश्यते इति वार्ताहरसंस्थया आवेदितम्। 11,000 यानेषु 8,500 रयिल् निस्थानेषु च नूतना छायाग्राही संस्थापयितुम् उद्दिश्यते। 12 लक्षं छायाग्राहिण्यः एतदर्थम् अवश्यकानि। यानस्य प्रति प्रकोष्टं प्रति 8 छायाग्राहिण्यः संस्थापयिष्यन्ते। द्वाराणि तथा विन्यस्तानाम् आसन्धानां मध्यमार्गाः च छायाग्राहिण्यः दृष्टिकोणे अन्तर्भविष्यति।
जर्मनी ईस्रायेल् च उभयसौहृदं शक्तीकुरुतः।
जेरुसलेम्> जर्मनी ईस्रायेल् च उभयसौहृदं शाक्तीकुरुतः। तेन अनुबन्ध्य ईस्रायेल् प्रधानमन्त्रिणा बन्चमिन् नेतन्याहुना सह दर्मन् विदेशकार्यमन्त्री सिग्मर् गब्रियेल साक्षात्कारः करिष्यति। ईस्रायेल् राष्ट्रस्य टेल् अवीव् मध्ये जनुवरी २९ दिनात् ३० पर्यन्तं प्रचाल्यमाने इन्स्टिट्यूट् फोर् नाषणल् सेक्यूरिट्टी स्ट्टीस् इतेयस्य एकादशतमे सम्मेलने भागभाक् कर्तुं जर्मन् विदेशकार्यमन्त्री इस्रायेलं आगच्छति। जनुवरी एकत्रिंशत् तमे ईस्रायेल् राष्ट्रे द्वयोः साक्षात्कारः प्रचलति।
Monday, January 22, 2018
केरले ४५,००० कक्ष्याप्रकोष्ठानि उन्नतपारिभाषिकत्वं प्राप्नुवन्ति; उद्घाटनम् अद्य।
अनन्तपुरी >केरलराज्ये सार्वजनीनशैक्षिकसंरक्षणयज्ञस्य अनुबन्धतया कक्ष्याप्रकोष्ठानि उन्नतपारिभाषिकत्वं [Hi-Tech] प्राप्नुवन्ति। प्रथमसोपाने पञ्चचत्वारिंशत् सहस्रं प्रकोष्ठानि एतद्वैशिष्ट्याय सिद्धानि सन्ति। एतस्य औपचारिकमुद्घाटनम् अद्य अनन्तपुर्यां टागोर् नाट्यशालायां मुख्यमन्त्रिणा पिणरायि विजयेन क्रियते। तथा च एकलक्षं छात्राणां 'लिटिल् कैट्स्' [Little Kites] नामकस्य ऐ टि सङ्गमस्य उद्घाटनमपि सम्पत्स्यते।
४५,००० कक्ष्याप्रकोष्ठेषु 'लाप् टाप्' , 'प्रोजेक्टर्' , 'स्पीक्कर्' , 'ब्राड् बान्ट' अन्तर्जालसुविधा इत्यादिसुविधाः आस्याम् आयोजनायां लप्स्यन्ते। ४७७५ विद्यालयाः Multifunctional printer, Digital camera, Television, Webcam, Surveylance system इत्यादीनि उपकरणान्यपि अध्ययनसुविधायै लभन्ते।
आम् आद्मी सामाजिकानाम् अयोग्यता - राष्ट्रपतिना अङ्गीकृता।
नवदिल्ली > आयकरं पदद्वयं युगपद्वहन्ति इत्यारोप्य दिल्लीशासनपक्षे विद्यमानानां २० आम् आद्मी दलसामाजिकानां अयोग्यतां कल्पयितुमुद्दिश्य निर्वाचनसंस्थया समर्पितम् आवेदनं राष्ट्रपतिना रामनाथकोविन्देन अङ्गीकृतम्। नियममन्त्रालयेन तदधिकृत्य विज्ञापना अपि प्रकाशिता। षण्मासाभ्यन्तरे प्रस्तुतेषु २० मण्डलेषु उपनिर्वाचनं भविष्यति।
Sunday, January 21, 2018
यानचलकानां अश्रद्धया ११०१८ अष्टादशाधिक एकादश सहस्रं प्राणाः विनष्टाः।
अनन्तपुरी> वाहनचालकानाम् अनवधानतया गत-संवत्सर-त्रयाभ्यन्तरेण अष्टादशाधिक एकादश सहस्रं मनुष्याणां प्राणाः विनष्टाः। केरळ राज्यस्तरीय गणना भवति इयम् । अष्टादशशतं (१८००) गुरुतरया रीत्या क्षताः च इति आरक्षकाणां गणना
अनया गणनया इदानीं अनुवर्तामानायाः यानचालकाध्ययने पाठन-अभ्यास प्रणाल्याः अपर्याप्ततायाः प्रमणमिति वक्तुं शक्यते। यानचालक-परीक्षा कालानुसृतं परिष्कर्तुं यन्त्रयानविभागोन न उद्युक्तम्। यान चालने प्रथमस्तरे विद्यमानाः अपि परीक्षायाम् उत्तीर्णतां प्राप्नुवन्ति। यानस्य चालनसमये चलदूरवाणीनाम् उपयोगः, मद्यं पीत्वा यानचालनं च यानादुर्घटनायाः मुख्यकारणत्वेन वदन्ति।
अमेरिक्कायाः सर्वकारवित्तकोशः पिहितः।
वाषिङ्टण् > फेब्रुवरी १९ पर्यन्तं सर्वकारव्यवहारान् सञ्चालयितुम् उद्दिश्यमाणाय आयव्ययपत्राय सेनट् सभया अनुमतिः न दत्ता इत्यतः अमेरिक्कायाः सरवकारवित्तकोशः पिहितः। आयव्ययपत्रविधेयकं सभायां ४८ विरुद्ध्य ५० मतदानैः पराजितमभवत्। वित्तकोशस्य पिधानेन सर्वकारकार्यालयाश्य पिधातुमारब्धाः।
चतुर्भ्यः वर्षेभ्यः पूर्वं समानः प्रतिसन्घिः अमेरिक्कायां सञ्जात आसीत्। बराक् ओबामा इत्यस्य शासनकाले २०१३तमे १६ दिनानि वित्तकोशः पिहितः भूतः।
Subscribe to:
Posts (Atom)