OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, May 16, 2025

 पाकिस्थानेन गृहीतः सीमारक्षाभटः विमोचितः। 

भारतेन निग्रहीतः पाकिस्थानीयभटोऽपि मोचितः।

  नवदिल्ली> पञ्चाबस्थे भारत-पाकिस्थानसीमामण्डलात् वाग-अट्टारिप्रदेशात् पाकिस्थानेन निगृहीतः भारतीयः सीमारक्षणभटः भारताय प्रत्यर्पितः। पश्चिमवंगस्य हूग्ली निवासी पूर्णं कुमार शाहः एव विमोचितः। तथा च राजस्थानस्य सीमायाः भारतसेनया निगृहीतः पाकिस्थानीयः अपि विमोचितः।

सि बि एस् सि दशमकक्ष्यापरीक्षायां 600 अङ्केषु 599 अङ्काः रितिका प्राप्तवती।

   अस्मिन् संवत्सरस्य सि बि एस् सि परीक्षायां दशम्यां कक्ष्यायां रितिका नामिका बालिका ५९९ अङ्कान् प्राप्तवती। आहत्य ६०० अङ्केषु आसीत् परीक्षा। केरळेषु अनन्तपुरी जिल्लायां वसति एषा। कवटियार् क्रैस्ट् नगर् केन्द्रीयविद्यालयस्य छात्रा भवति इयम्। क्रमानुगतम् अध्ययनम् एव भवति अस्य विजयरहस्यम् इति सा अवदत्। विद्यालये यत् पाठयति तत् तस्मिन्नेव दिने सा पठति स्म। तादृश स्वभावविशेषः-विजयप्राप्त्यर्थम् उपकारकम् असीत् इत्यपि तया उक्तम्।

 ड्रोण् पातनाय भारतस्य भार्गवास्त्रम्। 

भुवनेश्वरं> ड्रोण् यन्त्राणि उपयुज्य क्रियमाणानि आक्रमणानि प्रतिरोद्धुं भारतस्य ह्रस्वदूराग्नेयास्त्रस्य - भार्गवास्त्रस्य - परीक्षणे विजयप्राप्तिः। ओडीशायां गोपालपुरी 'फयरिंग् रेञ्च्' इत्यत्र 'आर्मी एयर् डिफन्स्' [AAD] संस्थायाः वरिष्ठोद्योगवृन्दस्य सान्निध्ये आसीत् इदं परीक्षणम्। निश्चितसंख्याकानि ड्रोण् यन्त्राणि युगपत् भञ्जयितुं एकेनैव भार्गवास्त्रेण शक्यते।

Thursday, May 15, 2025

 बी आर् गवाय् वर्यः भारतस्य मुख्यन्यायाधिपरूपेण शपथं कृतवान्। 

बी अर् गवाय् वर्यस्य शपथसमारोहः। 

नवदिल्ली> भारतस्य ५२ तम मुख्यन्यायाधिपरूपेण न्यायाधीशः बी आर् गवाय् वर्यः ह्यः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः सविधे शपथं कृत्वा कार्यभारं स्वीकृतवान्। सत्यशपथसमारोहानन्तरं मुख्यन्यायालयं सम्प्राप्तवान् सः तत्रत्ययोः महात्मा गान्धी, डा बी आर् अम्बदकरः इत्येतयोः प्रतिमयोः पुष्पार्चनां कृतवान्। 

   बुद्धधर्मानुयायी प्रथमः भारतमुख्यन्यायाधिपो भवति न्याय.  भूषण रामकृष्ण गवाय् वर्यः।नवम्बर् २३ पर्यन्तं तस्य सेवाकालः भविष्यति।

 लष्करनेतारमभिव्याप्य त्रयः भीकराः निहताः। 

श्रीनगरं> जम्मु काश्मीरस्य षोपियाने सुरक्षासेनया सह प्रतिद्वन्द्वे लष्कर् ई तोय्बा संघटनस्य नेता इतरौ द्वौ भीकरौ च निहताः। 

   भीकराः प्रदेशे निलीयमाना‌ः इति सूचनानुसारं सेनया कृतस्यान्वेषणस्य अंशतया आसीत् प्रतिद्वन्द्वः। लष्करस्य कमान्डरः षाहिद् कुट्टे , अदनान षाफी, अज्ञातनामा इतरः च निहताः।

 मण्सूण् कालवर्षः आन्डमानं सम्प्राप्तम्। 

केरले २७ तमे दिनाङ्के। 

अनन्तपुरी> दक्षिण अन्तमान् समुद्रः, उत्तर अन्तमान् समुद्रः, दक्षिणवंगस्य अन्तरालः इत्यादिषु स्थानेषु कालवर्षः सम्प्राप्त इति केन्द्र पर्यावरणविभागेन निगदितम्। केरले  दक्षिणपश्चिमकालवर्षः मेमासस्य २७ दिनाङ्कं यावत् सम्पत्स्यते।

Wednesday, May 14, 2025

 भीकरप्रवर्तनस्य अनुवर्तनं पाकिस्थानस्य सर्वनाशाय भविष्यतीति नरेन्द्रमोदी। 

ओदंपुरस्थं व्योमनिलयं प्राप्तवान् नरेन्द्रमोदी सैनिकैः सह सम्भाषणे। 

नवदिल्ली> यदि पाकिस्थानः भीकरप्रवर्तनम् अनुवर्तिष्यते तर्हि तत् तद्राष्ट्रस्य सर्वनाशाय भविष्यतीति भारतप्रधानमन्त्री नरेन्द्रमोदी असूचयत्। ओपरेशन् सिन्दूरम् इत्यस्यानन्तरं आदंपुरे व्योमसैनिकनिलयं सम्प्राप्य सैनिकान् अभिसम्बोधयन् भाषमाणः आसीत् नरेन्द्रमोदी। 

  पाकिस्थानेन विशीर्णमिति तैरभिमानितेषु भारतीयव्योमनिलयेषु अन्यतमं भवति पञ्चाबस्थं  आदंपुरम्। सैनिकनिलयः सर्वथा सुरक्षितः इति प्रमाणीकर्तुमपि आसीत् प्रधानमन्त्रिणः इदं प्रातःकालसन्दर्शनम्। 

  आदंपुरे प्राप्तवान् मोदीवर्यः 'एस् ४००' इति व्योमप्रतिरोधसंविधानम् अभिवाद्य सैनिकैः सह भाषणं कृत्वा तेषां पराक्रमशीलं, स्थिरोत्साहं च प्रकीर्तितवान्।

Tuesday, May 13, 2025

 विराट कोह्ली क्रिकट् निकषस्पर्धायाः निवृत्तवान्। 

एकदिने अनुवर्तिष्यते। 


नवदिल्ली> क्रिकट् आराधकानां वीरपुरुषः, भारतस्य क्रिकट् नायकेषु अनुत्तमः  विराट कोह्ली निकषस्पर्धायाः विरम्यते इति स्वयमुद्घोषितवान्। पूर्वमेव टि - २० अतः निवृत्तः सः परं एकदिनस्पर्धासु क्रीडिष्यति। 

  पराक्रमशाली, उत्साहवान्, जनप्रियः - त्रयमपि कोह्लेः उत्तमरीत्या अनुयुक्तं विशेषणं भवति। अधिकतमेषु निकषस्पर्धासु भारतदलं विजयपदमानीतवान् नायकः इति ख्यातिः कोह्लेः स्वकीयः अस्ति। ६० प्रतिद्वन्द्वेषु ४०विजयाः। सप्त युगलशतकस्य स्वामीअस्ति।

Monday, May 12, 2025

 UPI सेवा स्थगिता। उपयोक्तृजनानाम् अतिसम्मर्दः कारणम्।

   नवदिली> भारते यू पि ऐ नाम धनपरिवर्तनादिकी स्थगिता इति प्रतिवेद्यते। पे टि एम्, फोण् पे, गूगिल् पे इत्यादयः अनुप्रयोगाः अद्य सोमवासरे सायं कालादारभ्य स्थगिताः। नववादने सेवा पुनस्थापिता। विगते मार्चमासे लब्धगणनानुसारेण 1830 कोटि विनिमयाः कृताः सन्ति। फेब्रुवरिमासे विनिमयाः 1611 कोटि इत्यासीत्।

 "भीकरवादरूढमूला भूमिः सुरक्षिता नास्ति, भीकरवादिनः अनुगम्य आखेटनं करिष्यामहे; " – रक्षामन्त्री राजनाथसिंहः।

  "सिन्दूरं नष्टवतीनां कुटुम्बानां कृते सशस्त्रसेनया ओपरेषन् सिन्दूरम् इति प्रक्रमेण न्यायः प्रदत्तः" इति भारतस्य रक्षामन्त्री राजनाथसिंहः उक्तवान्। ब्रह्मोस्-शस्त्रप्रयोगः  शत्रूणां कृते स्पष्टतया  दत्तसन्देशः भवति इत्यपि सः निरूपितवान्। सम्पूर्णं राष्ट्रं भारतीयसैन्याय कृतज्ञतां प्रकाशयति।

"ओपरेषन् सिन्दूरम्" केवलं सैन्यकर्म न भवति, अपितु भारतस्य राजनैतिक -सामाजिक -संकल्पशक्तेः प्रतीकम् एव। रावलपिण्डिस्थं पाकिस्थानस्य सैनिककेंद्रं लक्ष्यीकृत्य आक्रमणं कृतम्।

"भीकरवादेन पीडितं भूमिप्रदेशे ते सुरक्षिताः इति चिन्तयन्ति चेत्, तत् न तथ्यम्। तथा नास्ति, यत्र यत्र ते भीकरवादिनः निवसन्ति, तत्र तत्र गत्वा तान् आखेटनं करिष्यामहे" इति राजनाथसिंहः उक्तवान्।