तालपत्ररचनां पुनर्निर्मीय चिट्टूर् ससेण्ट् मेरीस् विद्यालयस्य विद्यार्थिनः।
गोश्रीपूरम् (कोच्ची)> वर्णाः सङ्गणकस्य टङ्कणफलके आगते अस्मिन् काले तालपत्ररचनां पुनर्निर्मीय केचन विद्यार्थिनः। पुरा भारतसंस्कृतिः तथा वेदोपनिषदादयः सर्वे तालपत्रेषु निबद्धाः आसन्। तस्याः संस्कृत्याः स्मरणार्थं विद्यार्थिनामयं प्रयत्नः। चिट्टूर् सेण्ट् मेरीस् विद्यालयस्य संस्कृताध्यापकस्य अभिलाष् टी प्रतापस्य नेतृत्वे विद्यार्थिनः पुरातनवैज्ञानिकरीत्या एव तालपत्राणां निर्माणं अकुर्वन्। तालवृक्षात् पत्राणि स्वीकृत्य औषधजले स्थापयित्वा संस्कृत्य तालपत्राणि निर्मीयन्ते। पुरातनानां तालपत्राणां मापने एव आसीत् निर्माणम्। तेषु श्लोकाः, प्रहेलिकाः, गणितसूत्रवाक्यानि, विद्यालयचरितम् इत्यादयाः लोहसूचिना आलेखिताः। श्रावणपौर्णमि आशंसा: आलेखिताः तालपत्राणि विविधक्षेत्रेषु विशेषज्ञानाम् कृते प्रेषितानि। संस्कृतदिने सोमवासरे एतेषां तालपत्राणां तथा पुरातनानां वस्तूनां च प्रदर्शनं विद्यालये भविष्यतः।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Sunday, August 6, 2017
उन्मादमोहे युवानौ द्विसहस्रपादमितां निम्नताम् प्रति पतित्वा मृतौ।
मुम्बै>मदिरोन्मादे गिरिशिखरे विवेकशून्यसाहसाय उद्यतौ युवानौ द्विसहस्रपादमितां निम्नताम् प्रति पतित्वा मृतवन्तौ। महाराष्ट्राया: सिन्धुदुर्गमण्डले अम्बोलिघट्टनामके विनोदसञ्चारकेन्द्रे सोमवासरे अयमपघात: समभवत्। इतरे विनोदसञ्चारिण: अपघातदृश्यम् चित्रीकृतवन्त:, यच्च समाजमाध्यमेषु इदानीं व्यापकतया प्रचरति। पश्चिममहाराष्ट्राया: कोलापुरात् आगतौ प्रतापराथोड:(२१), इम्रान खराडि:(२६) इत्येतौ मृतवन्तौ। सप्ताङ्गसंघस्थाः इतरे प्रतिनिवर्तनाय निश्चितवन्त: चेदपि एतौ द्वावपि किञ्चिदपि समयं तत्रैव स्थातुं निश्चितवन्तौ। गिरिशिखरात् अध: न पतेयु: इति कृत्वा सुरक्षासीमारोधः निर्मित:। एतस्य उपरि द्वावपि बहुवारं आरोढुं प्रयतितौ जडमन्दतया भूमौ पतितवन्तौ । अन्ते यथाकथञ्चित् सीमान्ते उपवेष्टुं शक्तवन्तौ। पुनरपि मदिरापानासक्तौ हस्तप्रसारै: उच्चै: कूजमानौ च नष्टनियन्त्रणौ तौ अध: निम्नतामपतताम्।
Saturday, August 5, 2017
आतङ्किनः पराजितयुद्धं युध्यन्ति।
आतंकविरोध्यभियानेन अनवरतम् आतंकिवादिनां निर्मूलनस्य मिथः कश्मीरस्य शोपियां जनपदे सैन्याधिकारिणः वीरत्वम् दुःखप्रदं वर्तते । वीरत्वं बहूमूल्यं वर्तेत, भारतं विरुध्य दृष्टिविहीनस्य पाकिस्तानस्य छद्मयुद्धकारणेनेदं सम्भवति। भारतीयसैन्यैधिकारिणां वीरतां संरक्षितुम् आवश्यकमस्ति यत् एकतः सवधानेनातंकवादिनां निर्मूलसमाधानं प्रवर्तितव्यम् अपरतश्च पाकिस्तानस्य कपटाचरणस्य प्रकाशनावसरः न विहातव्यः। पदे-पदे पाकिस्तानं लज्जितुं संकोचः नैव करणीयः। परेसीम्नः समागतातंकिनः एकैकशः समुत्पाटनेन सहैव इदमप्यावश्यकं यत् तेषां शरीराणि पाकिस्तानाय तया रीत्या सम्प्रेषणीयानि यया रीत्य विगतदिनेषु व्यापादितस्य कुख्यातातंकवादिनः अबुदुजानाप्रकरणे विहितम्। आतंकेन समं कदाचारपर्ययाभूतः दुजाना तस्य सहिगिनः मृत्योः दिनान्तरमेव आतंकिद्वयस्य विनाशेन स्पष्टं भवति यत् आतंकोनमूलनाभियानं सजवं प्रवर्तते। अस्य प्रमाणमस्ति यत् अस्मिन् वर्षे इदानीं यावत् शताधिकातंकिनां नाशः समभवत । इदमप्युल्लेखनीयमस्ति यत् विगतकतिपयदिनेषु बृहदाक्रमणे संलिप्तातंकवादिनः सपद्यैव सुरक्षाबलैः व्यापाद्यन्ते। स्थितिरियम् एवमेव प्रवर्तितव्या येन आतंकिनां मनसि भयं स्यात् सममेव पाकिस्तानं जानीयात् यदसौ पराजितयुद्धं युध्यन्ति ।Friday, August 4, 2017
उद्योगस्थवृन्दं भ्रष्टाचारविमुक्तये सज्ज: मोदीसर्वकार:।
नवदिल्ली> भा ज पा सर्वकारस्य अधिकारपदारोहणादारभ्य राष्ट्रे अत्याचारान् न्यूनीकर्तुं समर्था: पद्धतय: अभवन् इति प्रधानमन्त्री नरेन्द्रमोदी दृढीकरोति। रूप्यकनिरोधनञ्च अत्याचारनिवारणाय कृतमिति सर्वकारस्य वाद:। अधुना उद्योगस्थानां दुरहंकारचेष्टां निर्मार्जयितुं समभियोजनां प्रवर्तयति केन्द्रसर्वकारः। विविधविभागेषु कर्मकराणां सेवनपट्टिकाम् परिशील्य अत्याचारसेवकान् कर्मकरान् अधिकृत्य ज्ञापयितुं सर्वविभागान् , पारामिलिटरीसैन्यं च आभ्यन्तरमन्त्रालय: निरदिशत्। आगस्ट् पञ्चाभ्यन्तरे पट्टिकां समर्पयितुमेव निर्देश:। तत्तद्विभागमेधाविन: एव पट्टिकाम् आभ्यन्तरमन्त्रालयाय समर्पयेयु:। उद्योगस्थान् केन्द्रीकृत्य आरोपणपत्राणि, अन्वेषणावेदनम्, धार्मिकता, उद्योगे उत्तरदायित्वम्, सर्वकारनिर्देशम् अनुसृत्य न प्रवर्तनम्, एतानि कारणानि परिगणय्य विभागतले पट्टिका सज्जीक्रियते। विविधविभागै: केन्द्राभ्यन्तरकार्यालयम् प्रति दीयमानपट्टिका केन्द्राभ्यन्तरमन्त्रालयेन सी बी ऐ तथा सेन्ट्रल् विजिलन्स् कमीशनस्य च कृते दीयते। सेवनचरितसूचीं परिशील्य आगस्ट् पञ्चदशात्परम् एतान् प्रति निर्णया: स्वीक्रियते।
राष्ट्रे उपशतसङ्ख्याका: सेतव: अपघातभीषणे।
नवदिल्ली>राष्ट्रस्य विभिन्नभागेषु विद्यमाना: उपशतसङ्ख्याका: सेतव: भग्नभीषणे सन्तीति केन्द्रगतागतविभागस्य मन्त्री नितिनगडकरि:।लोकसभायाम् प्रवृत्तायाम् प्रश्नोत्तरवेलायां गडकरि: एवं ज्ञापितवान्। राष्ट्रे आहत्य एकं दशांशं षट् लक्षं सेतव: सन्ति, एतेषु शतंसङ्ख्याका: सेतव: पूर्णतया अपघातभीषणे सन्ति। नवीकरणप्रवृत्ती: झटिति न कुर्याम तर्हि गुरुतरा: अपघाता: भवितुमर्हन्ति। राष्ट्रे सर्वोत्कृष्टमार्गान् निर्मितुं केन्द्रसर्वकार: यतते - गडकरि: अवदत्। मार्गाणां कृते स्थानस्वीकारे परिस्थितिसंरक्षणे च आगच्छन्त्य: समस्या: मार्गनिर्माणे कालविघ्नम् जनयन्ति इत्यपि सूचितवान् स:। त्रीणि दशांशम् अष्ट पञ्च लक्षं कोटि: रूप्यकाणाम् मार्गपद्धती: आगमिष्यन्तीत्यपिसट स: व्यक्तीकृतवान्।
११.४४ लक्षं 'पान्' पत्राणि तिरस्कृतानीति अर्थकार्यमन्त्रालयः।
नवदेहली> राष्ट्रे एकादशलक्षाधिकानि पान् पत्राणि तिरस्कृतानीति केन्द्र आर्थकार्यमन्त्रालयः। राज्यसभायां समर्पितायां संस्तुत्यां एकस्यैव व्यक्तेः एकाधिकानि पान्पत्राणि दत्तानि इति हेतुना चतुश्चत्वारिंशद् - सहस्रोत्तर एकादशलक्षं पान्पत्राणि तिरस्कृतानीति केन्द्र अर्थकार्यसहमन्त्रिणा सन्तोष्कुमार गाङ्वारेण व्यक्तीकृतम्। नियमानुसारं एकस्य एकमेव पान्पत्रं अर्हति। किन्तु तत् नियमं अत्र न पालितमिति निरीक्षितम्। अतः गतजूलाई सप्तविंशतिदिनङ्ग (२७) पर्यन्तं ११,४४,२११ एकादशाधिक द्विशतोत्तर चतुश्चत्वारिंशत् सहस्राधिक एकादशलक्षं पान्पत्राणि तिरस्कृतानीति मन्त्रिणा व्यक्तीकृतम्। षट्षष्ठ्यधिक पञ्चशतोत्तर एकसप्तसहस्र द्विलक्षं (२७,१५६६)पान्पत्राणि व्याजानीत्यपि अवगतम् इत्यपि मन्त्रिः अवदत्।Thursday, August 3, 2017
पि यू चित्रायै केरलसर्वकारस्य आर्थिकसाहाय्यम्।
अनन्तपुरी > भुवनकायिकमेलनात् भारतीयकायिकसंस्थया तिरस्कृतायै धावनक्रीडकायै पि यू चित्रायै केरलसर्वकारस्य आर्थिकं साहाय्यम्। आर्थिकक्लेशमनुभवन्त्याः चित्रायाः परिशीलनार्थं प्रतिमासं २५,००० रूप्यकाणि दीयन्ते। कायिकमन्त्री ए सि मोय्तीनः एव वार्ताहरान् प्रति एवं न्यवेदयत्।
तथा च केरलस्य पादकन्दुकक्रीडकाय सि के विनीताय सर्वकारीयं कर्मापि वाग्दत्तम्। 'सेक्रट्टेरियट् असिस्टन्ट्' अथवा तत्तुल्यं पदमेव विनीताय दास्यति। यथायोग्यम् उपस्थितेरभावात् सः ए जि कार्यालयतः निष्कासितः अभूत्।
“मनोगतम्” [34]
(प्रसारण-तिथि:- 30.07.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
- भाषान्तर-कर्ता - बलदेवानन्द सागरः
मम प्रियाः देश-वासिनः ! नमस्कारः| मानवस्य मनः एव तादृशं यदस्मै वर्षाकालः रोचते| कालोsयम् अतितरां रमणीयः| पशु-पक्षि-पादप-वृक्ष-प्रकृति-इति प्रत्येकमपि वर्षायाः आगमनेन प्रफुल्लताम् अनुभवति| परञ्च कदाचित् यदा प्रकृतिः विकरालं रूपं धत्ते तदा अनुभवामः यत् जलस्य विनाश-शक्तिः कियती बलवत्तरा भवति ? प्रकृतिः अस्मभ्यं जीवनं ददाति, पालयति च, परञ्च कदाचित् जलपूर-भूकम्प-सदृशीभिः प्राकृतिकापद्भिः सह अस्याः भीषणं स्वरूपं बहु विनाशकारि भवति| परिवर्तमाने ऋतु-चक्रे पर्यावरणे च यत् किमपि परिवर्तते, तस्य बृहत्तरः नकारात्मकः प्रभावः अपि सञ्जायते| विगतेभ्यः कतिपय-दिनेभ्यः भारतस्य केषुचित् भागेषु, विशेषेण असमोत्तरपूर्व-गुजरात-राजस्थान-बङ्गालेषु अतिवृष्टि-कारणात् प्राकृतिकापदः सम्मुखीक्रियन्ते| जलपूर-प्रभावितानां क्षेत्राणां पूर्णम् अवेक्षणं विधीयते| व्यापक-स्तरेण साहाय्य-कार्याणि अनुष्ठीयन्ते| यत्र शक्यमस्ति तत्र मन्त्रि-परिषदः मम सहकर्मिणः
Wednesday, August 2, 2017
हट्टतालः - क्रियाविधिम् अभियाच्यमानः मानवाधिकारपालनाधिकारी।
अनन्तपुरी > पूर्वसूचनां विना प्रचाल्यमानाः हट्टतालनामकाः कार्यस्थगितप्रतिषेधाः तीक्ष्णशासनैः निरुद्धव्याः इति केरलस्य मानवाधिकारपालाधिकारिणा उक्तम्। एतदधिकृत्य साध्याः क्रियाविधयः राज्यस्य मुख्यकार्यदर्शी, गृहकार्यदर्शी, आरक्षकनिदेशकः इत्येतैः सप्ताहत्रयाभ्यन्तरे विलिख्य समर्पणीयाः इति पालकाध्यक्षः पि मोहनदासः उक्तवान्।
गतदिने केरले प्रचालिते अप्रतीक्षिते हट्टताले सामान्यजनाः बहुक्लेशम् अनुभूतवन्तः। चिकित्सालयेषु प्रवेशिताः रोगिणः बान्धवाश्च भोजनमलभमानः पीडिताः। हट्टतालस्य नाम्नि जनविरुद्धाः पदक्षेपाः न भवितव्याः इति च तेनोक्तम्।Tuesday, August 1, 2017
जी एस् टी द्वारा आर्थिकावस्था परिवर्तिता - प्रधानमन्त्री।
नव दिल्ली > पण्यसेवनकरेण राष्ट्रस्य आर्थिक व्यवस्था आपाद चूडं परिष्कृता इति मन् की बात् कार्यक्रमे प्रधानमन्त्रिणा नरेन्दमोदिना उक्तम्। केवलं नियम परिष्करणमात्रं न। सत्यतापूर्ण-संस्कृतेः आर्थिक्यस्थितेः च निदर्शनात्मकं एव इति मन् की बात् नाम प्रति मासिक कार्यक्रमे मोदिमहोदयेन उक्तम्। पण्यकर-सेवनव्यवस्थां संस्थाप्य मासमेकम् अतीतम् । उत्पन्नानां मूल्यानि न्यूनमभवन्। भारवाहनानां अनुस्यूत-प्रवाहेन वस्तूनि यथा कालं लक्ष्यस्थानं प्राप्यन्ते। आर्थिकोन्नत्यै प्रयाणस्य शीघ्रता वर्धिता। दरिद्रस्योपरि भारः मास्तु इत्यस्य पण्यसेवनकर नियमे प्राधान्यं दत्तम् इत्यपि मोदिना उक्तम्।
पचनवायोः वित्तानुकूल्यं स्थगयति।
नवदिल्ली > भारते पचनवायुकोशानां कृते दीयमानं वित्तानुकूल्यं आगामि मार्च् मासादारभ्य पूर्णतया समापयितुं केन्द्रसर्वकारेण निर्णीतम्। एतदाधारीकृत्य प्रतिमासं चत्वारि रूप्यकाणि इति क्रमेण आनुकूल्यार्हाणाम् अनिलकोशानां संवर्धयितुं तैलसंस्थाः निर्दिष्टाः इति केन्द्र मृत्तैलविभागमन्त्री धर्मेन्द्रप्रधानः लोकसभां विज्ञापितवान्।आराष्ट्रं १८.११ कोटि उपभोक्तारः पचनवायुकोशानाम् आनुकूल्यं स्वीकुर्वन्तः सन्ति। दत्तानुकूल्यानां अनिलकोशानां प्रतिमासं रूप्यकद्वयमितिक्रमेण वर्धयितुं २०१६ जूलाई मासादारभ्य अनुमतिः दत्ता आसीत्।तदेव अधुना द्विगुणीकृतम्।
पचनवायोः वित्तानुकूल्यं स्थगयति।
नवदिल्ली > भारते पचनवायुकोशानां कृते दीयमानं वित्तानुकूल्यं आगामि मार्च् मासादारभ्य पूर्णतया समापयितुं केन्द्रसर्वकारेण निर्णीतम्। एतदाधारीकृत्य प्रतिमासं चत्वारि रूप्यकाणि इति क्रमेण आनुकूल्यार्हाणाम् अनिलकोशानां संवर्धयितुं तैलसंस्थाः निर्दिष्टाः इति केन्द्र मृत्तैलविभागमन्त्री धर्मेन्द्रप्रधानः लोकसभां विज्ञापितवान्।आराष्ट्रं १८.११ कोटि उपभोक्तारः पचनवायुकोशानाम् आनुकूल्यं स्वीकुर्वन्तः सन्ति। दत्तानुकूल्यानां अनिलकोशानां प्रतिमासं रूप्यकद्वयमितिक्रमेण वर्धयितुं २०१६ जूलाई मासादारभ्य अनुमतिः दत्ता आसीत्।तदेव अधुना द्विगुणीकृतम्।
पाकिस्ताने नूतनप्रधानमन्त्रिणः निर्वाचनमद्य
नव दिल्ली >पाकिस्तानस्य प्राक्तन् प्रधानमंत्रिणः नवाजशरीफस्य पदत्यागानन्तरं तत्रत्येन राष्ट्रपतिना नूतन प्रधानमंत्रिणः निर्वातनाय अद्य संसदः विशेषोपवेशनं समाहूतमस्ति | अत्रान्तरे पाकिस्तानाधिकृतस्य कश्मीरस्य प्रधानमंत्री फारूकहैदरखानः पाकिस्तानसैन्यबलं समारोपयन् प्रावोचत् यदसौ पाकिस्कानेन सह स्थास्यति न वा इति नैव निश्चितम् , तेन नवाज़शरीफस्य प्रधानमंत्रिपदात् त्यागपत्रम् उररीकृत्य वक्तव्यमिदं प्रदत्तम् ।
सिक्कीं राज्ये संघर्षे उत्तराखण्डे चीनस्य गोपनागमनम्।
नवदेहली> सिक्कीं सीमायां संघर्षः शक्तीकृते सति उत्तराखण्डे चीनस्य सेना अधिन्वेशिता इति संस्तुतिः। उत्तराखण्डराज्यस्य बरहोती क्षेत्रे चमोची जिल्लायां अस्मिन् मासे पञ्चविंशति दिनाङ्के पीप्पिल्स् लिबरेषन् आर्मी सेनायाः दश सैनिकाः एवम् आगताः इति सूचना। अत्र एककिलोमीट्टर अन्तर्भागं यावत् सेना आगता। भारतस्य देशीय सुरक्षा उपदेशकस्य तथा चीना राष्ट्रपतेः षी चान्पिङस्य च मेलनानन्तरमेव एवं आगमनम्। गतसंवत्सरे जूलाई मासे अपि पी एल् ए सेनायाः द्वौ भटौ एवं आगतवन्तौ। अत्र निश्चिता सीमारेखा नास्ति सीमासम्बन्धीः मतभेदाः वर्तन्ते इति तदान्तीन्तन प्रतिरोधमन्त्रिणा मनोहर परीक्करः उक्तवान्।Monday, July 31, 2017
आयकर समर्पणस्य अन्तिमतिथिः अद्य I
गतस्य आर्थिकवर्षस्य आयकर समर्पणाय अद्यापि सन्दर्भःअस्ति। तिथिः पुनः क्रमीकर्तुं समालोचना नास्तीति विभाधिकारिणः अवदन्l द्वि कोट्यधिकं जनैः इतःपर्यन्तं प्रत्यर्पणं पञचीकृतम्। http://incometaxindiaefiling.gov.in इति अन्तजालपुटे एव पञ्चीकरणं करणीयम्। एतदर्थं आधारपत्रस्य संख्या पान् पत्रण सह बन्धनीया I
पि यु चित्रा विश्वस्पर्धात: बहिष्कृता।
कोच्ची > विविश्वकुशलस्पर्धायां भागंकर्तुं चित्रायाः अभिलाषः विनष्टः। केरलस्य कायिकतारः भवति एषा। विश्वस्तरीय स्पर्धायां भागं स्वीकर्तुं चित्रायै अनुज्ञालब्ध्यर्थं भारत-कायिक क्रीडादलेन दत्तम् आवेदनं आन्ताराष्ट्र क्रीडासंधेन निरस्तम्। भुवनेश्वरे आयोजिते एष्यायाः कुशलस्पर्धायां सुवर्णपतकेन जिता आसीत् चित्रा। मण्डलस्थस्य विजयिभ्यः साक्षात् प्रवेशः इत्यासीत् मानदण्डः। किन्तु चित्रायाः प्रवेशविषये मानदण्डस्य पालनं नासीत् इति इदानीन्तनसमस्या। उच्चन्यायालयस्य आदेशः चित्रयै अनुकूलः आसीत्। किन्तु कालः अतीतः इत्यनेन स्पर्धायां प्रवेश: लब्धः।
राष्ट्राय अष्ट नूतना: जलमार्गाश्च।।
नवदिल्ली>नूतना: अष्ट देशीयजलमार्गाश्च प्रधानमन्त्रिणा राष्ट्राय समर्प्यन्ते। प्रख्यापितेषु षडुत्तरशतं जलमार्गेषु द्वात्रिंशत्संख्याका: शीघ्रमेव प्राबल्ये आगमिष्यन्ति। एतेषु सप्तानाम् अनुमति: प्राप्ता च। बारक्, मण्डोवि, सुवारि, कोसि, सुन्दरबन् जलाशया:, सुबनसिरि, महानदी, आलप्पुषा- चङ्ङनाश्शेरी कुल्या, कबनी, मापुसा, दाबोल् क्रीक्, सावित्री, मही, नर्मदा, तपी एतान् जलाशयान् अन्तर्भाव्य एव जलमार्गाणां उद्घोषणं प्रतीक्ष्यते।।
'आल्प्स्' गिरिनिकरे दृष्टानि शरीरावशिष्टानि अर्धशतकात् पूर्वं दुर्घटनाग्रस्तस्य 'एयरिड्या' विमानस्येति सन्देहः।
ग्रेनौबिल् (फ्रान्स्) > गतदिनेषु फ्रान्स् राष्ट्रस्य आल्प्स् पर्वतशिखरेषु अभिदृष्टानि शरीरावशिष्टानि पञ्चाशत् संवत्सरेभ्यः पूर्वं दुर्घटनाग्रस्तस्य एयर् इन्डिया विमानस्य यात्रिकेषु अन्यतमस्येति सन्देहः वर्तते। विमानदुर्घनाः अधिकृत्य पर्यवेषणं क्रियमाणः डानियल् रोष् नामकः एव गतदिने आल्प्स् पर्वतश्रेण्याः 'मो बेला' नामके गिरिशिखरे शरीरावशिष्टानि दृष्टवान्।Sunday, July 30, 2017
भारतीश्रीलङ्का क्रिक्कट् निकषस्पर्धा - भारतस्य उज्वलविजयः।
गोल् (श्रीलङ्का) > भारत--श्रीलङ्कयोः प्रथमायां क्रिक्कट् निकषस्पर्धायां आतिथेयराष्ट्रं श्रीलङ्कां विरुध्य भारतस्य अपूर्वोज्वलविजयः। ५५० धावनाङ्कानां विजयलक्ष्यं पुरस्कृत्य क्रीडाङ्कणं प्राप्तः आतिथेयदलः एकदिनस्य क्रीडायाम् अवशिष्टायां ३०४ धावनाङ्कानां पराजयं स्वीकृतवान्।धावनाङ्कान् आधारीकृत्य कस्मिंचित् विदेशे प्राप्यमानः भारतस्य महत्तरः विजयः भवत्येषः।
चैनासीमायां सप्तविंशति: मार्गा: निर्मिता:,षट्चत्वारिंशन्मार्गा: पञ्चवर्षाभ्यन्तरे; -केन्द्रम्।।
नवदिल्ली>भारत- चैना सीमायां त्रिसप्तति: मार्गाणां निर्माणाय अनुमति प्राप्ता, तेषु सप्तविंशतीनाम् मार्गाणाम् निर्माणानि पूर्तीकृतानि इति केन्द्रसर्वकार:। अवशिष्टानां षट्टत्वारिंशन्मार्गाणां निर्मिती: द्वाविंशत्युत्तरद्विसहस्रतमे डिसम्बर् मासाभ्यन्तरे पूर्तीकरिष्यति इति केन्द्रप्रतिरोधसहमन्त्री सुभाषब्रह्मा लोकसभां ज्ञापितवान्।वनम्, वन्यजीवि, परिस्थिति - विभागानाम् अनुमतिर्न लब्धेति कारणेन मार्गनिर्माणे विलम्ब: अभवदित्यपि स: व्यक्तीकृतवान्। तदपि न, शक्ता: शिला:, वातावरणव्यतियानानि,भूमिप्राप्त्यै विलम्ब:, प्रलयादिप्रकृतिदुरन्ता:, एतेपि मार्गनिर्माणे विघ्नभूतानि कारणानि। भारत-चैनासीमया निर्णायका: चत्वार: रेलमार्गा: अपि अनुमतिम् प्राप्ता: - मन्त्री लोकसभां ज्ञापितवान्। सीमां केन्द्रीकृत्य चैनया क्रियमाणेषु प्रवर्तनेषु भारतम् प्रबुद्धं वेति प्रश्ने कृते, सर्वकार: श्रद्धया एतत्सर्वं निरीक्षमाण: इति प्रतिवचनं दत्तवान् स:। भारतसुरक्षायै यावच्छक्यं क्रियमाणानि कार्याणि कुर्वन्त: सन्तीति केन्द्रमन्त्री असूचयत्। सिक्किम् मेखलायां दोकलायाम् एकमासात् परमपि भारत- चैनासेने मुखामुखे तिष्ठत:। दोकलायां चैनाया: मार्गनिर्माणम् भारतेन प्रतिरुद्धम्, यत् सङ्घर्षाणां कारणमभवत्। एतन्मध्ये एव सीमामार्गनिर्माणकार्याणि लोकसभायाम् मन्त्रिणा व्यक्तीकृतानि।
Saturday, July 29, 2017
नवास् षरीफः स्थानभ्रष्टः।
इस्लामबाद् > पाकिस्थानस्य प्रधानमन्त्री नवास षरीफः स्वस्थानं त्यक्तवान्। षरीफस्य निजीयार्थिकसम्पादनमधिकृत्य पानमा सङ्घस्य विज्ञापनमाधारीकृत्य पाकिस्थानीयसर्वोच्चन्यायालयेन सः अयोग्य उद्घोषितः इत्येव स्थानत्यागस्य निदानम्। १९९० आरब्धसंवत्सरेषु प्रधानमन्त्रिस्थाने उपविष्टे षरीफः स्वपरिवारश्च विदेशराष्ट्रेषु अनभिमतान् धनराशीन् सम्पादितवान्। तत्तु २०१३ तमे निर्वाचने नामनिर्देशपत्रिकया सह समर्पितायाम् अर्थिकविवरणपट्टिकायां न प्रकाशितम् इत्यासीत् आक्षेपः।
राममहोदयस्मारकसमित्या: पुरस्कार: अय्यम्पुषा हरिकुमाराय।
कोच्ची>सर्वश्रेष्ठसंस्कृताध्यापकाय दीयमान: चोट्टानिक्करा राममहोदयस्मारकपुरस्कार: संस्कृताध्यापकाय तथा सम्प्रतिवार्ता अन्तर्जालवार्तापत्रिकाया:, अन्तर्जालशृङ्खलायाश्च मुख्यसम्पादकाय श्रीमते अय्यम्पुषा हरिकुमाराय। तेवरा सेन्ट् मेरीस् विद्यालयस्य अध्यापकोयम् संस्कृतभाषाप्रचारणाय 'सम्प्रतिवार्ता' नाम संस्कृतभाषा अन्तर्जालपत्रिकाम् आरब्धवान्। तत: विद्यालयीयछात्रान् संयोज्य अन्तर्जालवार्तावतरणं च प्रारब्धम्। सप्तदशोत्तरद्विसहस्रे राज्यस्तरीयोत्तमप्रवर्तनरूपेण सर्वशिक्षाभियानेन देशीयसङ्गोष्ठीम् प्रति चित: संरम्भ: अयम्। लोके इदंप्रथमतया एव छात्रा: (लघुबाला:) अन्तर्जालद्वारा वार्तां वाचयन्ति। संस्कृतभाषां नवमाध्यमै: अवतार्य भाषाप्रचारणे नूतनमार्ग: निर्मित: अनेन। एतादृशप्रवर्तनै: संस्कृतप्रचारणरङ्गे श्रद्धेयव्यक्ति: इति रूपेण पुरस्काराय एनं चितवन्त:। जुलै एकत्रिंशत्तमे सोमवासरे सायं त्रिवादने चोट्टानिक्करा सर्वकारीयोच्चविद्यालये प्रचाल्यमाने कार्यक्रमे अयम् पुरस्कृत: भविष्यति।
Friday, July 28, 2017
नितीष्कुमार: मुख्यमन्त्रिस्थानं त्यक्तवान्l बीहारराज्यस्थं महासख्यमिति दलं नष्टम्।
पाटलीपुत्रम्-> अत्यन्तमुच्चैः घोषणेन रूपीकृतस्य महासख्यस्य नाशस्य पूर्णतां कृत्वा बीहारमुख्यमन्त्री नितीष्कुमारमहोदयः त्यागपत्रं समार्पयत् । सख्यदलस्य लालुप्रसादयादवस्य R J D दलेन सह अभिप्रायभिन्नतायाः रूक्षत्वे एव त्यागपत्रं समर्पितम्।राजभवनमागत्य राज्यपालं केसरिनाथ्त्रिपाठिमहोदयं दृष्ट्वा नितीष्कुमारमहोदयः अप्रतीक्षमाणं त्यागपत्रं समर्पयति स्म। राजभवनप्रस्थानात्पूर्वम् J D U दलीयै: सह नितीष्महोदयः मिलितवानासीत्l देशीयराष्ट्रिये महच्चलनं कुर्वाणं भवति त्यागपत्रम् । मोदितरंगे अतिशक्तेपि तमतिक्रम्य एव रूपीकृतस्यास्य महासख्यस्य अधिकारः वर्षद्वयमपि सम्पूर्णतया न नीत: I रूक्षे अभिप्रायभिन्नत्वे सति' तत्परिहाराय महासख्यांगभूता कोण्ग्रस् दलाध्यक्षा सोणियागान्धी इत्यादयः प्रयत्नं कृतवन्तः । किन्तु सर्वः प्रयत्नः व्यर्थं गत: इति अनेन त्यागपत्रेण ज्ञायते।
दोक्ला - डोवलः चीनस्य प्रतिनिधिना सह भाषणमकरोत्।
बैजिङ् > ब्रिक्स् मेलनाय बैजिङ्देशं आगतं चीनस्य स्टेट् कौण्सिलर् याङ् जियेषिना सह भारतस्य राष्ट्रिय उपदेष्टा अजित् डोवलः मिलितवान्। उभययोः राष्ट्रयोः प्रधानसमस्याः अधिकृत्य चर्चां कृतवन्तौ इति चीनस्य विदेशकार्य मन्त्रालयेन विज्ञापितम्l मासान्तरेण सम्भूतान् सिक्किमस्य सीमायाम् जायमानान् संघर्षान् अनुवर्तमानायाम् अवस्थायाम् एतयोः मेलनं प्राधान्यमर्हतिI ब्रिक्स् राष्ट्राणां उन्नतसुरक्षा उद्योगस्थैः सह डोवलः चीनस्य राष्ट्रपतिं चिङ् पिन् महोदयं मिलिष्यति। मेलनं शुक्रवासरे भविष्यति। ब्रिक्स् राष्ट्रदलस्य अध्यक्षः चीनः एव।दोक्लतः भारत सैनिकानां निवर्तनं विना कापि चर्चा न भविष्यति इति चीनेन उक्तम् आसीत् तथापि नयतन्त्रतले चर्चां कर्तुं सन्दर्भः अस्ति।
Subscribe to:
Comments (Atom)
