OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, August 26, 2017

केरले संस्कृताध्यापकानां प्रतिषेधः।
कोच्ची > सेवनविषये अनुभूयमानासु अवगणनासु प्रतिषिध्य केरल संस्कृताध्यापक फेडरेषन् नामकस्य सङ्घटनस्य नेतृत्वे अद्य आकेरलम् सर्वेषु जनपदेषु उपशैक्षिकनिदेशककार्यालयस्य [Office of Deputy Director in Education] पुरतः अध्यापकैः प्रतिषेधान्दोलनं सञ्चाल्यते।
    सेवामण्डले अध्यापकैः विविधाः क्लेशाः अनुभूयन्ते। निश्चितसंख्यकानां छात्राणां न्यूनतया अध्यापकानां पदभ्रंशः स्थानभ्रंशः वा जायते। चतुर्भ्यः संवत्सरेभ्यः पूर्वम् अधोमण्डलस्तरे [LP विभागे] संस्कृतपठनमारब्धं तथापि पदवीनिर्णयः न कृतः।
    तथा च पार्ट्-टैम् अध्यापकानां कृते प्रोविडन्ट् फण्ट् नामिकायाः अर्थसञ्चयनव्यवस्थायाः आनुकूल्यः न लभते। एवं उच्चतरस्तरेषु विद्यालयेषु [HSS] संस्कृतशिक्षणस्य सन्दर्भः यथेच्छं न लभते।
    एवं नैकासु समस्यासु सम्मुखीकुर्वत्सु अध्यापकाः प्रतिषेधान्दोलनं प्रति नीयमानाः भवन्तीति फेडरेषन् संस्थायाः कार्यदर्शिप्रमुखः पि जि अजित्प्रसादः अवादीत्। अतः तादृशप्रतिषेधस्य प्रथमं सोपानमेव  डि डि ई कार्यालयंप्रति नीयमानः  धर्णासमरः इति तेनोक्तम्।
श्रावणोत्सवस्य आगमनं सूचयित्वा तृप्पूणित्तुरायां हस्ताघोष:।।
  
केरलीयानां देशीयोत्सवस्य श्रावणोत्सवस्य आगमनं सूचयित्वा तृप्पूणित्तुरायां हस्ताघोष: प्राचलत्। हस्तनक्षत्रादारभ्य श्रावणनक्षत्रपर्यन्तं दश दिनानि केरलीयानां कृते समृद्धे: सन्तोषस्य च दिनानि भवन्ति। तन्माहात्म्यं घोषयित्वा एव हस्ताघोष: प्रचाल्यते। राजशासनकालादारभ्य  तृप्पूणित्तुरायां हस्ताघोष: प्रचाल्यते एव। श्रावणोत्सवकाले प्रजानां कुशलमन्वेष्टुं राजा सपरिवारं नगरमार्गेण वाद्यवृन्दसमेत: प्रयाति स्म। राजभवनात् ( हिल् पालस्- कुन्नुम्मल् कोट्टारम्) प्रस्थिता सा यात्रा नगरम् परिक्रम्य राजभवने एव परिसमाप्तिं गच्छति स्म। तस्य स्मरणायामेव हस्ताघोषे विशिष्य एका घोषयात्रा अपि भवति। नगरसभाधिकारिण: घोषयात्राविषये अधुना नितरां जागरूका: एव। प्रादेशिकशासका:, नगरसभाधिकारिण:, समीपस्थविद्यालयच्छात्रा: अध्यापका:, कलाकारा: कलाकायिकसमितीनाम् प्रतिनिधय: विभिन्नसंस्था:, कुटुम्बश्रीप्रवर्तका: च घोषयात्रायाम् भागं वहन्ति। केरलस्य प्रशस्तानि कलारूपाणि (तेय्यम्,तिरा,पटयणी) विद्यालयच्छात्राणां पङ्क्तिप्रयाणम् ( मार्च् पास्ट्), आरक्षकाणां पङ्क्तिरूपेण पुर: प्रयाणम्, विभिन्नसमितीनां सामाजिकसमस्या: अवलम्ब्य सज्जीकृतानि निश्चलदृश्यानि (टाब्लो-  भारवाहकेषु मनुष्या: एव निश्चला: स्थित्वा), गजवीरा: वाद्यवृन्दश्च घोषयात्राया: सौन्दर्यं वर्धयन्ति। जाति- मत- वर्ग- लिङ्गभेदं विना हस्तघोषयात्रा जनमनांसि रञ्जयन्ती तृप्पूणित्तुराम् परिक्रम्य गच्छति। केरले श्रावणोत्सव: तृप्पूणित्तुरा हस्तघोषयात्रया एव समारब्धा भवति। 

Friday, August 25, 2017

निजीयता मौलिकाधिकारः - सर्वोच्चन्यायालयः।
नवदिल्ली > व्यक्तेः निजीयता स्वकीयाधिकार एवेति मुख्यन्यायाधीशस्य जे एस् केहारस्य अध्यक्षत्वे नवाङ्गैः वर्तमानेन शासनसंहितपीठेन विहितम्। निजीयता स्वकीयाधिकारः नास्तीति मतवादिनां केन्द्रसर्वकारस्य भाजपादलशासितानां कतिपयानां राज्यसर्वकाराणां च वादः न्यायपीठेन ऐककण्ठ्येन निरस्तः।
   परन्तु निजीयता परमाधिकारः नेति च आदिष्टम्। एषा नीतियुक्तैः नियन्त्रणैः विधेया भवति।
     अयं विधिः चरित्रपरमिति राजनैतिकप्रगत्भैः निरीक्षते। गोमांसाहारनिरोधनादारभ्य दयावधपर्यन्तं विविधेषु विषयेषु दूरव्यापकफलाय निमित्तं भविष्यतीति मन्यते।
नवीनद्विशतरूप्यकाणि भारतीयरिसर्व् वित्तकोशेन सपदि बहिरानीयन्ते।।
    मुम्बै>नवीनद्विशतरूप्यकाणि भारतीयरिसर्व् वित्तकोशेन (आर् बी ऐ)  सपदि बहिरानीयन्ते। केन्द्र धनकार्यमन्त्रालय: एतत्सम्बन्धीन् विशदांशान् प्रास्तावयत्। द्विशतरूप्यकाणाम् मूल्ययुतानि पञ्चाशत्मितानि रूप्यकाणि बहिरानीयन्ते। एवं स्थिते शतम, पञ्चशतम् रूप्यकाणि अधुना शीघ्रं न मुद्रणीयानि इति आर् बी ऐ निर्णय:। जूण् मासे द्विशतम् रूप्यकाणाम् मुद्रणम् आरब्धम्। पञ्चशतम्, सहस्रम् रूप्यकाणां निरोधात्परमं नवीनरूप्यकाणि बहिरानीतानि चेदपि परिवर्तनरूप्यकाणि न्यूनानि जातानि, यानि राष्ट्रे महत् कष्टमजनयन्। एतस्य परिहाराय नवीनद्विशतरूप्यकाणि बहिरानेतुं केन्द्रसर्वकार: निरणयत्। द्विशतस्य रूप्यकाणि बहिरागच्छन्ति तर्हि क्रयविक्रया: इतोपि सुगमा: भवेयुरिति विदग्धानाम् अभिप्राय:।
जङ्गमदूरवाणीद्वारा आह्वानव्यय: इतोपि न्यूनीक्रियते।।
     नवदिल्ली> राष्ट्रे डङ्गमदूरवाणीद्वारा आह्वानव्यय: पुनरपि न्यूनीभवेत्। एकस्मात् जालसङ्केतात् (नेट् वर्क्) अपरम् प्रति आह्वानावसरे स्वीक्रियमाण: अन्योन्यसम्पर्कोपयोगव्यय: ( इन्टर् कणक्ट् यूसेज् चार्ज्)( ऐ यू सी)  घट्टं घट्टमिति रीत्या अस्तं कर्तुमेव ट्राय् श्रम:। अधुना मिनिट्मितोपयोगाय चतुर्दशपैसा उपयोक्तृभ्य: ऐ यू सी नाम्ना जङ्गमदूरवाणीसेवनदातार: स्वायत्तीकुर्वन्ति। प्रथमघट्टे एतत् सप्त पैसा तत: पैसात्रयमिति रीत्या न्यूनीकर्तुमेव आलोच्यन्ते तै:। अग्रिमघट्टे व्यय: एव निष्कास्यते च। जियोसङ्केतस्य अधिनिवेश: एव नूतननिर्णयस्य पृष्ठत: इति सूचना अस्ति। जियो स्वोपभोक्तॄणां कृते कञ्चिदपि जालसङ्केतम् प्रति नि:शुल्कशब्दाह्वानसौकर्यमेव ददाति। एतेनैव ऐ यू सी न्यूनीकर्तुं ट्राय् निरणयत्। जियोप्रवेशात्पूर्वम् ऐडिया, वोडफोण्, एयर्टेल् इत्यादिसंस्था: ऐ यू सी नाम्ना कोटिरूप्यकाणि उपयोक्तृभ्य: स्वायत्तीकृतवन्त:। राष्ट्रस्य दूरवाणीभीम: एयर्टेल् गतवर्षे उपयोक्तृभ्य: ऐ यू सी नाम्ना नवसप्तत्युत्तरद्विशतोत्तरदशसहस्रं कोटिरूप्यकाणि स्वायत्तीकृतवन्त:। एतदेव न, ऐ यू सी व्यय: वर्धनीय: इति पक्ष: एयर्टेल् सङ्केतस्य। एतत् संसूच्य एतै: ट्राय् अध्यक्षम् प्रति पत्रम् प्रेषितं च। किन्तु एतत् कार्यम् अपरिगण्य पुनरपि व्ययं न्यूनीकर्तुमेव ट्राय् निर्णयं स्व्यकरोत्। एवं तर्हि शब्दाह्वानानां कृते  स्वीक्रियमाण: व्यय: झटिति न्यूनीभवेत्।
प्रकाशस्य कान्तिकस्वभावद्वारा स्मरणामुद्रणम्, मलयालीगवेषकस्य निरीक्षणम्।।
     कोषिक्कोट्> प्रकाशस्य समसमये वैद्युतस्वभाव: कान्तिकस्वभावश्च वर्तते। अत: प्रकाश: वैद्युतकान्तिकतरङ्ग: समजायते। जेयिंस् क्लार्क् माक्स्वेल् नाम विख्यातशास्त्रज्ञ: नवदशशतके एव प्रकाशस्य वैद्युतकान्तिकस्वभावं निरीक्षितवान्। प्रकाशस्य वैद्युतस्वभावं सफलीकर्तुं बहु प्रायोगिकोपयोगा: निरीक्षिता:। फोटो इलक्ट्रिक् वैद्युतिरङ्गस्य पुर: प्रयाणानि तत्र उदाहरणानि। नोण् लीनियर् ओप्टिक्स्इति शास्त्रशाखा अपरम् उदाहरणम्। किन्तु प्रकाशस्य कान्तिकस्वभावम् प्रायोगिकतया उपयुक्तानि निरीक्षणानि विरलानि।।
उन्नस्य साहाय्यदात्रो: रष्याचैनयो: कार्यं कष्टम्, द्वादशसंस्थानां कृते यु एस् निरोध:।।
वाषिङ्टण्> उत्तरकोरियाया: आणवपद्धतीन् प्रति साहाय्यदात्रो: रष्याचैनयो: यु एस् पक्षत: परोक्षप्रहर:।उत्तरकोरियया सहकृतानां द्वादश रष्या- चैना संस्थानां कृते यु एस् निरोध: स्थापित:। अमरीकाया: निर्णये चैनया अतृप्ति: सूचिता। निरुद्धसंस्थाभि: सह अमरीकाया: पौरा: संस्थाश्च सहकृत्य प्रवर्तितुं न शक्नुवन्ति। आगस्ट् पञ्चमे ऐक्यराष्ट्ररक्षासमित्या अङ्गीकृते उत्तरकोरिया-विरुद्धोपरोधप्रमेये पादंन्यस्य एव निर्णय: इति यु एस् पक्षस्य विशदीकरणम्। क्रयसम्पद्घटनायां त्रयस्त्रिंशत् प्रतिशतपर्यन्तं न्युनताजनकविधानेन उत्तरकोरियात: प्रायेण वस्तूनां क्रयाय प्रमेय: निरोध: स्थापित: च आसीत्।  उत्तरकोरियां सम्मर्दे स्थापयितुमेव यू एस् लक्ष्यमित्यपि यु एस् उक्तवत्।

Thursday, August 24, 2017

समानताधारितनागरिकसंहितायाः प्रवर्तनेन मुस्लिममहिलाः स्वतन्त्राः भविष्यति -  तसलीमानसरीन: 
नवदिल्ली > त्रितलाकप्रकरणे उच्चतमन्यायालस्य निर्णयमधिकृत्य बांग्लादेशस्य विवादास्पदलेखिका तसलीमानसरीन: प्रावोचत् यत् यावत् समानताधारितनागरिकसंहिता  Uniform Civil Code इत्यस्य प्रवर्तनं न भविष्यति तावत् मुस्लिममहिलाः स्वतन्त्राः न भविष्यन्ति । न्यायालयस्य निर्णयः मुस्लिमविधिमण्डस्योपरि आघातः भवितुं शक्यते परम् अनेन मुस्लिममहिलाभ्यः स्वतन्त्रता नैव मिलिष्यति। मुस्लिम लॉ बोर्ड इति मुस्लिमविधिमण्डलस्य आलोचनां विदधता तयोक्तं यत् केवलं धर्माधारेण विधिनिर्माणं नैवोपयुक्तम् । भारतसदृशे आधुनिके देशे धर्माधारितविधिप्रवर्तनं नैव भवितव्यम् । महिलाभ्यः पुरुषेभ्यश्च समानविधेः प्रवर्तनमेव समानता इति | आश्चर्यचयास्पदं वर्तते  यत् भारतसदृशे धर्मनिरपेक्षराष्ट्रे लोकतांत्रिकदेशे तलाकत्रयोच्चारणप्रथा इदानीम् अपि जीवति ।  नवदिल्लीतः
भारतीयसंस्कृतेः पूर्णावबोधाय संस्कृतभाषाज्ञानम् अनिवार्यम् - डॉ. धर्मराज् अटाट्ट्। 
कालटी > विश्वे$स्मिन् अतुल्या अनुपमा च संस्कृतिः भवति भारतीयसंस्कृतिः । तादृश्याः भारतीयसंस्कृतेः पूर्णावबोधाय संस्कृतभाषाज्ञानम् अत्यन्तापेक्षितमिति कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य उपकुलपतिना डो.धर्मराज् अटाट्ट्वर्येण उक्तम्। विश्वविद्यालयेन आयोजितं संस्कृतदिनाचरणम् उद्घाटनं कुर्वन् भाषमाणः आसीत् अटाट्ट् वर्यः।
     सम्मेलने$स्मिन् विविधमण्डलेषु प्रागल्भ्यं प्रकाशितवतां त्रयाणां पण्डितानां समादरणमपि संवृत्तम्। संस्कृतमण्डलात् विश्वविद्यालयस्य भूतपूर्वा   न्यायविभागाध्यक्षा डो. टि आर्यादेवी, कलाकारेभ्यः पाणिवादतिलकः डो. पि से नारायणन् नम्प्यारः, आयुर्वेदमण्डलात् प्रसिद्धः आयुर्वेदभिषग्वरः आवणप्परम्प् महेश्वरन् नम्पूतिरिप्पाट् च विश्वविद्यालयेन समाद्रियन्ते स्म। डो. पि सि मुरलीमाधवः मुख्यभाषणमकरोत्।

Wednesday, August 23, 2017

त्रितलाखं निरुध्यमानं विंशतितमं राष्ट्रं भारतम्। 
कोच्ची > निरस्यमानं वाक्यं युगपत् त्रिवारमुक्त्वा पत्नीम् उपेक्ष्यमाणः "मुत्तलाख्" [तलाखत्रयं] इति इस्लामधर्मसम्प्रदायः संवत्सरेभ्यः पूर्वमेव विश्वे प्रमुखेषु इस्लामराष्ट्रेषु अपि निरुद्धः अस्ति। तादृशं विंशतितमं राष्ट्रं भवति भारतम्।
    १९२६तमे वर्षे सैप्रस् राष्ट्रेणैव प्रथमतया तलाखत्रयं निरुद्धम्। तस्मिन् वर्षे एव तुर्की, १९५३तमे सिरिया, इराखः (१९५९), पाकिस्थानः (१९६१), इरान् (१९६७), बङ्लादेशः (१९७१), यू ए ई (२००५), खत्तर् (२००६) इत्यादिभिः प्रमुखैः मुस्लिम राष्ट्रैश्च एकपक्षीयः एतत्सम्प्रदायः निरुद्धः। एषः अंशः भूरिपक्षविधिप्रस्तावे प्रस्तौतः अस्ति।
मुत्तलाख् निरुद्धम् - शासनसंविधानस्य विरुद्धः इति सर्वोच्चन्यायालयः।
नव दिल्ली> मुत्तलाख् नाम माहम्मदीयानाम् दुराचारस्य निरोधनम् भारतस्य सर्वेच्चन्यायालयेन कृतम्। सर्वोच्चन्यायालयस्य शासनसंविधानस्य पञ्चाङ्गोत्पीठिकायाः न्यायाधिपाः स्वाभिमतानां चर्चां कृत्वा पञ्चसु त्रयाणां अभिमतानुसारेण आसीत् विधिप्रस्तावः। न्यायाधीशाः कुर्यन् जोसफः, यू यू ललित्, एफ् नरिमानः, अब्दुल्न सीर् मुख्य न्यायाधीशः केहारः  च पीठिकायां आसन्I दिनषष्ठस्य निरन्तर-न्यायविस्तरानन्तरमेव विधिप्रस्तावं कृतवन्तः।

           माहम्मदीय-स्त्रीणां आधारभूतव्यक्तिगताधिकाराः लिङ्गसमत्वं तासाम् आत्मगौरवं इत्येतान् उल्लंघ्य तिष्ठिति वा 'मुत्तलाख्' इति विचिन्त्य आसीत् शासन-संविधानपीठस्य निर्णयः।
पञ्चदशवर्षस्य वैवाहिकबन्धः  दूरवाणिद्वारा मुत्तलाख् उक्त्वा परित्यक्तः। पत्रद्वारा, त्वरितपत्रद्वारा च मुत्तलाख् कृताः। एवं स्त्रीत्वस्य परिगणना अस्मिन् आचरणे नास्ति इति उच्चन्यायालयेन निर्णीतम्।
द्वादशवादनं नादयित्वा "बिग् बेन्" मैनव्रतमारब्धा। 
  लण्डन् > सोमवासरे मध्याह्ने द्वादशवादने "" बिग् बेन्"" अन्तिमं घण्टानादम् अकरोत्। इत: परम् एतस्या: महाघण्टाया: नाद: श्रोतव्यश्चेत् चत्वारि वर्षाणि यावत् प्रतीक्षणीयानि। तन्मध्ये यदा कदापि घण्टा नादनीया चेत् जनकीयसभाया: दयया स्यात्। लण्डनजनताया: जीवनभाग: इयं घण्टा सार्धशतकबृहत् चरित्रे इदंप्रथमतया एव एतावत् दीर्घकालम् मौनं भजते। सप्तपञ्चाशदुत्तरशतवर्षाणाम् प्राचीनत्वमस्ति घण्टाया: तथा तस्या: आश्रयस्थानस्य एलिसबत् गोपुरस्य च। द्वयो: नवीकरणप्रवर्तनेभ्य: घण्टाम् मौनमकरोत्।
लडाक्के स्कौट्स् सेनाम् आद्रितुम् राष्ट्रपति: ले - स्थानकम् प्राप्तवान्।
जम्मु> लडाक्कस्य स्कौट्स् सेनायै तथा तदधीनेभ्य: पञ्च सेनाविभागेभ्य: च राष्ट्रपते: कलेर्स् ( वर्ण ) बहुमतिदानाय रामनाथकोविन्द: ले - स्थानकम् प्राप्तवान्। राष्ट्रपतिस्थानप्राप्तेरनन्तरं कोविन्देन देहल्या: बहि: कृता प्रथमा यात्रेयम्। सैन्यस्य परमोन्नतमेधावी च भवति राष्ट्रपति:।भारतसेनाया: परम्परागतरीतिमनुसृत्य सेनादलविन्यासप्रकटनमेव ले- मध्ये सज्जीकृतम्। भूसेनाया: उन्नतमेधावी बिपिनरावत्त: सैन्यस्य इतरोन्नताधिकारिण: कश्मीरस्य राज्यपति: एन् एन् वोर: मुख्यमन्त्रिणी मेहबूबा मुफ्ती एते प्रमुखा: कार्यक्रमे भागमवहन्। लडाक्कस्कौट्सैनिकानाम् धीरतां श्लाघयन् राष्ट्रपति: राष्ट्रसुरक्षायै लडाक्के विशिष्य सियाच्चिने प्रथमहिमशैलेषु सैनिकानां सेवनानि उदाहरत्।

Tuesday, August 22, 2017

लण्डन् नगरे महामनीषी बालः एकः, सोऽपि भारतीयः।
     लण्डन्> मनीषायां अनितरसाधारणाः कुशलाः  अनेके समर्पिताः लोकाय भारताम्बया। तस्मिन् बुद्धिमतां गणे राहुलनामकः द्वादशवर्षीयः बालोऽपि अधुना योजितः वर्तते। "चतुर्थी सरणिः" ( चानल् ४) नाम ब्रिटीष् शृङ्खलया चाल्यमाने "चल्डि जीनियस्" नामकस्य  वस्तुनिष्ठप्रदर्शनस्य प्रथमचक्रे भारतवंशज: राहुल: उज्वलविजयम् प्राप्तवान्। पृष्टानां चतुर्दशप्रश्नानां यथायोग्यम् प्रत्युत्तरं दत्वा राहुल: द्विषष्ट्युत्तरशतम् इति ऐ क्यू परिधिम् प्राप्तवान्।  एषा परिधि: तु आल्बर्ट् ऐन्स्टीनस्य, स्टीफन् होकिङ्ङस्य च परिधेरपेक्षया उन्नता एवेति गण्यते।।
विशाल् सिक्का इन्फोसिस् सी ई ओ स्थानं त्यक्तवान्।।
 नवदिल्ली> प्रमुखाया:  ऐ टी संस्थाया:  इन्फोसिस् संस्थाया: सी ई ओ तथा प्रबन्धकप्रमुख: च विशाल् सिक्क: स्थानं त्यक्तवान्।  तत्स्थाने प्रवीण रावु किञ्चित्कालं य़ावत् पदव्यां नियुक्त:। विशाल् सिक्कस्य त्यागपत्रं संस्थया स्वीकृतमिति संस्थाया: कार्यदर्शी ए जी एस् मणिकन्द: व्यक्तीकृतवान्। विशाल् सिक्क: इत: परं संस्थाया: कार्यनिर्वहणविभागस्य उपाध्यक्षपदम् अलङ्करिष्यति इत्यपि मणिकन्द: उक्तवान्।
राष्ट्रे २६% यावत् वृष्टेः न्यूनता।
नवदिल्ली > कालवर्षे अर्धांशे अतीते भारतस्य पादांशप्रदेशेषु वृष्टिः बहुन्यूना एव। ओगस्ट् १९ दिनाङ्कपर्यन्तं लब्धाः सूचनाः अनुसृत्य राष्ट्रस्य भूरिषु राज्येषु २६% यावत् साधारणताम् अपेक्ष्य  वृष्टिः न्यूना अभवत्। राष्ट्रे आहत्य प्रतिशतं पञ्च परिमितस्य न्यूनता जाता।
     मध्यप्रदेशः, केरलं, महाराष्ट्रा, कर्णाटकं, उत्तरप्रदेशस्य पश्चिम भागः इत्येतेषु प्रदेशेषु वृष्टिः न्यूनातिन्यूना आसीत्। बीहार् असम् गुजरात् राज्येषु अतिवृष्ट्या जलोपप्लवः दुरन्ताश्च अनुवर्तन्ते।
त्रिपरंपराणाम् आकाशकुटुंबं शतकं यावदुड्डीतवत् । 
अतिशुभ्रवर्णयुक्तः गणवेषः,अभिमान: यावत् औन्नत्येन तिष्ठत् शिरस्त्राणं , स्कन्धे चिह्नितौ लोलकौ, नेत्रयो:मनसि च विमानयात्राया:  आनंद: उत्साह: च।  आकाशयात्रायां भासिन्कुटुंबम्  एकं शताब्दं यापितवत्। आकाशयात्राया: षट्सप्ततिसहस्रोत्तराष्टलक्षघंटा:। सीमारहितानाम् आकाशयात्राणाम् स्वप्नम् दृष्ट्वा जीवितत्वेन परिगणय्य  सहकृतवत् भवति भारतीयं  भासिन्कुटुंबं,पितामहेन क्याप्टन्जयदेव भासिन् महोदयेन आरब्धं वैमानिकजीवितम् इदानीं परम्पराद्वयम् अतीत्य पौत्रेषु प्राप्तम्।

Monday, August 21, 2017

किङ्ङ् ऑफ् ग्लोरी - भीत्यां चैनदेशः , क्रीडारताः सैनिकाः कथं युद्धं करिष्यन्ति।
बैजिङ् > विश्वस्य वरिष्ठ शक्तिः इति स्वयं आहूतः चीनस्य सेना इदानीं प्रतिसन्धौ पतितम्।  भारतं विरुद्ध्य शीतयुद्धं प्रख्यापितम्। किन्तु युयुत्सवः सैनिकाः इदानीं समर्थकरदूरवाण्यां क्रीडोत्सुकाः भूत्वा तिष्ठन्तः सन्ति।  इदानीं चीनस्य शत्रू करदूरवाणीक्रीडा एवI सैनिकाः वस्तुतया किङ्ङ् ऑफ् ग्लोरी नाम प्रसिद्धा करदूरवाणिक्रीडा सैनिकानां मनसि आलस्यमुद्पाद्य तान् भृत्यवत् कुर्वन्तिI
राष्ट्रसुरक्षायै भीषा उद्पाद्यमानां क्रीडां नियन्त्रणविधेयां कर्तुं सैनिकाधिकारिणः प्रयतन्ते| विरामकालेषु क्रीडार्थं अनुज्ञा अस्ति। किन्तु सैनिकाः शिबिरे उषित्वा अनुस्यूतं क्रीडन्तीति चीनस्य एका दिनिकी पत्रिकया आक्षेपम् आरोपितम् I ४० घण्डा पर्यन्तम् अनुस्यूतक्रीडारताः अपि सैन्येषु सन्तीति पत्रिकया व्यक्तीक्रियते।
विमान-समानो अतिलघु वस्तु देहली विमान निलयः स्थम्भितः I
नव दिल्ली > इन्दिरागान्धी अन्ताराष्ट्र-विमान-निलयस्य समीपे अतिलघु विमानरुपं अपशयत् इति आवेदितःI अनेन कारणेन पिधानं कृतस्य विमाननिलयस्य  धावनमार्गः उद्घाटितःI स्तगितः विमानगतागतः पुनः आरम्भः कृतः। सायंकाले एव ड्रोणस्य समानं वस्तु दृष्टम् इति एयर् एष्यायाः वैमानिकेन आवेदितम्। सायं सप्तवादने एव घटना। विमानावतारणसमये तृतीये प्रवेशद्वारे एव तद्वस्तु दृष्टिपदमागतम् इत्यासीत् वैमानिकस्य आवेदनम्। घटनायाः अनन्तरं विमानानां पन्थानः  व्यत्ययं कारितम्। तदनन्तरं कर्कश-निरीक्षणानन्तरं अष्टवादने गतागतं पुनरारम्भं कृतम्। घटनानुबन्धतया  एयर् इन्ट्याया द्वौ विमानौ लख्नौ तथा अहम्मदाबादं प्रति मार्गव्यत्ययं कृतौ।
प्रतिदिनं द्विशताधिक एकसहस्रं विमान सेवाः सन्ति अस्मिन् निलये। प्रतिघण्डां ७० विमानानि डयन्ते अत्र। त्रीणी धावनपन्थानः च अत्र सन्ति ।

Sunday, August 20, 2017

डोक्लाम्; भारताय जापानस्य साहाय्यहस्त:।
   टोक्यो>चैनया सह विवादे वर्तमाने डोक्लामे भारतस्य निर्णयाय आलम्बनत्वेन जपान् देशस्य हस्ताश्रयः। वर्तमानस्थितौ किमपि राज्यम् बलप्रयोगेन सैन्यं अपसारयितुं नार्हतीति जपान् उदघोषयत्। सिकिमस्य सीमासमीपे भूटानप्रदेशे वीथीनिर्माणाय कृतस्य चीनादेशस्य प्रयत्नम् उपरुद्ध्य स्वीकृतस्य भारतस्य उपरोधम् आनुकूल्य एव जपानस्य इदं प्रतिकरणम्।  जापानस्य नयतन्त्रज्ञ: केन्जी हिरामाट्सु: एव विषये तेषां निर्णयं न्यवेदयत्। भूटानस्य चैनाया: मध्ये तर्ककेन्द्रितप्रदेश: डोक्लाम्। अत्र भारतम् सन्धिनियमान् अनुसृत्य प्रवर्तते इति स्वकीयज्ञानमपि अस्तीति केन्जी हिरामाट्सु: अवदत्।⁠⁠⁠⁠

Saturday, August 19, 2017

क्रीडायै स्थानं नास्ति; प्रधानमन्त्रिणे पत्रमलिखत् द्वितीयकक्ष्याच्छात्रा।
नवदिल्ली> सम्मर्दपूर्णनगरे देहल्यां नव्या सिंह: नामिका बालिका शैशवात् प्रभृति इष्यमाणं स्थानकम् भवति क्रीडाङ्कणम्, यत्र सा बहुधा क्रीडति स्म। किन्तु एकदिनाभ्यन्तरे स्थानमेतत् नष्टम् भवति इति विचार: प्रधानमन्त्रिणे पत्रम् प्रेषयितुम् एतस्या: द्वितीयकक्ष्याच्छात्राया: प्रेरणादायक: अभवत्। देहल्यां रोहिणीमेखलायां नव्या वसति। नव्यामिव प्रदेशवासिनां तथा बालानां च आश्वासदायक: आसीत् हरिताभकेन्द्रं तत् क्रीडाङ्कणम्। किन्तु अकस्मात् एकस्मिन् दिने निरावृतं व्यायामकेन्द्रमिति क्रीडाङ्कणस्य कश्चन भाग: उपयुक्त:।बालानां क्रीडाङ्कणम्, विश्रमस्थानं च व्यायामकेन्द्रेण अपहृतम्। परन्तु सभ्यस्थानस्य (ओडिट्टोरियम्) निर्माणाय क्रीडाङ्कणस्य विशालभागश्च देहली विकसनसमित्या अधीनमकरोत्। तत्पश्चादेव प्रधानमन्त्रिणे पत्रं लेखितुं नव्यया निर्णीतम्। क्रीडाङ्कणे निर्माणप्रवर्तनेषु आरब्धेषु समीपवासिन: प्रतिषेधै: रङ्गप्रवेशं कृतवन्त: चेदपि नगरसभया तत् अवगणितम्। तदेव न, समीपवासिनां शिशूनां च क्रीडाङ्कणम् प्रति प्रवेशोपि निषिद्ध:।।

Friday, August 18, 2017

स्थलसेनाध्यक्षः बिपिन् रावतः लडाक् सम्दृश्यते।
नवदिल्ली> दो क्लों घटनायां भारत-चीनयोः मध्ये तर्कः रूक्षः इत्यस्मिन् पृष्टभूमौ स्थलसेनाध्यक्षःबिपिन् रावत्तः लडाक् देशं संद्रष्टुं सज्जः भवति।  सीमा याः इदानीन्तन गति-विगतयः अधिकृत्य सुज्ञानाय भवति ၊ त्रिदिक्सस्य सन्दर्शानाय भवति गमनम्। ज्येष्ठ सैनिकैः सह मिथभाषणं च करिष्यति स: । गतदिने  पान् गोग् सीमायाम् अतिक्राम्य प्रविष्टुं चीनेन कृतश्रमः भारतसैनिकैः विफलः कृतः। तदनन्तरं प्रवृत्तः पाषाणविक्षेपः रावतस्य सन्दर्शनस्य कारणं अभवत्।

Thursday, August 17, 2017

राष्ट्रिय गीतम् इतः परं अष्टवादने भविष्यति। नगरमिदं निश्चलं स्थास्यति।
हैदराबादः> प्रतिदिनं प्रातः अष्टवादने राष्ट्रियगीतश्रवणे आबालवृद्धं जनाः सादरं उत्तिष्ठन्ति। ख्यातिरियं स्ववशं कारयितुं प्रयत्नं करोति तेलड्काना राज्यस्य करींनगर जनपदे जम्मीकुण्डेति लघुनगरम्। गतस्वतन्त्रतादिनादारभ्य प्रतिदिनं प्रातः अष्टवादने राष्ट्रिय गीतं श्रुत्वा नगरवासिनः सर्वे सादरं उत्थास्यन्ति इत्याशयः अत्र कार्यान्वितः। जम्मिकुण्डा आरक्षक-वृत्ताधिकारी पी प्रशान्त रेट्टी अस्ति पद्धत्याः अस्याः बुद्धिकेन्द्रम्। प्रतिदिनं प्रातः अष्टवादने राष्ट्रियगीतं भविष्यति।  तदानीं सर्वे सादरं उत्थास्यन्ति। इच्छा चेत् सार्धं आलपिष्यन्ति । एषा भवति पद्धतिः। वाहनयात्रिकाः वाहनं निश्चलं कारयन्ति। विद्यार्थिनः तत्रैव निश्चलं स्थास्यन्ति। अन्ये कर्मकाराः कर्मसु द्विपञ्चाशत् क्षणस्य विरामं दत्वा राष्ट्रियगीतं आदरं करिष्यन्ति।
लडाक् प्रदेशे चीनस्य अधिनिवेशः - अज्ञात्वा चीनस्य विदेशकार्य-मन्त्रालयः।
सिक्किं> लडाक् प्रदेशस्थे पान् गोङ् सरोवरस्य समीपे चीनस्य सैन्यस्य अधिनिवेशमधिकृत्य किमपि न ज्ञायते इति चीनराष्ट्रस्य विदेश-कार्य-मन्त्रलयस्य वक्त्रा हु चुनैङ्ङेन उक्तम्। भारत चीनयो: सीमायां शान्तिः भवतु इति भवति चीनस्य अभिलाषः इत्यपि तेन उक्तम्। भारतस्य स्वतन्त्रतादिने प्रातः षट्वादन-नववादनयोः मध्ये द्विवारम् अतिक्रम्य अन्तःप्रवेष्टुं प्रयतितवन्तः। लिबरेषन् आर्मि सैनिकाः एव एवं उद्यताः फिंगर् चत्वारि फिंगर् पञ्च नाम प्रदेशेयोः आसीत् आक्रमःI अनन्तरं भारतसैनिकाः मनुष्यभित्तिं निर्मीय प्रतिरोधः कृताः । तदनन्तरं मिथः सञ्जाते पाषाण प्रहारे उभयोः पक्षयोः सैनिकाः व्रणिताः च। इदानीं सिक्किं देक्ला संघर्षाः आरभ्य मासद्वयम् अतीतम्।
धनपत्रनिरोधनं जि. एस्. टि. इत्येतच्च प्रशंसयन् राष्ट्रपतिः।
नवदेहली>राष्ट्रपतित्वेन स्वस्य प्रथमस्वातन्त्र्यदिनप्रभाषणे रामनाथकोविन्द: धनपत्रनिरोधनं जि. एस् . टि इत्येतच्च प्रशंसितवान् । सप्ततितमे स्वतन्त्रतादिने सः राष्ट्रम् अभिसंबोध्य स्वच्छभारतपद्धतिं च श्लाघित्वा अभाषत। असहिष्णुताम् आक्रमणं च विरुद्ध्य गतवर्षे स्वतन्त्रतादिने भूतपूर्वराष्ट्रपतेः प्रणब् मुखर्जिमहाशयस्य भाषणं वार्तैवासीत् ।

सप्ततितमस्वतन्त्रतादिनाच रणवेलायां राष्ट्रस्य दरिद्राणां ग्रामाणां च विकासः इति लक्ष्यमेव स्वतन्त्रभारतम् इत्याशयप्रेरकम् अभवत्I राष्ट्रस्वतन्त्रतायै स्वजीवदातृ़न् प्रति वयं सदा ऋणीभूता: स्म:I सर्वकारेण स्वच्छभारतम् इति पद्धतिराविष्कृतापि परिसरशुचीकरणम्  अस्माकं प्रत्येकं जनानामुत्तरदायित्वमेव၊ सर्वकार: केवलं नियमनिर्माणं प्रबलीकरणं चैव साधयति। तन्नियमपालनं प्रत्येकं पौरस्यैव। सङ्कीर्णकरसंविधानपरिष्करणेनैव सर्वकार: जि. एस्. टि. इति प्रायोगीकृतवान्၊ जि. एस्. टि. अस्माकंदैनन्दिनजीवनस्य अंशीकरणं सर्वेषामस्माकम् उत्तरदायित्वमेव၊ नियतरूपेण  करनिक्षेपेण राष्ट्रनिर्माणे भागभाक्वं सर्वैः साध्यते၊

भ्रष्टाचारम्  अविहितधनं च विरुद्ध्य समरे सर्वेषां सहकार: अनिवार्यः एव। सत्ययुक्तस्य एकस्य समाजस्य सृजनस्य यत्नान् प्रबलीकर्तुम् धनपत्रनिरोध: उपकारकः अभवत्၊ अद्य भारतस्य लोकाङ्गीकारे धनपत्रनिरोधः एकं कारणमेव၊ सर्वकारपद्धतिगुणफलानि समाजे सर्वैः प्राप्तानीति निश्चेतुं सर्वे वयम् उत्तरदायिनः एवI २०२० तमे भविष्यमाणे टोक्यो ओलिंपिक्स् मध्ये लोकानां पुरतः अस्माकं शक्ति प्रकटनाय अन्यः अवसरः भवति। नूतनभारतस्य निर्माणम् अस्माकं सर्वेर्षां लक्ष्यमेव၊ तत्र दारिद्रयमिति एका अवस्था न स्यादित्यपि सः स्वभाषणे बोधयामास၊