OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, November 3, 2017

एस् बि ऐ वित्तकोशेन भवन - वाहनाभ्यां ऋणस्य शिखावृद्धिः न्यूनीकृता।
                 मुम्बै> राष्ट्रस्य बृहत्तमवित्तकोशेन एस् बि ऐ संस्थया भवन-वाहनाभ्यं दीयमानाय ऋणधनस्य शिखावृद्धिः न्यूनीकृता। भवनऋणस्य ८.३०% वाहन ऋणस्य ८.७०% च भवतः। अनया विपण्यां न्यूनतमा शिखावृद्धिभूता वित्तकोश-संस्था इति ख्यातिः एस् बि ऐ वित्त-कोशाय लभते। नवम्बर मासस्य प्रथम दिनाङ्कात्  आरभ्य इयं सुविधा प्रबला अभवत् इति वित्तकोशेन ज्ञाप्यते। 

               नूतनतया ऋणस्वीकारेभ्यः एव प्रथमतया न्यूनीकरणस्य  आनुकूल्यं लभतेI अन्येषां तु निश्चितकालानन्तरम् एव आनुकूल्यवितरणं भविष्यति। एतदनुसृत्य निष्कृत्यायकारिभ्यः वनिताभ्यः ३० लक्षपर्यन्तेभ्यः भवनऋणस्य कृते ८.३०% इति शिखावृद्धिः पुनर्निर्णीतम्। एतदधिरिच्य प्रधानमन्त्री आवास योजनानुसारं अर्हानां कृते २.६७ कोटि रुप्यकाणाम् अर्थसाहाय्यः च लभते।
के. सच्चिदानन्दाय 'एष़ुत्तच्छन्' पुरस्कारः। 
               अनन्तपुरी > केरलराज्यसर्वकारस्य परमोन्नताय साहित्यपुरस्कारत्वेन विद्यमानाय 'एषुत्तच्छन्' पुरस्काराय केरलीयकविः, विमर्शकः, विवर्तनकारश्च के. सच्चिदानन्दः अर्हति। पञ्चलक्षं रूप्यकाणि प्रशस्तिपत्रं च पुरस्काररूपेण दीयन्ते। 
    अध्यापकः प्रभाषकः संघाटकः इत्यादिमण्डलेषु स्वप्रतिभां प्रकाशितवतः सच्चिदानन्दस्य कविताः नैकाः भारतीयभाषाः विदेशभाषाः च प्रति अनूदिताः वर्तन्ते। बहवः यूरोप्यन् लाटिनमेरिक्कन् कविताः अनेन कैरलीं प्रति भाषान्तरं कृताः।

Thursday, November 2, 2017

यानदुर्घटनानां निष्कृतिदानाय मानदण्डं विधाय सर्वोच्चन्यायालयः। 
               नवदिल्ली > यानदुर्घटनाभिः हतेभ्यः निष्कृतिं निर्णेतुं सर्वोच्चन्यायालयेन नूतनः मानदण्डः निर्दिष्टः। हतानां 'भविष्त्कालसाध्यताम्' अपि परिगणय्य तेषामायः कथं निश्चितव्यमित्यस्य मार्गरेखा एव न्यायालयस्य शासनसंहितापीठेन निर्दिष्टा। 
     हतभाग्यः स्थिरकर्मयुक्तः तथा ऊनचत्वारिंशद्वयस्कः चेत् तस्य वेतनेन सह प्रतिशतं पञ्चाशच्च योजयित्वा एव तस्य भविष्यत्कालायः निर्णेतव्यः। यदि हतः ४०-५० वयस्कः वेतनेन सह ३०% अधिकतया योजयितव्यम्! वयः ५०-६० तर्हि १५% अधिकतया योजयितव्यम्! 
   यदि हतः ऊन४०वयस्कः तथा निजीयकर्मकरः स्थिरवेतनयुक्तश्च तर्हि वेतनस्य ४०% अपि अधिकतया योजयितव्यम्!
यू पि तापनिलये स्फोटनं - २० मरणानि। 
           रायबरेली > उत्तरप्रदेशस्थे राय्बरेलिप्रविश्यायां 'नाषणल् तेर्मल् पवर् कोर्परेशन्' संस्थायाः अधीनत्वे विद्यमाने तापनिलये संवृत्ते विस्फोटने विंशतिः कर्मकराः मृताः, शतप्रायाः क्षताः च। दुरन्तबाधितानां संख्या अधिकतरा स्यादिति उत्तरप्रदेशस्य मुख्यगृहसचिवेन उक्तम्। 
         रायबरेल्यां ऊंचहार् क्षेत्रस्थे २९ संवत्सराणि प्राचीने तापनिलयस्थे बाष्पित्रं (Boiler) एव विस्फोटित। २१० मेगावाट् शेषियुक्ताः पञ्च एककानि (unit) अत्र विद्यन्ते। ५०० मेगावाट् शेषियुक्तं एककान्तरमपि गते मार्च् मासे प्रवर्तनमारब्धमासीत्। अस्मिन् विद्यमानं बाष्पित्रमासीत् विस्फोटितम्। देशीयदुरन्तसेनया रक्षाप्रवर्तनमारब्धम्। मृतानाम् आश्रितानां कृते लक्षद्वयरूप्यकाणां क्षतिसाहाय्यं मुख्यमन्त्रिणा योगि आदित्यनाथेन  प्रस्तुतम्।
जनप्रतिनिधयः अपराधी स्थानं भूत्वा १३००० न्यायव्यवहाराः। शीघ्रतर-न्यायालयाय निर्देशः।
                  नव-दिल्ली > जनप्रतिनिधयः अपराधी स्थाने भूत्वा त्रयोदशसहस्रं न्याय व्यवहाराः विविधन्यायालयेषु सन्ति। ईदृशव्यवहारेषु विलम्बं विना विधिप्रस्तावः अनिवार्यः अतः शीघ्रतर विशेषन्यायालयानां विन्यास: कर्तव्यः इति सर्वोच्च न्यायालयेन आदिष्टः।  ईदृश-व्यवहारेषु एकसंवत्सराभ्यन्तरेण निर्णयः प्रस्ताव्यः काल विलम्बः मा भवितव्यः इत्यपि न्यायालयेन निर्दिष्टः। महापराधित्व-व्यवहारे दण्डितानां सामाजिकानां निर्वाचने  स्पर्धितुं आजीवनं बाधा भवतु इति निर्वाचनाध्यक्षेण न्यवेदितम्। किन्तु विषयेस्मिन् केन्द्रसर्वकारेण अभिमतः न प्रकाशितः।  विशदानां क्रिया विधीनां मार्गरेखा दिसम्बर त्रयोदशदिनाभ्यन्तरेण समर्पणीया इति न्ययाधीशस्य रञ्जन् गोगोय् वर्यस्य आध्यक्षे आयोजितः नीतिपीठः आदिशत्।

Wednesday, November 1, 2017

कोच्ची मेट्रो योजनायै राष्ट्रियपुरस्कारः। 
नवदिल्ली > वरिष्ठानुबन्धगतागतश्रृङ्खलायाः समर्प्यमाणः राष्ट्रिय पुरस्कारः केरलस्य कोच्ची मेट्रो रेल्यानयोजनायै ।  मेट्रो यात्रामनुबन्ध्य बस् यानसेवनं, 'जल मेट्रो', त्रिचक्रिकासेवनानि इत्यादयः संयोज्य वरिष्ठं सामाजिकगतागतसंविधानस्य आयोजनायै एवायं पुरस्कारः। केन्द्रनगरविकसनमन्त्रालयेन आयोजितः अयं पुरस्कारः नवम्बर् षष्ठदिनाङ्के हैदराबादे उपराष्ट्रपतिना वैङ्कय्य नायिडुवर्येण सम्मानीयते।
      अस्मै पुरस्काराय ४६ नगराणि प्रतिस्पर्धितानि। राष्ट्रस्य नगरान्तराणां कोच्ची मेट्रो योजनायाः संयोजितसंचरणसुविधा आदर्शभूता भवतीति पुरस्कारनिर्णयसमित्या प्रकीर्तितम्।
‘मन की बात’ [37] “मनोगतम्” [37] (प्रसारण-तिथि: 29.10.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
- बलदेवानन्द-सागरः
             मम प्रियाः देश-वासिनः ! नमस्कारः | दीपावल्याः षण्णां दिनानाम् अनन्तरम् आयोज्यमानं “महापर्व छठ”- इति अस्मदीय- देशे अतितरां निष्ठा-नियम-पुरस्सरं आयोज्यमानेषु पर्वसु अन्यतमं वर्तते, यस्मिन् पानाशनतः वेशभूषां यावत्, प्रत्येक-विषयेषु पारंपरिक-नियमाः अनुपाल्यन्ते | छठ-पूजायाः अनुपम-पर्व, प्रकृत्या प्रकृतेः उपासनया च पूर्णरूपेण सम्बद्धं वर्तते | एकतः आदिदेवः सूर्यः जलञ्च, छठ-महापर्वणः उपासनायाः केन्द्रीभूतौ विषयौ वर्तेते, अपरतश्च वेत्रेभ्यः मृत्तिकायाश्च निर्मितानि भाण्डानि कंदमूलानि च, अस्य पूजन-पद्धत्या संयुक्ताः अभिन्नाः सामग्र्यः सन्ति | आस्थायाः अस्मिन् महापर्वणि उदीयमानस्य सूर्यस्य उपासना, तथा च, अस्तंगम्यमानस्य सूर्यस्य पूजायाः सन्देशः अद्वितीय-संस्कारेण परिपूर्णोsस्ति | संसारोsयं उदीयमानान् सर्वदा पूजयति, किन्तु छठ-पूजा अस्मान् तेषामपि आराधनानुष्ठानार्थं संस्कारयति येषां अस्तंगमनं प्रायः सुनिश्चितम् |

            अस्माकं जीवने स्वच्छतायाः महत्वस्य अभिव्यक्तिः अपि अस्मिन् उत्सवे समाविष्टास्ति | छठ-पर्वणः प्राक्, संपूर्णस्य गृहस्य स्वच्छता, युगपदेव, नद्याः तडागस्य पल्वलस्य च तटेषु, पूजा-स्थलानाम् अर्थात् घट्टानामपि स्वच्छता, पूर्णोत्साहेन सर्वेsपि सम्भूय कुर्वन्ति | सूर्यस्य वंदना वा छठ-पूजा पर्यावरणसंरक्षण- स्य, रोगनिवारणस्य अनुशासनस्य च पर्व अस्ति यस्य उल्लेखः ऋग्वेदेsपि लभ्यते | ऋग्वेदे प्रोक्तम् –“सूर्य आत्मा जगतस्थुषश्च’‘ अर्थात् सूर्यः एव जगतः आत्मानं, शक्तिं चेतनाञ्च जागरयति |
             सामान्यरूपेण केचन जनाः याचयित्वा आदानं हि हीन-भावत्वेन परिगणयन्ति, परन्तु षष्ठी-पूजायां प्रातःकालिकस्य अर्घ्य-प्रदानस्य पश्चात् प्रसादं याचयित्वा अशनस्य एका विशिष्टा
केरळ संस्कृताध्यापक फेडरेषन् - राज्यसरीमेयलनं फेब्रुवरि मासे
                कासरगोड् > केरलीय संस्कृताध्यापक फेडरेषन् इति संस्थायाः राज्यस्तरीयं महा-मेलनम् आगामीवर्षस्य फेब्रुवरि मासे २२-२४ दिनाङ्केषु  कासरगोड् जनपदे आयोक्ष्यते। एतत्सम्मेलनम् अभिलक्ष्य स्वागतसंघस्य रूपवत्करणं सम्पन्नम्।  योगे∫स्मिन् रषीद् पूरणम् अध्यक्षभाषणमकरोत्। ऐ.वि. भट्टः योगस्य उद्घाटकः आसीत्। डा. के सुनिलकुमार्, के.के.गिरीषकुमार्, नीलमन शङ्करः, हरिकृष्णः, के.टि. मधु, के. कृष्णप्रसाद्, के गणेषकुमार्, इ.ए. अरुण् कुमार. के  च भाषणं कृतवन्तः।
केरलीयानां संस्कृताध्यापकानां प्रजातन्त्रेतरमण्डले प्रवर्तमाना [KSTF(D&P)] भवति इयम् समितिः इत्यस्ति अस्याः विशेषताI


Tuesday, October 31, 2017

भारतस्य प्रत्याक्रमणानि साधारण जनान् उद्दिश्य न
        नव दिल्ली> काश्मीरस्य नियन्त्रण-रेखायां सङ्घर्र्षः वर्धिते सति भारत-पाकिस्तानयोः DGMO इति सैनिक पदयोः विराजमानयोः अधिकारिणोः मिथः मेलनम् अभवत्। भारतस्य सेनानिर्देशकः लफ्टनन्ट् जनरल् (D GMO) ए के भट् एव पाकिस्तानस्य निर्देशकेन सह भाषणमकरोत्। पाकिस्थानस्य पक्षतः कोपप्रेरणा भविष्यति चेत् शक्तया रीत्या प्रत्याक्रमणं भविष्यति इति भट्टः चर्चायाम् अवदत्। नियन्त्रणरेखायाम् भारतेन कोपप्रेरणां विना गोलिका प्रहरः क्रियते इति पाकिस्थानस्य दुरारोपणं भट्टेन निरस्थम्। पाकिस्थानस्य साहाय्येन भीकरैः क्रियमाणः लूण्डनप्रवेशस्य रोधनमेव क्रियते भारतेन इत्यपि सः प्रत्युत्तरमदात्। सामान्यजनान्‌ लक्षीकृत्य कदापि नासीत् भारतस्य प्रत्याक्रमणम् इति च सः अवदत्।
भूटान-नरेशस्य चतुर्दिवसीयभारतयात्रा
             नवदिल्ली >भूटाननरेश: जिग्‍मेखेसरनामग्‍यालवांगचुक: चतुर्दिवसीयभारतयात्रायै अद्य राजधान्यां नवदिल्ल्याम् आयाति । भारतप्रवासावधौ श्रीवांगचुक: राष्‍ट्रपतिप्रधानमन्त्रिभ्यां सह सम्भाषणं करिष्यति । प्रधानमन्त्रिणा नरेन्द्रमोदिना भूटाननरेशस्य सम्‍माने रात्रिभोजस्यायोजनं विधास्यते। उपराष्‍ट्रपति: वेंकैयानायडु: विदेशमंत्री सुषमास्‍वराज: अन्यमंत्रिणश्च श्रीवांगचुकेन सह मेलनं करिष्यन्ति। पक्षद्वयस्य परस्परसहयोगस्य विविधप्रकरणानां प्रगते: समीक्षा अपि सम्भाव्यते।
ब्रह्मपुत्रां लक्ष्यीकृत्य चैना। जलमाहर्तुं बृहत् 'टणल्' सज्जीकुर्वन्ति।
      नवदेहली> दोक् ला संघर्षस्स पुरतः ब्रह्मपुत्रानद्याः जलं चैनायाः षिड्जियाड् क्षेत्रे नेतुं प्रयत्नः प्रचलति। सहस्र कि. मी दूरेण टणल् निर्मीय जलं स्वीकर्तुमेव लक्ष्यम्। न्यूनेन व्ययेन चैनया टणल् निर्मीयते इति माध्यमेन संस्तूयते। यून्नान् क्षेत्रे ६०० कि.मी दूरेण टणलस्य निर्माणं चैनया आगस्त्मासे एव आरब्धा। नवीनेन पद्धत्या षिड्चियाड् क्षेत्रं कालिफोर्णिया सदृशं परिवर्तयति इति चैनया उक्तम्। ब्रह्मपुत्रानद्याः जलस्वीकरणं चैना जनानां पुरतः कदापि चर्चां अकरोत्। एषा प्रक्रिया बंग्लादेश् राष्ट्रं बाधते।
          चैना इण्डिया बंग्लादेश् इति त्रिषु राष्ट्रेषु प्रवहती बृहती नदी भवति ब्रह्मपुत्रा। चैनायां यार्लुड् टिसाड्पो इति बंग्लादेश् राष्ट्रे जमुना इति इण्डियायां ब्रह्मपुत्रा इति एषा नदी कथ्यते। बंग्लादेश् राष्ट्रे बंगाल् समुद्रे एषा पतति। विश्वस्य दीर्घतमासु नदीषु एका एषा।
निरुद्धानां मुद्रारूप्यकाणां गणना न परिसमाप्ता।
         नवदिल्ली > नरेन्द्रमोदिसर्वकारेण संवत्सरैकस्मात् पूर्वम् असाधूकृतानि यानि मुद्रारूप्यकाणि वित्तकोशान् प्रतिनिवर्तितानि, इतंःपर्यन्तं न गणनां पूर्तीकृतानीति भारतीय रिसर्व् बैङ्क् संस्थया उक्तम्। अतिनूतनसाङ्केतिकविद्यामुपयुज्य प्रवर्तमानेन मुद्रापत्रप्रमाणीकरणेन एव निरुद्धानि ५००, १००० रूप्यकाणां धनपत्राणां मूल्यनिर्णयः परिशोधना च क्रियते। परन्तु एषा प्रक्रिया इतःपर्यन्तं पूर्तीकृतेति रिसर्व बैङ्केनैव स्पष्टीकृतम्।
अग्निसायकानां निर्माणं अनुवर्तिष्यते - इरानस्य राष्ट्रपतिः रूहानि।
           दुबाय् > इरानस्य राष्ट्रपतिना 'हसन् रूहानि'ना उच्यते यत् अग्निसायकानां निर्माण-योजनायाः कदापि प्रतिनिवर्तिष्यते इति। इयं राष्ट्रान्तर-नियमानां लङ्धनं न अतः अग्निसायकानां निर्माणम् अनुवर्तितुमेव निश्चितः। अवश्यानुसारम् उपयोक्तुं विविध-गणस्थानि आयुधानि निर्मातुं प्रभवामः इति रूहानि दुबाय् देशे अवदत्।
यु एस् जनप्रतिनिधि-सभायाम् इरानम् उपरोद्धुमुद्दिश्य आयोजितायाः मतदान-प्रक्रियायाः पश्चात् एव इरानस्य प्रतिकरणम्।  सायक-निर्माणस्य कारणेन यु एस् राष्ट्रेण इरानस्य उपरि  स्वयमेव उपरोधितम् आसीत्। आणवायुध-वहनक्षमस्य सायकस्य निर्माणम् इरानस्य योजनायां नास्ति इति रूहानिना उक्तम्।

Monday, October 30, 2017

श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य श्रीप्रमुखस्वामीमहाराजद्वारस्य लोकार्पणविधिः
भारतवर्षः सन्तविभूतीनां जन्म-कर्मस्थानम्। विश्ववन्द्यप्रमुखस्वामिमहाराजो महाविभूतिस्वरूपः। तस्य जीवनं युगातीतगाथारूपम् आसीत्। यत्र तस्य नाम संयुज्यते तत् खलु दिव्यताभाजनं भवति नात्र शङ्कापङ्कलेशावकाशः। अधुनैव तादृशः प्रसङ्गः संस्कृतविश्वस्य गौरवप्रदः सञ्जातः। द्वादश-स्वयंभूज्योतिर्लिङ्गेष्वाद्यतमे सोमनाथमहादेवस्य प्रभासक्षेत्रे संस्थिते श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य प्राङ्गणे अत्यद्भूतं द्वारं बीएपीएसस्वामिनारायण-संस्थासौजन्येन विनिर्मापितम्। तस्य नाम श्रीप्रमुखस्वामिमहाराजद्वारम्। 51’ परिमितमुच्चैःस्थं 69’ परिमितं

Sunday, October 29, 2017

अण्डर् - १७ लोकचषकः - इङ्गलण्ट् दलस्य विजयभेरी। 
        कोल्कोत्ता > 'फिफा'याः ऊनसप्तदशवयस्कानां पादकन्दुकस्पर्धायाः अन्तिमे द्वन्द्वे इङ्लण्ट्दलस्य उज्वलविजयः। 'साल्ट् आन्ड लेक्' क्रीडाङ्गणे शनिवासरे संवृत्ते अन्तिमप्रतिद्वन्द्वे स्पेयिन् दलं द्वयं प्रति लक्ष्यकन्दुकपञ्चकेन पराजित्य आङ्गलेयकुमाराः किरीटं प्राप्तवनतः। अण्डर् १७ क्रीडायां तेषां प्रथमं किरीटं भवत्येतत्। 
    मत्सरस्य पूर्वार्धस्य अन्तिमं निमिषं यावत् स्पेयिन् दलं सेर्जियो गोमस् नामकेन क्रीडकद्वारा  एकपक्षीयेन लक्ष्यकन्दुकद्वयेन अग्रे आसीत्। इङ्ग्लण्ट क्रीडकस्य ब्रूस्टर् नामकस्य प्रतिलक्ष्यकन्दुकेन पूर्वार्धं समाप्तम्। इङ्ग्लण्ट् दलस्य  उत्साहभरितेन  प्रत्याक्रमणेनैव उत्तरार्धस्य प्रारम्भः। गोमसेन प्राप्तं लक्ष्यकन्दुकयुगलं निष्प्रभं कृत्वा पुनरपि चत्वारः लक्ष्यकन्दुकाश्च स्पेयिन् जाले पतिताः। गिब्स् वैट् [१], गूहि [१], फोडन् [२] इत्येते क्रीडकाः लक्ष्यकन्दुकान् प्राप्तवन्तः।
यन्त्रमनुष्याय सौदि अरेब्या-राष्ट्रे पौरत्वम् अदात्।
   रियादः> क्रित्रिम-बौद्धिक-शिल्प-विज्ञानम् उपयुज्य निर्मिताय सोफिया इति मानवविकार-विचारयुक्ताय यन्त्रमानवाय सौदि अरेब्य राष्ट्रेण पौरत्वं दत्तम्।  एषा यन्त्रविशेषा भाषणं कर्तुं प्रभवति तथापि स्वस्य विकार-विचारानपि प्रकाशयितुं शक्ता च भवति इयं सोफिया। विगते बुधवासरे एव पौरत्ववितरण प्रक्रिया आयोजिता। हान्सण् रोबोटिक् नामिका संस्थया एव सोफिया निर्मिता। 
  विश्वे प्रप्रथममेव यन्त्रमनुष्याय पौरत्व प्राप्ति:। अपूर्वमयेन अनेन अङ्गीकारेण स्वाभिमानेन विजृम्भते , पौरत्वं लब्धवती प्रथमयन्त्र विशेषः इति इतिहासप्रधानो भवति इति च यन्त्रकन्या सोफिया प्रत्युत्तरमदात् । मनुप्याणां कृते उत्तम जीवित-यापनाय अवश्यकानि कार्याणि दातुमेव स्वस्य निर्मित-बुद्धिः उपयोक्तुं उद्दिश्यते। लोकोयं श्रेष्ठस्थलवत् परिवर्तयितुं यावच्छक्यं तावत्  करिष्ये इति च सोफियया उक्तम्।

Saturday, October 28, 2017

नीतिपीठेषु जनानां विश्वासः नष्टो मा भूत् – राष्ट्रपतिः रामनाथ कोविन्दः।

         कोच्ची >नीति-न्याय-व्यवस्थायां जनानां विश्वासः अत्यधिकतया अस्ति। तस्य विश्वासस्य संरक्षणे दायित्वम् अभिभाषकनां एव भवति इति राष्ट्रपतिना रामनाथ कोविन्देन अभिभाषकाः प्रबोधिताः। एरणाकुलं जनपदे केरलीयोच्चन्यायालयस्य वज्रजयन्तीसमरोहस्य समापनाधिवेशनम् उद्घाटयन् भाषमाणः आसीत् महोदयः। सामान्यजनानां केवलं नीतिलाभेन किमपि प्रयोजनं नास्ति। जनानां कृते न्यायालयस्य आदेशाः मातृभाषायां लब्धुं व्यवस्थापि करणीया इत्यपि राष्ट्रपतिना प्रबोधिताः।