ओण् लैन् द्यूतनिरोधनियमः क्रियासमर्थः जातः।
बह्व्यः संस्थाः प्रवर्तननिवृत्ताः [Uninstalled] बभूवुः।
नवदिल्ली> केन्द्रसर्वकारेण प्रस्तुतं अन्तर्जालीयद्यूतक्रीडा-पणव्यवहारनिरोधविधेयकं राष्ट्रपतिना च अङ्गीकृत्य शुक्रवासरे नियमः अभवत्। नियमे क्रियासमर्थे जाते प्रमुखाः ओण् लैन् द्यूतक्रीडावेदिकाः पिहिताः जाताः।
भारतक्रिकट् दलस्य 'स्पोण्सर्' [sponsor] रूपेण वर्तमाना ड्रीम् ११, मै ११ सर्किल्, विन्सो, सुपी, पोकर् बासी इत्याद्याः संस्थाः तासां प्रवर्तनानि समापयन्त।