द्वादशवादनं नादयित्वा "बिग् बेन्" मैनव्रतमारब्धा।
लण्डन् > सोमवासरे मध्याह्ने द्वादशवादने "" बिग् बेन्"" अन्तिमं घण्टानादम् अकरोत्। इत: परम् एतस्या: महाघण्टाया: नाद: श्रोतव्यश्चेत् चत्वारि वर्षाणि यावत् प्रतीक्षणीयानि। तन्मध्ये यदा कदापि घण्टा नादनीया चेत् जनकीयसभाया: दयया स्यात्। लण्डनजनताया: जीवनभाग: इयं घण्टा सार्धशतकबृहत् चरित्रे इदंप्रथमतया एव एतावत् दीर्घकालम् मौनं भजते। सप्तपञ्चाशदुत्तरशतवर्षाणाम् प्राचीनत्वमस्ति घण्टाया: तथा तस्या: आश्रयस्थानस्य एलिसबत् गोपुरस्य च। द्वयो: नवीकरणप्रवर्तनेभ्य: घण्टाम् मौनमकरोत्।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, August 23, 2017
लडाक्के स्कौट्स् सेनाम् आद्रितुम् राष्ट्रपति: ले - स्थानकम् प्राप्तवान्।
जम्मु> लडाक्कस्य स्कौट्स् सेनायै तथा तदधीनेभ्य: पञ्च सेनाविभागेभ्य: च राष्ट्रपते: कलेर्स् ( वर्ण ) बहुमतिदानाय रामनाथकोविन्द: ले - स्थानकम् प्राप्तवान्। राष्ट्रपतिस्थानप्राप्तेरनन्तरं कोविन्देन देहल्या: बहि: कृता प्रथमा यात्रेयम्। सैन्यस्य परमोन्नतमेधावी च भवति राष्ट्रपति:।भारतसेनाया: परम्परागतरीतिमनुसृत्य सेनादलविन्यासप्रकटनमेव ले- मध्ये सज्जीकृतम्। भूसेनाया: उन्नतमेधावी बिपिनरावत्त: सैन्यस्य इतरोन्नताधिकारिण: कश्मीरस्य राज्यपति: एन् एन् वोर: मुख्यमन्त्रिणी मेहबूबा मुफ्ती एते प्रमुखा: कार्यक्रमे भागमवहन्। लडाक्कस्कौट्सैनिकानाम् धीरतां श्लाघयन् राष्ट्रपति: राष्ट्रसुरक्षायै लडाक्के विशिष्य सियाच्चिने प्रथमहिमशैलेषु सैनिकानां सेवनानि उदाहरत्।Tuesday, August 22, 2017
लण्डन् नगरे महामनीषी बालः एकः, सोऽपि भारतीयः।
लण्डन्> मनीषायां अनितरसाधारणाः कुशलाः अनेके समर्पिताः लोकाय भारताम्बया। तस्मिन् बुद्धिमतां गणे राहुलनामकः द्वादशवर्षीयः बालोऽपि अधुना योजितः वर्तते। "चतुर्थी सरणिः" ( चानल् ४) नाम ब्रिटीष् शृङ्खलया चाल्यमाने "चल्डि जीनियस्" नामकस्य वस्तुनिष्ठप्रदर्शनस्य प्रथमचक्रे भारतवंशज: राहुल: उज्वलविजयम् प्राप्तवान्। पृष्टानां चतुर्दशप्रश्नानां यथायोग्यम् प्रत्युत्तरं दत्वा राहुल: द्विषष्ट्युत्तरशतम् इति ऐ क्यू परिधिम् प्राप्तवान्। एषा परिधि: तु आल्बर्ट् ऐन्स्टीनस्य, स्टीफन् होकिङ्ङस्य च परिधेरपेक्षया उन्नता एवेति गण्यते।।
विशाल् सिक्का इन्फोसिस् सी ई ओ स्थानं त्यक्तवान्।।
नवदिल्ली> प्रमुखाया: ऐ टी संस्थाया: इन्फोसिस् संस्थाया: सी ई ओ तथा प्रबन्धकप्रमुख: च विशाल् सिक्क: स्थानं त्यक्तवान्। तत्स्थाने प्रवीण रावु किञ्चित्कालं य़ावत् पदव्यां नियुक्त:। विशाल् सिक्कस्य त्यागपत्रं संस्थया स्वीकृतमिति संस्थाया: कार्यदर्शी ए जी एस् मणिकन्द: व्यक्तीकृतवान्। विशाल् सिक्क: इत: परं संस्थाया: कार्यनिर्वहणविभागस्य उपाध्यक्षपदम् अलङ्करिष्यति इत्यपि मणिकन्द: उक्तवान्।
राष्ट्रे २६% यावत् वृष्टेः न्यूनता।
नवदिल्ली > कालवर्षे अर्धांशे अतीते भारतस्य पादांशप्रदेशेषु वृष्टिः बहुन्यूना एव। ओगस्ट् १९ दिनाङ्कपर्यन्तं लब्धाः सूचनाः अनुसृत्य राष्ट्रस्य भूरिषु राज्येषु २६% यावत् साधारणताम् अपेक्ष्य वृष्टिः न्यूना अभवत्। राष्ट्रे आहत्य प्रतिशतं पञ्च परिमितस्य न्यूनता जाता। मध्यप्रदेशः, केरलं, महाराष्ट्रा, कर्णाटकं, उत्तरप्रदेशस्य पश्चिम भागः इत्येतेषु प्रदेशेषु वृष्टिः न्यूनातिन्यूना आसीत्। बीहार् असम् गुजरात् राज्येषु अतिवृष्ट्या जलोपप्लवः दुरन्ताश्च अनुवर्तन्ते।
त्रिपरंपराणाम् आकाशकुटुंबं शतकं यावदुड्डीतवत् ।
अतिशुभ्रवर्णयुक्तः गणवेषः,अभिमान: यावत् औन्नत्येन तिष्ठत् शिरस्त्राणं , स्कन्धे चिह्नितौ लोलकौ, नेत्रयो:मनसि च विमानयात्राया: आनंद: उत्साह: च। आकाशयात्रायां भासिन्कुटुंबम् एकं शताब्दं यापितवत्। आकाशयात्राया: षट्सप्ततिसहस्रोत्तराष्टलक्षघंटा:। सीमारहितानाम् आकाशयात्राणाम् स्वप्नम् दृष्ट्वा जीवितत्वेन परिगणय्य सहकृतवत् भवति भारतीयं भासिन्कुटुंबं,पितामहेन क्याप्टन्जयदेव भासिन् महोदयेन आरब्धं वैमानिकजीवितम् इदानीं परम्पराद्वयम् अतीत्य पौत्रेषु प्राप्तम्।Monday, August 21, 2017
किङ्ङ् ऑफ् ग्लोरी - भीत्यां चैनदेशः , क्रीडारताः सैनिकाः कथं युद्धं करिष्यन्ति।
बैजिङ् > विश्वस्य वरिष्ठ शक्तिः इति स्वयं आहूतः चीनस्य सेना इदानीं प्रतिसन्धौ पतितम्। भारतं विरुद्ध्य शीतयुद्धं प्रख्यापितम्। किन्तु युयुत्सवः सैनिकाः इदानीं समर्थकरदूरवाण्यां क्रीडोत्सुकाः भूत्वा तिष्ठन्तः सन्ति। इदानीं चीनस्य शत्रू करदूरवाणीक्रीडा एवI सैनिकाः वस्तुतया किङ्ङ् ऑफ् ग्लोरी नाम प्रसिद्धा करदूरवाणिक्रीडा सैनिकानां मनसि आलस्यमुद्पाद्य तान् भृत्यवत् कुर्वन्तिIराष्ट्रसुरक्षायै भीषा उद्पाद्यमानां क्रीडां नियन्त्रणविधेयां कर्तुं सैनिकाधिकारिणः प्रयतन्ते| विरामकालेषु क्रीडार्थं अनुज्ञा अस्ति। किन्तु सैनिकाः शिबिरे उषित्वा अनुस्यूतं क्रीडन्तीति चीनस्य एका दिनिकी पत्रिकया आक्षेपम् आरोपितम् I ४० घण्डा पर्यन्तम् अनुस्यूतक्रीडारताः अपि सैन्येषु सन्तीति पत्रिकया व्यक्तीक्रियते।
विमान-समानो अतिलघु वस्तु देहली विमान निलयः स्थम्भितः I
नव दिल्ली > इन्दिरागान्धी अन्ताराष्ट्र-विमान-निलयस्य समीपे अतिलघु विमानरुपं अपशयत् इति आवेदितःI अनेन कारणेन पिधानं कृतस्य विमाननिलयस्य धावनमार्गः उद्घाटितःI स्तगितः विमानगतागतः पुनः आरम्भः कृतः। सायंकाले एव ड्रोणस्य समानं वस्तु दृष्टम् इति एयर् एष्यायाः वैमानिकेन आवेदितम्। सायं सप्तवादने एव घटना। विमानावतारणसमये तृतीये प्रवेशद्वारे एव तद्वस्तु दृष्टिपदमागतम् इत्यासीत् वैमानिकस्य आवेदनम्। घटनायाः अनन्तरं विमानानां पन्थानः व्यत्ययं कारितम्। तदनन्तरं कर्कश-निरीक्षणानन्तरं अष्टवादने गतागतं पुनरारम्भं कृतम्। घटनानुबन्धतया एयर् इन्ट्याया द्वौ विमानौ लख्नौ तथा अहम्मदाबादं प्रति मार्गव्यत्ययं कृतौ।प्रतिदिनं द्विशताधिक एकसहस्रं विमान सेवाः सन्ति अस्मिन् निलये। प्रतिघण्डां ७० विमानानि डयन्ते अत्र। त्रीणी धावनपन्थानः च अत्र सन्ति ।
Sunday, August 20, 2017
डोक्लाम्; भारताय जापानस्य साहाय्यहस्त:।
टोक्यो>चैनया सह विवादे वर्तमाने डोक्लामे भारतस्य निर्णयाय आलम्बनत्वेन जपान् देशस्य हस्ताश्रयः। वर्तमानस्थितौ किमपि राज्यम् बलप्रयोगेन सैन्यं अपसारयितुं नार्हतीति जपान् उदघोषयत्। सिकिमस्य सीमासमीपे भूटानप्रदेशे वीथीनिर्माणाय कृतस्य चीनादेशस्य प्रयत्नम् उपरुद्ध्य स्वीकृतस्य भारतस्य उपरोधम् आनुकूल्य एव जपानस्य इदं प्रतिकरणम्। जापानस्य नयतन्त्रज्ञ: केन्जी हिरामाट्सु: एव विषये तेषां निर्णयं न्यवेदयत्। भूटानस्य चैनाया: मध्ये तर्ककेन्द्रितप्रदेश: डोक्लाम्। अत्र भारतम् सन्धिनियमान् अनुसृत्य प्रवर्तते इति स्वकीयज्ञानमपि अस्तीति केन्जी हिरामाट्सु: अवदत्।Saturday, August 19, 2017
क्रीडायै स्थानं नास्ति; प्रधानमन्त्रिणे पत्रमलिखत् द्वितीयकक्ष्याच्छात्रा।
नवदिल्ली> सम्मर्दपूर्णनगरे देहल्यां नव्या सिंह: नामिका बालिका शैशवात् प्रभृति इष्यमाणं स्थानकम् भवति क्रीडाङ्कणम्, यत्र सा बहुधा क्रीडति स्म। किन्तु एकदिनाभ्यन्तरे स्थानमेतत् नष्टम् भवति इति विचार: प्रधानमन्त्रिणे पत्रम् प्रेषयितुम् एतस्या: द्वितीयकक्ष्याच्छात्राया: प्रेरणादायक: अभवत्। देहल्यां रोहिणीमेखलायां नव्या वसति। नव्यामिव प्रदेशवासिनां तथा बालानां च आश्वासदायक: आसीत् हरिताभकेन्द्रं तत् क्रीडाङ्कणम्। किन्तु अकस्मात् एकस्मिन् दिने निरावृतं व्यायामकेन्द्रमिति क्रीडाङ्कणस्य कश्चन भाग: उपयुक्त:।बालानां क्रीडाङ्कणम्, विश्रमस्थानं च व्यायामकेन्द्रेण अपहृतम्। परन्तु सभ्यस्थानस्य (ओडिट्टोरियम्) निर्माणाय क्रीडाङ्कणस्य विशालभागश्च देहली विकसनसमित्या अधीनमकरोत्। तत्पश्चादेव प्रधानमन्त्रिणे पत्रं लेखितुं नव्यया निर्णीतम्। क्रीडाङ्कणे निर्माणप्रवर्तनेषु आरब्धेषु समीपवासिन: प्रतिषेधै: रङ्गप्रवेशं कृतवन्त: चेदपि नगरसभया तत् अवगणितम्। तदेव न, समीपवासिनां शिशूनां च क्रीडाङ्कणम् प्रति प्रवेशोपि निषिद्ध:।।Friday, August 18, 2017
स्थलसेनाध्यक्षः बिपिन् रावतः लडाक् सम्दृश्यते।
नवदिल्ली> दो क्लों घटनायां भारत-चीनयोः मध्ये तर्कः रूक्षः इत्यस्मिन् पृष्टभूमौ स्थलसेनाध्यक्षःबिपिन् रावत्तः लडाक् देशं संद्रष्टुं सज्जः भवति। सीमा याः इदानीन्तन गति-विगतयः अधिकृत्य सुज्ञानाय भवति ၊ त्रिदिक्सस्य सन्दर्शानाय भवति गमनम्। ज्येष्ठ सैनिकैः सह मिथभाषणं च करिष्यति स: । गतदिने पान् गोग् सीमायाम् अतिक्राम्य प्रविष्टुं चीनेन कृतश्रमः भारतसैनिकैः विफलः कृतः। तदनन्तरं प्रवृत्तः पाषाणविक्षेपः रावतस्य सन्दर्शनस्य कारणं अभवत्। Thursday, August 17, 2017
राष्ट्रिय गीतम् इतः परं अष्टवादने भविष्यति। नगरमिदं निश्चलं स्थास्यति।
हैदराबादः> प्रतिदिनं प्रातः अष्टवादने राष्ट्रियगीतश्रवणे आबालवृद्धं जनाः सादरं उत्तिष्ठन्ति। ख्यातिरियं स्ववशं कारयितुं प्रयत्नं करोति तेलड्काना राज्यस्य करींनगर जनपदे जम्मीकुण्डेति लघुनगरम्। गतस्वतन्त्रतादिनादारभ्य प्रतिदिनं प्रातः अष्टवादने राष्ट्रिय गीतं श्रुत्वा नगरवासिनः सर्वे सादरं उत्थास्यन्ति इत्याशयः अत्र कार्यान्वितः। जम्मिकुण्डा आरक्षक-वृत्ताधिकारी पी प्रशान्त रेट्टी अस्ति पद्धत्याः अस्याः बुद्धिकेन्द्रम्। प्रतिदिनं प्रातः अष्टवादने राष्ट्रियगीतं भविष्यति। तदानीं सर्वे सादरं उत्थास्यन्ति। इच्छा चेत् सार्धं आलपिष्यन्ति । एषा भवति पद्धतिः। वाहनयात्रिकाः वाहनं निश्चलं कारयन्ति। विद्यार्थिनः तत्रैव निश्चलं स्थास्यन्ति। अन्ये कर्मकाराः कर्मसु द्विपञ्चाशत् क्षणस्य विरामं दत्वा राष्ट्रियगीतं आदरं करिष्यन्ति।
लडाक् प्रदेशे चीनस्य अधिनिवेशः - अज्ञात्वा चीनस्य विदेशकार्य-मन्त्रालयः।
सिक्किं> लडाक् प्रदेशस्थे पान् गोङ् सरोवरस्य समीपे चीनस्य सैन्यस्य अधिनिवेशमधिकृत्य किमपि न ज्ञायते इति चीनराष्ट्रस्य विदेश-कार्य-मन्त्रलयस्य वक्त्रा हु चुनैङ्ङेन उक्तम्। भारत चीनयो: सीमायां शान्तिः भवतु इति भवति चीनस्य अभिलाषः इत्यपि तेन उक्तम्। भारतस्य स्वतन्त्रतादिने प्रातः षट्वादन-नववादनयोः मध्ये द्विवारम् अतिक्रम्य अन्तःप्रवेष्टुं प्रयतितवन्तः। लिबरेषन् आर्मि सैनिकाः एव एवं उद्यताः फिंगर् चत्वारि फिंगर् पञ्च नाम प्रदेशेयोः आसीत् आक्रमःI अनन्तरं भारतसैनिकाः मनुष्यभित्तिं निर्मीय प्रतिरोधः कृताः । तदनन्तरं मिथः सञ्जाते पाषाण प्रहारे उभयोः पक्षयोः सैनिकाः व्रणिताः च। इदानीं सिक्किं देक्ला संघर्षाः आरभ्य मासद्वयम् अतीतम्।
धनपत्रनिरोधनं जि. एस्. टि. इत्येतच्च प्रशंसयन् राष्ट्रपतिः।
नवदेहली>राष्ट्रपतित्वेन स्वस्य प्रथमस्वातन्त्र्यदिनप्रभाषणे रामनाथकोविन्द: धनपत्रनिरोधनं जि. एस् . टि इत्येतच्च प्रशंसितवान् । सप्ततितमे स्वतन्त्रतादिने सः राष्ट्रम् अभिसंबोध्य स्वच्छभारतपद्धतिं च श्लाघित्वा अभाषत। असहिष्णुताम् आक्रमणं च विरुद्ध्य गतवर्षे स्वतन्त्रतादिने भूतपूर्वराष्ट्रपतेः प्रणब् मुखर्जिमहाशयस्य भाषणं वार्तैवासीत् ।
भ्रष्टाचारम् अविहितधनं च विरुद्ध्य समरे सर्वेषां सहकार: अनिवार्यः एव। सत्ययुक्तस्य एकस्य समाजस्य सृजनस्य यत्नान् प्रबलीकर्तुम् धनपत्रनिरोध: उपकारकः अभवत्၊ अद्य भारतस्य लोकाङ्गीकारे धनपत्रनिरोधः एकं कारणमेव၊ सर्वकारपद्धतिगुणफलानि समाजे सर्वैः प्राप्तानीति निश्चेतुं सर्वे वयम् उत्तरदायिनः एवI २०२० तमे भविष्यमाणे टोक्यो ओलिंपिक्स् मध्ये लोकानां पुरतः अस्माकं शक्ति प्रकटनाय अन्यः अवसरः भवति। नूतनभारतस्य निर्माणम् अस्माकं सर्वेर्षां लक्ष्यमेव၊ तत्र दारिद्रयमिति एका अवस्था न स्यादित्यपि सः स्वभाषणे बोधयामास၊
सूप्पर् बैक् याने अमितवेग: - युवकस्य मृत्यु:
देहली> मान्डि हौस् मेन्ट्रो निस्थानस्य समीपे अमितवेगेन गम्यमाने सन्दर्भे नियन्त्रणाधीनो भूत्वा द्विचक्रिकायानम् मार्गभित्त्यां घट्टितम्। चालक: युवक: तस्मिन् क्षणे एव मृत:। चतुर्विंशति वर्षदेशीय: हिमन् षू बन्साल: एव मृत:। विवेक् विहार् स्वदेशीय: अयं सुहृद्भि: साकं मेलनं कृत्वा प्रत्यागमनवेलायाम् आसीत् अपघात:। सूपर् बैक् याने पुरत: गम्यमानं यानं पारंगमनसमये पथिकस्योपरि प्रथमं घट्टितम्। एतस्य आघातेन उद्पतित्वा एव मृति:। पञ्चलक्षरुप्यकमितं इदं यानस्य वेगपरिधि: द्विशतं किलोमीट्टर् भवति इति आरक्षकै: उक्तम्।Wednesday, August 16, 2017
धनपत्रनिरोधनं जि. एस्. टि. इत्येतच्च प्रशंसयन् राष्ट्रपतिः।
नवदेहली > राष्ट्रपतित्वेन स्वस्य प्रथमस्वातन्त्र्यदिनप्रभाषणे रामनाथकोविन्द: धनपत्रनिरोधनं जि. एस् . टि इत्येतच्च प्रशंसितवान् । सप्ततितमे स्वतन्त्रतादिने सः राष्ट्रम् अभिसंबोध्य स्वच्छभारतपद्धतिं च श्लाघित्वा अभाषत। असहिष्णुताम् आक्रमणं च विरुद्ध्य गतवर्षे स्वतन्त्रतादिने भूतपूर्वराष्ट्रपतेः प्रणब् मुखर्जिमहाशयस्य भाषणं वार्तैवासीत् ।सप्ततितमस्वतन्त्रतादिनाच रणवेलायां राष्ट्रस्य दरिद्राणां ग्रामाणां च विकासः इति लक्ष्यमेव स्वतन्त्रभारतम् इत्याशयप्रेरकम् अभवत्I राष्ट्रस्वतन्त्रतायै स्वजीवदातृ़न् प्रति वयं सदा ऋणीभूता: स्म:I सर्वकारेण स्वच्छभारतम् इति पद्धतिराविष्कृतापि परिसरशुचीकरणम् अस्माकं प्रत्येकं जनानामुत्तरदायित्वमेव၊ सर्वकार: केवलं नियमनिर्माणं प्रबलीकरणं चैव साधयति। तन्नियमपालनं प्रत्येकं पौरस्यैव। सङ्कीर्णकरसंविधानपरिष्करणेनैव सर्वकार: जि. एस्. टि. इति प्रायोगीकृतवान्၊ जि. एस्. टि. अस्माकं दैनन्दिनजीवनस्य अंशीकरणं सर्वेषामस्माकम् उत्तरदायित्वमेव၊ नियतरूपेण करनिक्षेपेण राष्ट्रनिर्माणे भागभाक्वं सर्वैः साध्यते၊
भ्रष्टाचारम् अविहितधनं च विरुद्ध्य समरे सर्वेषां सहकार: अनिवार्यः एव। सत्ययुक्तस्य एकस्य समाजस्य सृजनस्य यत्नान् प्रबलीकर्तुम् धनपत्रनिरोध: उपकारकः अभवत्၊ अद्य भारतस्य लोकाङ्गीकारे धनपत्रनिरोधः एकं कारणमेव၊ सर्वकारपद्धतिगुणफलानि समाजे सर्वैः प्राप्तानीति निश्चेतुं सर्वे वयम् उत्तरदायिनः एवI २०२० तमे भविष्यमाणे टोक्यो ओलिंपिक्स् मध्ये लोकानां पुरतः अस्माकं शक्ति प्रकटनाय अन्यः अवसरः भवति। नूतनभारतस्य निर्माणम् अस्माकं सर्वेर्षां लक्ष्यमेव၊ तत्र दारिद्रयमिति एका अवस्था न स्यादित्यपि सः स्वभाषणे बोधयामास၊
बीहार राज्ये प्रलयबाधिताः सप्तति लक्षजनाः। षट्पञ्चाशत् मृतवन्तः।
पाट्ना> बीहारराज्ये दुरिते निमग्ने प्रलये मृतानां संख्या षट्पञ्चाशत् जाता। त्रयोदश जनपदेषु ६९.८१ जनाः दुरितं अनुभूयन्ते। नेप्पाले तथा बीहारराज्यस्य उत्तरजनपदेषु जातया अतिवृष्ट्या प्रलयः जातः। बीहारराज्यस्य प्रमुखाः नद्यः कूलङ्कषा: प्रवहन्ति।
प्रलयबाधितक्षेत्राणां तत्स्थितिं अवगन्तुम् मुख्यमन्त्रिणा नितीष् कुमारेण ह्यः द्विवारं व्योमनिरीक्षणं कृतम्। १.६२ लक्षं जनान् सुरक्षितेषु स्थानेषु अनयदिति राज्य दुरन्तनिवारण विभाग विशिष्टाधिकारिणा अनिरुद्धकुमारेण उक्तम्।
पाट्ना> बीहारराज्ये दुरिते निमग्ने प्रलये मृतानां संख्या षट्पञ्चाशत् जाता। त्रयोदश जनपदेषु ६९.८१ जनाः दुरितं अनुभूयन्ते। नेप्पाले तथा बीहारराज्यस्य उत्तरजनपदेषु जातया अतिवृष्ट्या प्रलयः जातः। बीहारराज्यस्य प्रमुखाः नद्यः कूलङ्कषा: प्रवहन्ति।
प्रलयबाधितक्षेत्राणां तत्स्थितिं अवगन्तुम् मुख्यमन्त्रिणा नितीष् कुमारेण ह्यः द्विवारं व्योमनिरीक्षणं कृतम्। १.६२ लक्षं जनान् सुरक्षितेषु स्थानेषु अनयदिति राज्य दुरन्तनिवारण विभाग विशिष्टाधिकारिणा अनिरुद्धकुमारेण उक्तम्।
Tuesday, August 15, 2017
भारतेन एकसप्ततितमम् स्वतन्त्रतादिनम् अद्य आघुष्यते।
राष्ट्रान्तरेषु अपि भारतीयैः सामोदं स्वतन्त्रतादिनं आघुष्यते। मधुरभक्ष्यानि वितीर्य आसीत् आघोषः। स्वतन्त्रतादिनस्य सन्देशः भारतस्य राष्ट्रपतिना रामनाथ कोविन्देन राष्ट्राय समर्पितः। विद्यालयेषु विविधाः स्पर्धाः आयोजिताः च। विविधेषु मण्डलेषु विद्यमानाः जनाः यावच्छक्यं तावत् भागभाजः अभवन्।
वीरतापुरस्काराणां घोषणा
नवदिल्ली >आतंक्याक्रमणेषु निजदेहस्य चिन्ता विहाय देशरक्षायै पञ्चसैन्यकर्मिणः कीर्ति-चक्रेण सम्मानिताः। एतेषु सीआरपीएफ इति केन्द्रीयरक्षितारक्षिबलस्य अधिकारी चेतनकुमारचीता अपि सम्मिलितो वर्तते । भटत्रयेभ्यः कीर्तिचक्रम् वीरतानन्तरं प्रदीयते ।राष्ट्रपतिना रामनाथकोविंदेन स्वतंत्रतादिवसस्य पूर्वसंध्यायां द्वादशोत्तरैकशतं वीरता पुरस्काराणां घोषणा कृता। गोरखाराइफ़िल् इत्यस्य हवलदार् गिरीशगौरांगः नागारेजीमेंट इत्यस्य मेजर डेविडमेन्लमः अपि च सीआर् पी एफ़् इत्यस्य कमांडेंट् प्रमोदकुमारः वीरतानन्तरं पुरस्कारम् अधिगतवन्तः । गढ़वालराइफल इत्यस्य मेजर प्रीतमसिंहः सी आर पीएफ इत्यस्य कमांडेंट् चेतनकुमारचीता च अद्भुतरणकौशलाय सम्मानिताः ।
राष्ट्रपतिना पञ्च कीर्तिचक्राणि सप्तदश शौर्यचक्राणि पञ्चाशीति सैन्यपदकानि (वीरतायै ), त्रिणि नौसैन्यपदकानि द्वौ वायुसैन्यपदकनि समुद्घोषितानि । सममेव राष्ट्रपतितटरक्षकपदकमपि समुद्घोषितम् ।
Monday, August 14, 2017
पाकिस्थाने बोम्बस्फोटनम्; सैनिकै: सह आहत्य पञ्चदश मरणम्।।
कराची>पाकिस्थाने बलूचिस्थानप्रविश्याया:राजधान्याम् क्वट्टायां सम्मर्द्दपूर्णाया:विपण्या: समीपे शनिवारे सञ्जाते अतिशक्ते बोम्बस्फोटने सैनिकैस्सह पञ्चदशजना: मृतवन्त:। चत्वारिंशत् जना: व्रणिता:। एतेषु दश जना: सैनिका: एव। व्रणितेषु सप्त जनानां अवस्था गुरुतरा। मार्गेण गम्यमानं सैनिकट्रक् यानम् पूर्णतया भग्नं जातम्। महता सुरक्षावलयेन आवृत: क्वट्टा। अत्र निरीक्षणं कुर्वत् ट्रक् यानमेव भग्नमभवत्। स्फोटनस्य उत्तरदायित्वम् एतावता केनापि न स्वीकृतम्। श्व: प्रचाल्यमानान् स्वतन्त्रतादिनाघोषान् भञ्जयितुम् भीरुभि: कृत: श्रमोयमिति पाक् सेनामेधावीनायक: जनरल् खमर जावेद: बजवा अवदत्। तीव्रवादविरुद्धप्रचारणे मग्ना: सैनिका: एतेन आक्रमणेन प्रतिगमयितुं न शक्यन्ते इत्यपि जनरल् अवदत्।Sunday, August 13, 2017
ब्लू वेयिल् नाम चलदूरवाणि क्रीडा - केरलस्य मुख्यमन्त्री प्रधानमन्त्रिणे पत्रं प्रेषितवान्।
अनन्तपुरी > ब्लू वेयिल् नाम चलदूरवाणि क्रीडायाः प्रचारः प्रतिरोद्धुं अवश्यं कर्माणि स्वीकरणीयानि इति केरल राज्यस्य मुखमन्त्री श्रीमान् पिणरायि विजयः प्रधानमन्त्रिणे मोदिमहोदयाय पत्रं प्रेषितवान्। बालकान् लक्ष्यीकृत्य विनोदार्थं निर्मिता इयं क्रीडा बुद्धिभ्रमं उत्पाद्य सङ्ख्याधिकानां बालकानां जीवाः अपहृताः। क्रीडेयं निरुद्ध्य अन्तर्जाले अनुपलब्धिं कृत्वा विविध सर्वकारीयविभागाः क्रियाविधयः स्वीकरणीयाः इति च मुख्यमन्त्रिणा अभ्यर्थितः।
अध्यापकाः मार्गदर्शिनः भवन्तु - प्रोफ. शान्तकुमारी
गुरुवायूपुरम्> इदानीन्तनलोके अध्यापकाः छात्राणां मार्गदर्शिनः भवन्तु। एतदर्थं संस्कृताध्यापकानाम् उत्तरदायित्वम् अधिकतया अस्ति इति प्रोफ. शान्त कुमारी महाभागा अवदत्। संस्कृत-अध्यापक फेडरेषनस्य प्रप्रथमस्य राज्यस्तरीय वनितासङ्गमस्य उद्घाटन सन्दर्भे अध्यक्षभाषणं कुर्वन्ती आसीत् सा। उत्तम छात्राणां सृष्टिः अध्यापकाश्रितः भवति इत्यपि अनया महाभागया उक्तम्। त्रिश्शिवपेरूर् जिलापञ्चायत्त् अध्यक्षा श्रीमती षीला विजयकुमारमहाभागा सम्मेलनस्य उद्घाटनं कृतवती। डी के सन्तोष् कुमारः, श्रीमती निर्मला केरलन्, श्रीमती षैलजा देवन् , शोभा हरिनारायणन्, डॉ विश्वजा एस् नायर्। श्रीमती लतिका श्रीमती रती प्रमृतयः वनिता प्रमुखाः भागं स्वीकृतवन्तः। माध्यम मण्डलेषु संस्कृतभाषायाः स्वाधीनता इति विषयमधिकृत्य वार्तावतारिका अश्वतीविजयमहाभागा सङ्गोष्ठीं चालितवती। अध्यापकानां सेवाकार्य सम्बन्ध विषयेषु संशयनिवृतिः च श्रीमता नारायणमहोदयेन कृतम् ।
ईजिप्ते रेल्यानानि सङ्घट्य पञ्चविंशति: जना: मृतवन्त:, अनेके व्रणिताश्च।।
केय्रो>ईजिप्तस्य तीरदेशनगरस्य अलक्सान्ड्रियाया: समीपे रेल्यानद्वयम् सङ्घट्य पञ्चविंशति: जना: मृतवन्त:, उपपञ्चषष्टि: जना: व्रणिताश्च। केय्रोत: प्रस्थितं रेल्यानम् पोर्ट् सेय्दिलत: प्रस्थितेन रेल्यानेन सह साक्षात् घट्टित्वा एव अपघात:। मरणसङ्ख्या वर्धेत् इति सूचना। अपघातकारणम् अव्यक्तमेव। रक्षाप्रवर्तनाय विदग्धसङ्घ: अपघातस्थानम् प्राप्त:। खोर्षिद्रेल्स्थानकस्य प्रान्तप्रदेशे एव रेल्याने परस्परं घट्टिते इति माध्यमा: न्यवेदयन्।
Subscribe to:
Comments (Atom)
