हिमप्रदेशे अलास्कादेशे अपूर्वाधिकतापः रेखाङ्कितः।
OUR YouTube Channel 1. SampratiVartah |
marquee
Monday, January 3, 2022
Sunday, January 2, 2022
ओमिक्रोण् प्रकरणानि वर्धिष्यन्ते; चिकित्सालयाः सज्जाः भवितव्याः।
नवदिल्ली> राष्ट्रे ओमिक्रोण् प्रकरणेषु अत्यधिका वर्धना भविष्यतीत्यतः आराष्ट्रं चिकित्सालयसंविधानानि कार्यक्षमाणि शक्तानि च करणीयानीति केन्द्रसर्वकारः राज्यसर्वकारानादिशत्।
एकान्तवासाय तल्पाः, ऐ सि यू तल्पाः, बालकानां कृते सविशेषविभागः, प्राणवायुसम्भरण्यः, 'आम्बुलन्स्'यानानि, अवश्यौषधसञ्चयः इत्यादयः सज्जीकरणीयाः। कोविड्भावात्मकेषु ये तीव्रलक्षणाभावाः वर्तन्ते ते स्वगृहेषु एव एकान्तवासं समनुष्ठातव्याः। येषां कृते अतीव चिकित्सा अवश्यकी तान् चिकित्सालयं नेतुमर्हन्ति।
रोगव्यापनस्य पूर्णनिरोधाय केन्द्रस्वास्थ्यमन्त्रालयस्य सर्वविधाभियोगः भविष्यतीति मन्त्रालयेन स्पष्टीकृतम्।
Saturday, January 1, 2022
चेन्नै नगरे तीव्रवृष्टिः;त्रीणि मरणानि।
चेन्नै> नगरे दिनद्वयं यावत् अनुवर्तमानया तीव्रवृष्ट्या सर्वत्र जलसञ्चयः जातः। गमनागमनं दुष्करमभवत्। त्रयः जनाः मृत्युभूताः अभवन्। जनजीवनं दुस्सहमभवत्। नगरस्य १५० प्रदेशाः जनसञ्चयेनावृतम्। जनजीवितं निश्चलमभवत्।
तमिल्नाटस्य विविधजनपदेषु पुतुच्चेरी, कारक्कल् प्रदेशेषु च आगामिदिनद्वयं यावत् तीव्रवृष्टिः भविष्यतीति पर्यावरणविभागेन निगदितम्। वृष्टिबाधितप्रदेशान् मुख्यमन्त्री स्टालिनः सन्दृष्टवान्।
कुमारेभ्यः वाक्सिनं - अद्य आरभ्य पञ्जीकरणम्।
अनन्तपुरी> केरले १५ वयः आरभ्य १८ वयःपर्यन्तं कुमारीभ्यः कुमारेभ्यः च कोविड्प्रतिरोधसूच्यौषधं दातुमुद्दिश्यमानं पञ्जीकरणम् अद्य आरभते। ओण् लैन् द्वारा वाक्सिनस्थानं प्राप्य साक्षाद्वा पञ्जीकरणं शक्यम्। येषां अन्तर्जालपञ्जीकरणं न शक्यते तेषां छात्राणां कृते विद्यालयैः पञ्जीकरणं कार्यम्।
सोमवासरादारभ्य कुमारेभ्यः वाक्सिनवितरणमारप्स्यते। तदर्थं ५ लक्षं वाक्सिनवृन्दं राज्यं प्राप्स्यते।
नूतनसंवत्सराय स्वागतं व्याहृत्य विश्वम्। विनोद विस्फुलिंङ्गप्रदर्शनेन नूतसंवत्सराय स्वागतं व्याहृत्य न्यूसिलान्ड् राष्ट्रम्।
न्यूसिलाण्डे ओक्लण्डे एव नूतन संवत्सरस्य प्रारम्भः प्रथमतया समागतः। ततः पश्चात् ओस्ट्रेलियायां समागमिष्यति। पुनः जापान्, दक्षिणकोरिया, चीना, भारतम् इति क्रमेण नूतन संवत्सरस्य समारम्भः भविष्यति।
वार्ता - रमा टी के -
Friday, December 31, 2021
मुम्बैदेशे खलिस्थान् भीकराः आक्रमणं कुर्यात् इति पूर्वसूचना। अतिजाग्रतापालनाय निर्देशः।
मुम्बै> खलिस्थान् भीकराः मुम्बैयां आक्रमणं कुर्यात् इति सुरक्षादलस्य पूर्वसूचना। नगरे अतिजाग्रतानिर्देशः दत्त:। अवकाशं स्वीकृत्य कर्मसु विरमिताः सर्वे अवकाशं परित्यक्त्वा प्रत्यागन्तुं निर्देशो दत्तः। नूतनसंवत्सरदिने मुम्बै नगरे विविधप्रदेशेषु खलिस्थान् भीकराः आक्रमणम् आयोजयितुं आसूत्रणं करोति इति मुम्बैदेशस्य आरक्षकदलाय लब्धे केन्द्रीयरहस्यान्वेषणविभागस्य प्रतिवेदने अस्ति। एतदनुसृत्य अवकाशं स्वीकृताः सर्वे आरक्षकाः प्रत्यागमनाय आहूताः। एतान् सर्वान् नगरे विविधप्रदेशेषु सुरक्षायै नियोजयिष्यतिI
Thursday, December 30, 2021
ओमिक्रोण् भीषया प्रधानमन्त्रिणः नरेन्द्रमोदिनः यु ए इ सन्दर्शनं तात्कालिकतया परित्यक्तम्।
नवदिल्ली> आशङ्कां जनयित्वा ओमिक्रोण् व्याप्यमाने सन्दर्भेऽस्मिन् प्रधानमन्त्रिणः नरेन्द्रमोदिनःयु ए इ सन्दर्शनं तात्कालिकतया परित्यक्तम्। जनुवरि मासस्य षष्ठतमे दिनाङके एव प्रधानमन्त्री नरेन्द्रमोदी यु ए इ सन्द्रष्टुं निश्चितम्। २०२२ तमे संवत्सरे तस्य प्रथमा विदेशयात्रा भवेत् इयम्। उभौ राष्ट्रौ तयोः नयतन्त्रबन्धयोः पञ्चाशत्तमसंवत्सरोत्सवस्य सन्दर्भे एव सन्दर्शनं निश्चितम्।
केरले अद्य आरभ्य निशाकालनियन्त्रणम्।
अनन्तपुरी> ओमिक्रोणबाधां पुरस्कृत्य केरले अद्य आरभ्य जनवरि २ पर्यन्तं निशाकालनियन्त्रणं विधत्तम्। रात्रौ १० वादनतः उषसि ५ वादनपर्यन्तं यात्रानिरोधनं, संघीकरणं, धार्मिक-राजनैतिक-सांस्कृतिक कार्क्रमाः इत्यादीनां निरोधः च विहितः। किन्तु शबरिगिरि-शिवगिरितीर्थाटनयोः अनन्तर्भावित्वं च विहितमस्ति।
नववत्सरोत्सवाः रात्रौ १० वादनात्पूर्वं समाप्तव्याः। रात्रिकालसञ्चारः अवश्यः चेत् प्रमाणपत्रं प्रदर्शनीयम्। केरले ओमिक्रोणबाधिताः आहत्य ६५ जाताः। व्यापननिरोधाय यावच्छक्यं जागरुकताप्रक्रमाः स्वीकृताः इति स्वास्थ्यमन्त्रालयेन निगदितम्।
विश्वस्मिन् ओमिक्रोणव्यापनं वर्धते - अमेरिक्कायां ४.४ लक्षं प्रतिदिनरोगिणः।
यूरोप् मध्ये अपि वर्धते। नववत्सरोत्सवाः परित्यक्ताः।
वाषिङ्टण्> कोरोणा विषाणोः ओमिक्रोण् प्रभेदः लोके सर्वत्र वर्धमानः दृश्यते। यू एस् राष्ट्रे ओमिक्रोण् बाधितानां प्रतिदिनसंख्या ४.४ लक्षमभवदिति तद्राष्ट्रस्य व्याधिनियन्त्रणसंस्थया [C D C] निगदितम्।
यूरोप् राष्ट्रेष्वपि रोगिणः वर्धन्ते। मङ्गलवासरे फ्रान्स् राष्ट्रे १.७९ लक्षं जनाः कोविड्बाधिताः जाताः। इट्टलीमध्ये ७८,००० जनेषु नूतनतया रोगबााधा दृढीकृता। २०२ जनाः मृत्युवशं गताश्च। गतदिने पोर्चुगले १७,१७२ जनाः, ब्रिट्टने १,१७,०९३जनाः, ग्रीसे २१,६५७ जनाः च ओमिक्रोणबाधिताः अभवन्।
रोगव्यापनमतितीव्रमित्यतः पारीस्, लण्टन्, बर्लिन् नगरेषु नववत्सरोत्सवाः त्यक्ताः।
Wednesday, December 29, 2021
लुधियाना स्फोटनम्; निरोधितस्य सिख् सघटनस्य प्रधानप्रवर्तकः संगृहीतः।
नवदिल्ली> पञ्चाबे लुधियाना न्यायालयसमुच्चयस्फोटनं संबन्ध्य भारते निरोधितस्य 'सिख् फोर् जस्ट्टिस् ' नाम भीकरसंघटनस्य प्रधान-प्रवर्तकेषु अन्यतमः जस्वीन्तर् सिंह् मुल्ट्टानः जर्मन्याम् एल्फर्टात् संगृहीतः इत्येव प्रतिवेदनम्। तं भारतमानेतुं आवश्यकाः उपक्रमाः विलम्बं विना आरप्स्यन्ते। भारते बृहत् आक्रमणम् आयोजयितुं तन्त्राणि आविष्कुर्वन्ति इति सूचनाम् आधारीकृत्य एव जर्मन्याः आरक्षकैः मुल्ट्टानः संगृहीतः इति प्रतिवेदनानि व्यनक्ति।
पारस्परिकनिधीनां प्रवर्तनस्य ताल्कालिकस्थगनाय निक्षेपकाणाम् अनुमतिः आवश्यकी।
पारस्परिकनिधीनां ( Mutual fund)प्रवर्तनं तात्कालिकतया स्थगयितुं(freezing) निक्षेपकाणाम् अनुमतिः आवश्यकी। येन केनापि कारणेन पारस्परिकनिधिसंस्था निधीनां प्रवर्तनं स्थगयितुं इच्छति चेत् योगाङ्गानां (unity owner)अनुमतिं विना न साध्यम्। २०२० संवत्सरे एप्रिल् मासे फ्राङ्किन् टेम्पिल्टण् आर् डेट्ट् निधीनां प्रवर्तनस्य स्थगनप्रक्रमाः अनुवर्तमाने सन्दर्भे एव सेबिना(SEBI) विषयेऽस्मिन् सामान्यनिर्णयः स्वीकृतः। फ्राङ्क्लिन् निधीनां प्रवर्तने स्थागिते निक्षेपकाः न्यायालयसमक्षं विषयमिदं समर्पितमासीत्। सर्वोच्चनीतिपीठेन अनुकूलादेशोऽपि दत्तः अस्ति।
ओमिक्रोण् बाधितानां संख्या वर्धते। राष्ट्रे ५८६ रोगिणः। अतिनियन्त्रणम् आवश्यकमिति केन्द्रसर्वकारः।
नवदिल्ली> राष्ट्रे ओमिक्रोण् वैराणुबाधा अतिशीघ्रं व्याप्यते। गतदिने १५६ जनानामपि ओमिक्रोण् रोगाणुबाधा दृढीकृता। एवं १९ राज्येषु ओमिक्रोण् बाधितानां संख्या ५७८ अभवत्। १५१ जनाः रोगात् मुक्तिं प्रापुः। नवदिल्ली (१४२), महाराष्ट्रा (१४१), केरलम्(५७), गुजरात् (४९), राजस्थान् (४३), तेलङ्कान(४१) प्रभृतिषु राज्येषु एव रोगबाधितानां संख्या अधिका इति प्रतिवेदिता।
Tuesday, December 28, 2021
भवने प्रतिभेदनम्। तमिल्नाडुदेशे भवनसमुच्चयं भग्नमभवत्।
चेन्नै> तमिल्नाडुदेशे चत्वाराट्टयुक्तं भवनसमुच्चयं भग्नमभवत्। चतुर्विंशति भवनानि भवनसमुच्चये आसन्। अपघातेन न कोऽपि व्रणितः। उत्तर तमिल्नाडुदेशे तिरुविट्टियूरे एव घटना संवृत्ता। भवनसमुच्चये विशरणप्रायः इति दृष्टे सति रा तस्मिन्नेव क्षणे रात्रौ तत्र उषितान् सर्वान् अन्यत्र नीतवन्तः। प्रातःकाले सार्धदशवादने
भवनसमुच्चयः विदार्य पतितः। आरक्षकाणाम् अग्निशमनसेनायाः च नेतृत्वे भवनावशिष्टानि परिमार्जयन्तः सन्ति।
तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः दिसंबरमासस्य ३०-दिनाङ्के सम्पूर्णः भविष्यति।
Monday, December 27, 2021
भारत-दक्षिण अफ्रीका-दलयोः मध्ये क्रिकेट-निकष-शृङ्खलायाः प्रथमा स्पर्धा रविवासरे प्रारब्धा।
भारतेन पणकं विजित्य कन्दुकताडनात्मकं चितम्। प्रथमे दिने क्रीडावसानं यावत् भारतीयदलेन क्रीडकत्रयस्य हानौ द्विसप्तयुत्तरद्विशतं २७२ धावनाङ्काः समार्जिताः। भारताय के.एल.राहुलः १२२ द्वाविंशत्युत्तरैकशतम् अथ च अजिङ्क्य-रहाणे चत्वारिंशत् धावनाङ्कान् स्वपक्षे योजयित्वा क्रीडारतौ वर्तेते।
सूत्रिकानिर्माणयन्त्रागारे स्फोटनम्। षट् जनाः मृताः। बहवः जनाः व्रणिताश्च।
पाट्ना> बीहारे मुसाफर्पुरे सूत्रिकानिर्माणयन्त्रागारे (Noodles factory ) जाते स्फोटने षट् जनाः मृताः। बहवः जनाः व्रणिताश्च। यन्त्रागारस्थे बाष्पदं (boiler) प्रभज्य एव अपघातः सञ्जातः। स्फोटनस्य ध्वनिः पञ्चकिलोमीट्टर् अतिक्रम्य श्रुतमिति प्रदेशवासिनः अवदन्। मुसाफर्पुरे बेल इन्डस्ट्रियल् अङ्कणे एव यन्त्रागारः वर्तते। स्फोटनस्य आघातेन समीपस्थः पेषणयन्त्रागारः (Mill) अपि भञ्जितः अभवत्। पेषणयन्त्राकारे सुप्तौ द्वौ सेवकौ अपि व्रणितौ। अन्वेषणं समारब्धमिति जनपदस्य न्यायाधिपतिना (Magistrate) प्रणवकुमारेण प्रोक्तम्।
Sunday, December 26, 2021
भारते पञ्चदशाधिकवयस्केभ्यः वाक्सिनं दातुं तथा स्वास्थ्यप्रवर्तकेभ्यः षष्ठ्युपरिवयस्केभ्यः रोगिभ्यः च वाक्सिनस्य संवर्धितमात्रां प्रदातुं च निश्चितः।
नवदिल्ली> राष्ट्रे १५ वयः आरभ्य१८ वयपर्यन्तं बालकेभ्यः जनुवरि तृतीयदिनादारभ्य सूचीप्रतिरोधवेध: प्रदास्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घोषितम्। ओमिक्रोण् व्यापनसन्दर्भेऽस्मिन् राष्ट्रं अभिसंबोधयित्वा भाषमाणः आसीत् सः। स्वास्थ्यप्रवर्तकेभ्यः षष्ठ्यधिकवयस्केभ्यः रोगिभ्यः च वाक्सिनस्य प्रतिरोधसंवर्धकमात्राम् दातुमपि निर्णयः कृतः। जनुवरि मासस्य दशमदिनादारभ्य संवर्धकमात्रां प्रदास्यति। षष्ठ्युपरिवयस्केभ्यः भिषग्वराणां निर्देशानुसारमेव संवर्धकमात्रां प्रदास्यति। भारतबयोटेक् संस्थया निर्मितं कोवाक्सिनं बालकेभ्यः दातुं डि सि जि ए संस्थया अङ्गीकारः प्रदत्तः आसीत्।
ओमिक्रोण्- विश्वस्मिन् द्विदिनाभ्यन्तरे ४५०० विमानानि निरस्तानि।
न्यूयोर्क्> ओमिक्रोण् व्यापनाशङ्कां अनुवर्तमाने सन्दर्भेऽस्मिन् द्विदिनाभ्यन्तरे विश्वस्मिन् ४५०० यात्राविमानानि निरस्तानि। क्रिस्तुमस् वारान्त्ये यात्रार्थं सज्जानां सहस्रशः जनानां यात्राविघ्नमभवत्। वैमानिकानाम् अन्येषां कर्मकराणां च कोविड्बाधा तथा सम्पर्केण एकान्तवासः इत्यादि कारणेनैव प्रायेण विमानानि निरस्तानि इति प्रतिवेदनमस्ति।