OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 25, 2025

 न्योमा - भारतस्य उच्चतरः सैनिकव्योमनिलयः। 

समुद्रवितानात् १३,७०० पादमिते वर्तमानः नयोमा सैनिकव्योमनिलयः। 

अभिमाननिलयस्य उद्घाटनम् ओक्टोबरमासे। 

नवदिल्ली> हिमालयसानुनि भारतव्योमसेनायै निर्मितः उत्कृष्टः विमानावतरणनिलयः [Advanced landing ground] उद्घाटनाय सज्जः वर्तते। चीनसीमायाः समीपे न्योमा इत्यत्र निर्मितं निलयम् ओक्टोबरमासे प्रधानमन्त्री नरेन्द्रमोदी उद्घाटयिष्यति। अनेन विश्वस्मिन् उच्चतरः चतुर्थः सेनाविमाननिलयः भविष्यति एषः। 

  समुद्रवितानात् १३,७०० पादमितम् उच्चस्थितः अयं निलयः चीनसीमायाः ३० किलोमीटर्, ले इत्यस्मात् २०० किलोमीटर् च दूरे वर्तते। Border Roads Organization संस्थया २०२३ सेप्टम्बर् मासे अस्य निर्माणमारब्धम्। 'रफाल्' युद्धविमानमभिव्याप्य सर्वाणां युद्धविमानानाम् उड्डयनम् अवतरणं च अत्र साध्यमस्ति। यस्मिन् आकस्मिकसन्दर्भे अपि सैनिकान् आयुधानि च जवेन  प्रापयितुं शक्यते। 

  शीतकाले अत्र तापमानं त्रिंशत् डिग्री न्यूनं [- ३० डिग्री] भवति। २१८ कोटि रूप्यकाणि एवास्य निर्माणव्ययः।