जर्मनीतः ६ अन्तर्वाहिनीः क्रेतुमुद्यमः।
७०,००० कोटीनामनुज्ञा।
नवदिल्ली> 'प्रोजेक्ट् इन्डिया - ७५' अभियानस्य अंशतया जर्मनीतः ७०,००० कोटिरूप्यकाणां व्ययेन नूतनपरम्पराविभागे अन्तर्भूताः षट् अन्तर्वाहिनीः क्रेतुं सन्धिकरणाय केन्द्रप्रशासनस्य अनुज्ञा। रक्षामन्त्रालयस्य 'मसगोण् डोक् षिप् बिल्डेर्स् लिमिटेड' [Mazagone Dock Ship Builders Ltd] इत्यस्य कृते एव अनुज्ञा दत्ता। अष्टमासाभ्यन्तरे चर्चां पूर्तीकर्तुं रक्षामन्त्रालयेनउद्दिश्यते।