अनाथशुनकप्रकरणे सर्वोच्चन्यायालयस्य परिष्करणम्।
वाक्सिनीकृत्य वन्ध्यीकृत्य मोचनीयाः।
नवदिल्ली> राष्ट्रराजधान्याम् अटनं कुर्वन्तः अनाथशुनकाः गृहीताः सन्तः नगरात् बहिः अभयकेन्द्रं नीतव्याः इति सर्वोच्चन्यायालयस्य द्व्यङ्गनीतिपीठस्य आदेशः त्र्यङ्गनीतिपीठेन परिष्कृतः।
यदि शुनकाः न दोषकारिणः तान् वन्ध्यीकृत्य रोगप्रतिरोधसूचीप्रयोगं [Vaccination] च कृत्वा यतः निगृहीताः तत्रैव मोचितव्याः इति परिष्कृतादेशे न्यायालयेन प्रोक्तम्। सोन्मादविषाः अक्रमभावयुक्ताः च शुनकाः अभयकेन्द्रे एव उषितव्याः।
अनाथशुनकेभ्यः वीथ्यां भोज्यवस्तूनि न दातव्यानीति न्यायालयेन कर्कशेन निर्दिष्टम्। प्रत्येकं नगरविभागे [ward] शुनकानां संख्यानुसारं भोज्यप्रदानाय सविशेषं स्थानं कल्पनीयम्। प्रकरणमिदं अष्टसप्ताहानन्तरं परिगणिष्यते।