जापानस्य भूतपूर्वः प्रधानमन्त्री भुषुण्डिप्रयोगेण हतः।
टोक्यो> जापानस्य भूतपूर्वः प्रधानमन्त्री षिन्सो आबे वर्यः [६७] भुषुण्डिप्रयोगेण मारितः। पश्चिमनगरे नारानामके निर्वाचनप्रचारणस्य अंशतया भाषमाणे तस्य पश्चाद्भागतः आसीत् आक्रमणम्। व्योममार्गेण झटित्येव आतुरालयं प्रवेशितः अपि प्राणरक्षा न साधिता। घातक इति सन्दिह्यमानः तेट्सुया यामागामि नामकः घटनास्थानादेव भुषुण्डिना सह निगृहीतः।
जापाने अधिकाधिककालं प्रधानमन्त्रिपदमारूढवान् षिन्सो आबे राष्ट्रस्य आर्थिकमण्डलविकासाय निर्णायकं स्थानमावहत्। भारतस्य आत्ममित्रस्य दुरन्ते प्रधानमन्त्री नरेन्द्रमोदी अनुशोचनं प्राकाशयत्। आदरसूचकेन एकदिवसीयं दुःखाचरणं प्रख्यापितम्।





.jpg)
.jpg)
