आचार्यशिवशङ्करमिश्रः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलगुरुपदभारम् ग्रहीतवान्।
-डॉ. दिनेशचौबे, उज्जयिनी।
उज्जयिनीस्थस्य महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य नवनियुक्तः कुलगुरुः (कुलपति:) प्रोफेसरः शिवशङ्करमिश्रमहोदय: आचार्यवर्यः गुरुवासरे विश्वविद्यालयपरिसरे अष्टमः कुलगुरुरूपेण विधिवत् कार्यभारम् अधिगतवान्।
पदभारग्रहणात् पूर्वं तेन श्रीमहाकालेश्वरस्य आशिषः प्राप्तः। अनन्तरं विश्वविद्यालयपरिसरे स्थितस्य भगवान् श्रीपाणिनीश्वरमहादेवस्य पूजनम्, अभिषेकं, हवनं च कृत्वा कार्यभारं गृहीतम्। आचार्यमिश्रेण संस्कृतभाषायाः प्रसाराय, भारतीयज्ञानपरम्परायाश्च संरक्षण–विश्वव्यापकत्वाय पुनः स्वसंकल्पः उद्घोषितः।
प्रो. मिश्रः नवदेहलीस्थ श्रीलालबहादुरशास्त्री-राष्ट्रिय संस्कृतविश्वविद्यालये अनुसंधानविभागाध्यक्षपदे कार्यरतः आसीत्। मध्यप्रदेशस्य राज्यपालः कुलाधिपतिरपि च चतुर्वर्षकालाय विश्वविद्यालयस्य कुलगुरुपदे आचार्यमिश्राय नियुक्तवान्। आचार्यमिश्रस्य नियुक्तेः कार्यकालः पदभारग्रहणसमयादारभ्य प्रवर्तिष्यते।
स्वीयं मन्तव्यं प्रकाश्य प्रो. मिश्रः उक्तवान् – “मम प्रयत्नः भविष्यति यत् विश्वविद्यालयम् अकादमिके, अनुसन्धानक्षेत्रे, सांस्कृतिके स्तरॆ च उन्नतिं प्रापयामि। अत्र सर्वैः सह मिलित्वा अहं कार्यं करिष्यामि।”
पूर्वकुलगुरुः प्रो. विजयकुमारसीजीवर्य: स्वकार्यभारं प्रो. मिश्राय समर्पितवान्। अस्मिन् अवसरॆ कुलसचिवः प्रो. दिलीपसोनी, विभागाध्यक्षा: डॉ. अखिलेशकुमारद्विवेदी, डॉ. तुलसीदासपरोहा, डॉ. उपेन्द्रभार्गव, डॉ. पूजाउपाध्याय, डॉ. संकल्पमिश्र इत्येते उपस्थिताः आसन्।