OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, August 27, 2025

 भारतस्योपरि ट्रम्पस्य अधिकशुल्कः अद्य प्रबलं भविष्यति। 

वाषिङ्टणः> रष्यायाः तैलेन्धनं क्रीणाति इति कारणात् यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेन निश्चितः २५% अधिकः दण्डशुल्कः अद्य प्रबलं भविष्यति। वर्तमानीनेन २५% शुल्केन सह अस्य दण्डशुल्कस्य योगेन भारतात् अमेरिकाम् आयातवस्तूनां शुल्कः ५०% भविष्यति।

  यू एस् प्रशासनेन सोमवासरे  एतदधिकृत्य संगृहीतविज्ञप्तिः प्रकाशिता। एतदनुसृत्य बुधवासरे यू एस् समयानुसारं  अर्धरात्रे १२.०१ वादनात्परं [भारतीयसमयः अहनि नववादनम्] अमेरिकीयविपणीं प्राप्तवतां तथा सम्भारशालेभ्यः विपणीं  प्रस्थितानां भारतसामानानां च दण्डशुल्कः बाधकः भवेत्। पूर्वनिश्चितः आयातकरः आगस्ट् सप्तमदिनाङ्के प्रवृत्तिपथमागतः आसीत्।