अन्टार्टिक्कायां हिमपटलेषु बृहत् वाणिज्यविमानं भूस्पर्शमकरोत्।
OUR YouTube Channel 1. SampratiVartah |
marquee
Friday, November 26, 2021
Thursday, November 25, 2021
भारते कोविडस्य तृतीयतरङ्गः कठिनतरं न भविष्यतीति स्वास्थ्यविचक्षणाः।
नवदिल्ली> वाक्सिनीकरणेन विषाणुबाधया च भूरिशः जनाः प्रतिरोधशेषिं प्राप्तवन्तः इत्यतः कोविड्रोगस्य तृतीयतरङ्गः भारते द्वितीयमपेक्ष्य न कठिनतरं भविष्यतीति स्वास्थ्यविचक्षणैरुक्तम्। राष्ट्रे मुख्योत्सवेषु अन्यतमस्य दीपावलेः परं सप्ताहत्रये रोगिणां संख्या नावर्धत इति एतस्य सूचनेति व्याख्यायते।
गतदिने आराष्ट्रं कोविड्बाधिनानां संख्या ७,५७९ आसीत्। ५४३ दिनेषु न्यूनतमा संख्या एषा। प्रतिशतं ८२ जनाः वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः। ४३ % द्वियीयमपि स्वीकृतवन्तः।
२०२४ तमे संवत्सरे भारतेन निर्मितायाः ६ जि पारिभाषिकविद्यायाः प्रकाशनं भविष्यति।
नवदिल्ली> विश्वे विविधानि राष्ट्राणि अद्यावधि ५ जि पारिभाषिकविद्यासु प्रविष्टाः तथापि भारतम् इदानीमपि ५ जि तलेषु न प्राप्तम्। तदभ्यन्तरे देशनिर्मितां ३जि सुविधां संबन्ध्य भारतेन चर्चा समारब्धा। २०२३ वा २०२४ संवत्सरे स्वदेशीयरूपेण आविष्कृतां ६जि सुविधां प्रवृत्तिपथमानेष्यति इति भारतस्य वैद्युतक - वार्ताविनिमय-सूचना- प्रौद्योगिकमन्त्रिण्या श्रीमति अश्विनि वैष्णवेन प्रख्यापिता।
Wednesday, November 24, 2021
भारतं ५० लक्षं 'बारल्'परिमितं क्रूड्तैलं बहिर्नयन्ति। मूल्यवर्धननियन्त्रणं लक्ष्यः।
मुम्बई> राष्ट्रे तैलेन्धनानाम् अनुस्यूतं मूल्यवर्धनं नियन्त्रयितुं राष्ट्रस्य संभृतसञ्चयात् ५० लक्षं दीर्घगोलपात्रपरिमितम् असंस्कृतेन्धनतैलं बहिर्नेतुं सर्वकारेण निश्चितम्। उत्पादनं न्यूनीकृत्य कृत्रिमं मूल्यवर्धनं क्रियमाणस्य इन्धनोत्पादकराष्ट्रसंघस्य [ओपेक्] प्रक्रमेभ्यः पूर्वसूचनां दातुमेवायं निर्णयः।
अमेरिक्कायाः नेतृत्वे विविधराष्ट्रैः स्वीकृतस्य तन्त्रप्रधाननिर्णयस्य अंशतया एव भारतस्यापि निश्चयः। अमेरिक्का अपि ५० लक्षं दीर्घगोलपात्रपरिमितम् असंस्कृतेन्धनतैलं बहिर्नेष्यति। चीनः, जाप्पानं, ब्रिट्टनम् इत्यादीनि राष्ट्राण्यपि एतादृशरीत्या सहयोगं कुर्वन्ति।
सेलम् देशे द्रवेन्धनवातकदण्डगोलविस्फोटे त्रीणि गृहाणि भग्नानि। एकः मृतः च।
चेन्नै> तमिल्नाडुराज्ये सेलं देशे सम्पन्ने द्रवेन्धनवातकदण्डगोलविस्फोटे (LPG cylender ) त्रीणि भवनानि भग्नानि। एकः मृतः च। त्रयः जनाः भग्नावशिष्टानां अन्तर्भागे संविष्टाः इति सूचना अस्ति। पञ्च जनाः रक्षिताः। सेलस्थे करिङ्कल्पेट्टि वीथ्याम् एव घटना एषा सम्पन्ना। भवने भक्षणपचनवेलायामेव दण्डगोलः भग्नः। अपघातं सम्पन्नं भवनं तथा समीपस्थौ द्वौ गृहौ च तत्क्षणे प्रभज्य भूमौ पेततुः। रक्षां प्राप्ताः पञ्चजनाः सेलस्थे सर्वकारीयं आतुरालयं प्रविष्टाः। भानावशिष्टान्तर्भागे एकः शिशुः अपि अस्ति। रक्षाप्रवर्तनानि अनुवर्तते।
Tuesday, November 23, 2021
आन्ध्रप्रदेशः प्रलयभीतेः न विमोचिताः ; मरणानि ४२।
हैदराबादः> आन्ध्रप्रदेशे यद्यपि वृष्टेः शक्तिः न्यूना अभवत्तथापि प्रलयभीतेः न विमोचिताः। चिट्टूर्, कडप्पा, नेल्लूर् जनपदेषु महान्नाशः अभवत्। अतिवृष्टिदुष्प्रभावे मृतानां संख्या ४२ जाता।
कडप्पजनपदे पुङ्गनूरस्थः २०० संवत्सरीयः सौधः विशीर्णः। प्राथमिकगणनामनुसृत्य राज्यस्य १,३१६ ग्रामाः जलभोगेन गक्लेशमनुभूयमानाः वर्तन्ते।
चलनचित्रेषु नाटकेषु तालिबानेन स्त्रियः निरोधिताः।
काबूल्> स्त्रीकथापात्रयुक्तानां दूरदर्शनकार्यक्रमाणां सम्प्रेषणं स्थगयितुं दूरदर्शनप्रणालिकायै (channel) अफगानिस्थानस्य तालिबानप्रशासनसभया निर्देशो दत्तः। दूरदर्शनप्रणालिकासु शिरोवस्त्रं धृत्वा चित्र प्रदर्शिन्याः पुरतः आगन्तव्यम्। नूतननिर्देशानुसारं चलनचित्रेषु नाटकेषु च स्त्रीभिः अभिनयः न करणीयः। वक्षस्थलादारभ्य जानुपर्यन्तं वस्त्रं धृत्वा एव पुरुषाः दूरदर्शने आगन्तव्याः। धर्मविकारान् ध्वंसयन्तः हास्यकार्यक्रमाः विनोदकार्यक्रमाः च न करणीयाः इति तालिबानेन निर्दिष्टः अस्ति। संवत्सरेऽस्मिन् आगस्त् मासे एव तालिबानेन अफ्गानिस्थानस्य शासनं संगृहीतम्। शासनपदवीमागतस्य पश्चात् वनिताक्षेमविभागः तालिबानेन स्थगितः आसीत्। विभागस्य मुख्यकार्यालयः नूतनतया रूपीकरणाय सदाचारविभागाय समर्पितः च। स्त्रीस्वातन्त्र्यस्योपरि अतिनियन्त्रणानि एव तैः दापितानि।
Monday, November 22, 2021
यूरोप्पे कोविड्व्यापनं तीव्रं; कर्कशनियन्त्रणानि विरुध्य प्रतिषेधः।
पारीस्> यूरोप्पीयराष्ट्रेषु कोविड् महामार्याः पञ्चमतरङ्गं तीव्रं वर्तते इति विश्वस्वास्थ्यसंघटनेन निगदितम्। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, फ्रान्स् इत्यादिषु राष्ट्रेषु व्यपनम् आशङ्काजनकमिति सूच्यते।
फ्रान्स् राष्ट्रे कोविड्प्रकरणानि गतसप्ताहीयापेक्षया द्विगुणमभवन्निति तद्देशीयसर्वकारेण उक्तम्।
परन्तु प्रायेण सर्वेषु राष्ट्रेषु सर्वकारैः विहितानि कर्कशनियन्त्रणानि विरुध्य जनानां प्रतिषेधाः संवृत्ताः। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, इत्येतेषु राष्ट्रेषु सहस्रशः जनाः स्वयं राजमार्गं प्रविश्य प्रतिषेधप्रदर्शनं कृतवन्तः। बहुत्र प्रतिषेधः अक्रमासक्तोSभवत्। हेग् नगरे प्रतिषेधकैः आरक्षकान् प्रति स्फोटकादिकं प्रयुक्तम्।
Sunday, November 21, 2021
विश्वस्मिन् प्रथमा वैद्युतमहानौका नोर्वे देशात् यात्रा समारब्धा।
आन्ध्रप्रदेशे जलोपप्लवः - २९ मरणानि; उपशतं जनाः अप्रत्यक्षाः।
तिरुप्पति> आन्ध्रप्रदेशे अतिवृष्टिरनुवर्तते। अतिवृष्टिदुष्प्रभावेण २९ जनाः मृत्युमुपगताः। उपशतं जनाः अदृष्टाः इति सूच्यते। कडप्पा जनपदे १२, चिट्टूरे ८, अनन्तपुरे ७, कुर्नूल् जनपदे २ च जनाः मृत्युमुपगताः। राष्ट्रियदुरन्तनिवारणसेनायाः अन्यासां संस्थानां च नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।
वंगदेशीयान्तरालमुद्रे जातं न्यूनमर्द्दमेव प्रकृतिक्षोभस्य कारणम्। राज्यस्य सुप्रधानं तीर्थाटनस्थानं तिरुप्पतिमन्दिरं जलेनाप्लावितम्। रायलसीमा मण्डले प्रलयः तीव्रः वर्तते।
Saturday, November 20, 2021
गोवा अन्ताराष्ट्रिय-चलनचित्र-मेलायाः प्रारम्भः अद्य भविष्यति।
पनाजि> ५२ तमायाः अन्ताराष्ट्रियचलनचित्रमेलायाः प्रारम्भः अद्य भविष्यति। सायाह्ने सप्तवादने श्यामप्रसाद् मुखर्जी सभागारे उद्घाटनसमारोहः समारप्स्यते। ७३ राष्ट्रात् १४८ चलनचित्राणि अन्ताराष्ट्रियविभागात् प्रदर्शनाय भविष्यन्ति। सुवर्ण मयूर पुरस्कारस्पर्धाविभागे १५ चलनचित्राणि सन्ति। इन्ड्यन् पनोरमा विभागे २५ चलनचित्राणि प्रदर्शयिष्यन्ति। कार्लोस् सोरेण निदेशनं कृतं 'द किङ् ओफ् ओल् द वेल्ड्' उद्घाटनचलनचित्रं भविष्यति।
ओस्ट्रेलियेषु कुलीराणां कृते पिधानम्।
मेल्बण्> पञ्चकोटि अरुणभीमकुलीराः प्रतिसंवत्सरं नवंबर् मासे वर्षानन्तरं यूथीभूय वनात् बहिरागच्छन्ति। यानमार्गाणि तरणं कृत्वा प्रजननाय समुद्रं प्रति यात्राम् अनुवर्तन्ते। एतेषां कुलिराणां सुरक्षितयात्रां दृढीकर्तुं पश्चिमओस्ट्रेलियस्य क्रिस्मस् द्विपः कुलीराणां सुरक्षितयात्रायै कृते पिधानं प्रख्यापितम्। एते अरुणवर्णविशेषकुलीराः भारतमहासमुद्रस्थे अस्मिन् लघुद्वीपे एव द्रष्टुं शक्यते। प्रजननार्थं पुरुषकुलीराः एव प्रथमं समुद्रतीरं प्राप्स्यन्ति। ततः पश्चात् स्त्रीकुलीराः अपि समुद्रतीरं प्राप्नुवन्ति। जीविनां मध्ये अतिबृहत्तमं देशान्तरगमनं भवति एतत् इति विशेषज्ञाः वदन्ति।
विद्यालयस्य अध्यापकेभ्यः क्षमतानुसारं निष्कृतिः स्थानोन्नतिश्च ।
नवदिल्ली> केवलं छात्रेभ्यः न विद्यालयाध्यापकेभ्यः अपि अङ्कः भविष्यति। राष्ट्रस्य विद्यालयाध्यापकेभ्यः अपि तेषां प्रवर्तनक्षमताम् अनुसृत्य मूल्यनिर्णयाय सुविधा सज्जायते। एतस्याः कृते राष्ट्रिय शिक्षकशिक्षापरिषदेन (NCTE) राष्ट्रिय शिक्षानयस्य अधारेण राष्ट्रिय उद्योगमानकस्य (NPST) प्राथमिक रूपं सङ्कल्पितम्। अध्यापकानां निष्कृतिवर्धनं स्थानोन्नतिः च नूतनमानकस्य आधारेण भविष्यति। इदानीम् अध्यापकेषु केचन शैक्षिकक्षमतायुक्ताः न इति प्रत्यभिज्ञाय भवति नूतनं विचिन्तनम्।
Friday, November 19, 2021
अरुणाचले पुनरपि चीनेन भवनानि निर्मितानि।
अपरराष्ट्रस्य भूमेः स्वायत्तीकरणं भारतस्य स्वभावः न। येन केनापि राष्ट्रेण वा भवतु भारतं नाशयितुं विरुद्धतया सीमातिक्रमो वा गूढतन्त्रेण अन्येन वा प्रवर्त्येत तेषां उचितां प्रतिक्रियां लभ्येत, नैवात्र संशयः। भारतभूमिं संरक्षितुं अस्माकं धीराः सैनिकाःशक्ताः सज्जाः च इति प्रतिरोधमन्त्रिणा राजनाथसिंहेन निगदितम्।
Thursday, November 18, 2021
निजीय आतुरालयेषु संभृताः २.४० लक्षं मात्रामितस्य कोविड् वाक्सिनस्य नाशः भविष्यति ?।
अनन्तपुरी> राज्ये निजीयआतुरालयेषु संभृताः२.४० लक्षं कोविड् वाक्सिनमात्राः उपयोगशून्याः भविष्यन्ति इति आशङ्क्यते। केरलराज्य-सर्वकारेण मेडिक्कल् सर्वीसस् संस्था द्वारा वितीरितः वाक्सिनः अपि अस्मिन् अन्तर्भवति। वाक्सिनं प्रत्याहर्तुं संप्रार्थितोऽपि राज्यसर्वकारेण तथा सीरम् इन्स्टिट् ट्यूट् ओफ् इन्ड्यया च प्रक्रमाः न स्वीकृताः। षण्मासपर्यन्तमेव भवति कोविषील्डस्य क्षीयकालपरिधिः इत्यतः नाशसाध्यता अस्ति। कोवाक्सिनः अपि आतुरालये संभृतः वर्तते। राज्यसर्वकारस्य सकाशे अपि पर्याप्तं वाक्सिनसञ्जयम् अस्ति।
अधिजालकक्रीडाद्वारा द्वयोः बालकयोः प्राणाः विनष्टाः।
कोच्ची> कौमारवयस्कानाम् अधिजालकदास्यं द्वयोः प्राणानपाहरत्। केरले इरिङ्ङालक्कुटा प्रदेशे आकाशनामकः कश्चन १४ वयस्कः ओण्लैन् क्रीडया नष्टद्रव्यः इति पितृभ्यां ज्ञातमिति प्रत्यभिज्ञाने समीपस्थां वापीमुत्प्लुत्य प्राणानत्यजत्। इरिङ्ङालक्कुटा नाषणल् विद्यालये नवमकक्ष्याछात्रः आसीत्।
तिरुवनन्तपुरं जनपदस्थे चिरयिन्कीष़् निवासी साबित् मुहम्मदनामकः अन्यः १४ वयस्कोSपि एतादृशकारणेन नष्टप्राणः अभवत्। कून्तल्लूर् प्रेम्नसीर् स्मारकसर्वकारीयविद्यालये नवमीकक्ष्याछात्रः नवम्बर् ८तमदिनाङ्के उद्बन्धनेन मृतः आसीत्। तस्य अधिजालकपठनार्थं दत्तायां चलद्दूरवाण्यां निगूढसंख्यामुपयुज्य संरक्षितानि बहूनि क्रीडानिवेशनानि [Game Apps] दृष्टानि। अतः तस्य मरणमपि ओण् लैन् क्रीडायाः कारणेनेति सूच्यते।
पोच्चम्पल्लि ग्रामाय ऐक्यराष्ट्र सभायाः अङ्गीकारः लब्धः।
Wednesday, November 17, 2021
विश्वस्मिन् धनिकराष्ट्रं चीनः।
बीजिंग्> विश्वस्मिन् धनिकतमं राष्ट्रमिति पदम् अमेरिक्कामतिक्रम्य चीनेन स्वायत्तीकृतम्। सूरिच् आस्थानत्वेन वर्तमानस्य Makkincy Global Institute इत्यस्य आवेदनपत्रे एव एतद्वृत्तान्तः प्रकाशितः। आगोलार्थिकद्रव्यं गतदशकद्वये त्रियुगलं वर्धितमिति सूच्यते।
२०२० तमे आविश्वं समग्रं आर्थिकद्रव्यं ५१४ लक्षं कोटि डोलर् इति गणना कृता। तत्र १२० लक्षं कोटि डोलर् चीनस्य अधीशत्वे अस्ति। अमेरिक्कायाः अधीशत्वं ९० लक्षं कोटि डोलर् परिमितं भवति।
Tuesday, November 16, 2021
शबरिगिरितीर्थाटनाय अद्य शुभारम्भः - अतिवृष्टिहेतुना तीर्थाटकानां नियन्त्रणम्।
पत्तनंतिट्टा> 'तत्त्वमसी'ति उपनिषद्वाक्यस्य आशयं स्वांशीकृत्य दक्षिणभारतस्य शबरिगिरितीर्थाटनमद्य आरभते। शबरिगिरि श्रीधर्मशास्तृमन्दिरं आचारक्रममनुसृत्य ह्यः उद्घाटितम्। भक्तानाम् अद्य आरभ्य दर्शनं साध्यं भवति। कोविडनुशासनानि परिपाल्य ये 'वेर्च्वल् क्यू' द्वारा दर्शनाय अनुज्ञापत्रं प्राप्तवन्तः तेभ्यः एव प्रवेशानुमतिः विहिता।
केरले गतदिनत्रयेण अनुवर्तमानया अतिवृष्ट्या भक्तानां संख्या नियन्त्रिता भवेत्। पम्पानद्यां जलोपप्लवः जातः इत्यतः पम्पास्नानं निरुद्धं वर्तते।
अय्यप्पभक्तानां सुखतीर्थाटनाय अपेक्षिताः पदक्षेपाः सर्वे पूर्तीकृताः इति सर्वकार-देवस्वं बोर्ड् अधिकारिभिः निगदितम्।
Monday, November 15, 2021
वायुमलिनीकरणं तीव्रं- पूर्णपिधानमालक्ष्य राजधानी।
नवदिल्ली> वायुमलिनीकरणे अतितीव्रे जाते राष्ट्रराजधान्यां विपत्कालीनावस्था। दीपावल्याः अनन्तरं दिल्लीनगरान्तरिक्षस्य अवस्था अतिशोचनीया जाता। शनिवासरस्य प्रभाते वायुमलिनीकरणसूचिका ४७१ अङ्किता। सूचिकाङ्कनं ४०० - ५०० इति प्राप्यते चेत् अतितीव्रमन्तरिक्षमलिनीकरणं कल्प्यते।
अन्तरिक्षः धूमावृतः वर्तते। नगरवासिनः जनाः श्वासोच्छ्वासाय अतिक्लेशमनुभवन्ति। कर्कशानि नियन्त्रणानि नगरे दिल्लीमुख्यमन्त्रिणा अरविन्द केज्रिवालेन विहितानि। तदनुसृत्य सर्वकारकार्यालयेषु सप्ताहं यावत् 'गृहतः कर्म' [Work from Home] विहितम्। सोमवासरादारभ्य सप्ताहं यावत् विद्यालयाः पिहिताः भविष्यन्ति। निर्माणप्रवर्तनानि निरुद्धानि।
Sunday, November 14, 2021
क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीति राज्ञी अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी
महाराष्ट्रे २६ मावोवादिनः प्रतिद्वन्द्वे निहताः।
मावोवादिसंघं प्रतिरोद्धुं सविशेषपरिशीलनं लब्धवन्तः ४०० आरक्षकभटाः सेनायाः जनपदीयसहाधीशस्य सौम्य मुण्टे इत्यस्य नेतृत्वे प्रतिद्वन्द्वे भागं कृतवन्तः। दशाधिकाः मावोवादिनः चत्वारः आरक्षकाश्च व्रणिताः।
नवम्बर् मासस्य नवदशदिनाङ्के दृष्टिपथमायाति अपूर्वं चन्द्रग्रहणम्।
Saturday, November 13, 2021
अतिवृष्टिः - केरले २१६ कोटिरूप्यकाणां कृषिनाशः।
कोच्ची> गतमासस्य १६,१७,१८ दिनाङ्केषु प्रवृत्तायाः अतिवृष्ट्याः दुष्प्रभावेण आराज्यं २१,९४१ हेक्टर् परिमितानां क्षेत्राणां कृषयः विनाशिताः। मानदण्डमनुसृत्य २१६.३कोटिरूप्यकाणां नाशः अभवदिति कृषिविभागस्य गणनेन सूच्यते। नष्टपरिहाराय अद्यावधि ६६,३२२ कृषकाः अर्थनापत्राणि समर्पितवन्तः।अर्थनापत्राणां समर्पणीयदिनाङ्कः नवंबर १५पर्यन्तं दीर्घितः अस्ति।
तृश्शिवपेरूर् जनपदे अधिकतरः कृषिनाशः अभवदिति सूच्यते। तत्र ६७७९ कृषकाणां ११,९६७ हेक्टरपरिमितस्य नाशः अभवत्। ततः कोट्टयं, आलप्पुष़ा, पालक्काट्, एरणाकुलं जनपदेषु एव अधिकाधिकः कृषिनाशः जातः। अन्येषु जनपदेषु अपि व्यापकरीत्या कृषिनाशः अभवत्।







