केरले श्रावणोत्सवाय शुभारम्भः।
कोच्ची> आविश्वं केरलीयानां देशीयोत्सवः 'ओणोत्सवः' इत्यभिधेयः श्रावणोत्सवः ह्यः तृप्पूणित्तुरा राजनगर्यां हस्तोत्सवेन समारब्धः। आगामिनी दश दिनानि आह्लादस्य समभावनायाः च दिनानि भवन्ति।