भारतस्य सम्पूर्ण व्योमप्रतिरोधकवचं सफलम्।
भुवनेश्वरं> व्योमभीषां प्रतिरोद्धुं भारतस्य संयोजितव्योमप्रतिरोधसंविधानपरीक्षणं विजयकरमभवत्। राष्ट्रस्य रक्षागवेषण-विकसन-संघनेन साक्षात्कृतमस्ति 'समग्र व्योमप्रतिरोधकवचं [Integrated Air Defense Weapon System] । तस्य परीक्षणं ओडीषातटे चान्दिपुरे फलप्राप्त्या सम्पन्नम्।
आकाशमार्गेण गम्यमानं मनुष्यरहितविमानद्वयं एकं 'मल्टी कोप्टर् ड्रोण्' इत्येतच्च आकाशे विभिन्नोच्चेषु विभिन्न लक्ष्येषु च बभञ्ज। स्वतन्त्रतादिने प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घोषितस्य संयोजितव्योमप्रतिरोध कवचस्य सुदर्शनचक्राभिधेयस्य साक्षात्कारांशतया आसीदिदं परीक्षणम्।