वङ्गदेशे इतः परं मुख्यमन्त्रिणी कुलाधिपतिः।
OUR YouTube Channel 1. SampratiVartah |
marquee
Tuesday, June 14, 2022
केरले सर्वकारसेवकानां कृते 'मेडिसेप्' जूलाय् मासे आरभते।
कोट्टयं> केरलराज्यस्य सर्वकारसेवकानां सेवानिवृत्तानां च कृते मेडिसेप् नामिका स्वास्थ्यक्षेमपरियोजना जूलाय् प्रथमदिनाङ्कतः आरभ्यते इति राज्यवित्तमन्त्री के एम् बालगोपालः निवेदितवान्। Kerala Gazetted Officers' Association नामकसंघटनस्य राज्यस्तरीयसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।प्रतिसंवत्सरं लक्षत्रयरूप्यकाणां साहाय्यं लभते।
Monday, June 13, 2022
प्राचीनकालात् आरभ्य वैज्ञानिकक्षेत्रे भारतम् अद्वितीयम्।
नवदिल्ल्यां कुत्तब् मिनारस्य समीपे विद्यमानः अयस्तंभः भारतीयानां वैज्ञानिकक्षमतायाः निदर्शनस्त्वेन विराजते। राज्ञः चन्त्रगुप्तमौर्यस्य शसनकाले निर्मितः भवति अयम् विष्णु स्तंभः इति कालगणना वैज्ञानिकाः वदन्ति। षट्शताधिक-एकसहस्रं संवत्सरात् पूर्वं निर्मितः अयं अयस्तंभः अधुनापि अयःपकङ्कं विना नाशरहितो भूत्वा तिष्ठन् अस्ति। आविश्वं वैज्ञानिकानां मनसि अत्भुतं जनयन् अस्ति इयं विशेषता। पौराणिक-भारतीयेषु वैज्ञानिकप्रभावः कियन्मात्रमस्ति इत्यस्य निदर्शनत्वेन विराजते अयं विष्णुस्तंभः।
Sunday, June 12, 2022
'एष्यन् चषकपादकन्दुकक्रीडा' - भारताय विजयः।
कोल्कोत्ता> एष्यन् चषकपादकन्दुकक्रीडायाः योग्यतापादस्पर्धायाम् अफ्गानिस्थानं विरुध्य भारतस्य विजयः। 'डि'नामके संघे अफ्गानिस्थानं २-१ इति लक्ष्यकन्दुकक्रमेण भारतं विजयं प्राप। स्थगितसमीकरणसमये सहल् अब्दुल् समद् इत्यनेन प्राप्तेन लक्ष्यकन्दुकेनैव भारतं विजयपदं प्राप्तवत्।
पूर्वं ८६तमे निमिषे भारतनायकः सुनिल् छेत्री प्रथमतया भारतमग्रं प्राप्तवान्। किन्तु निमिषद्वये सुबायिर् अमिरि इत्यनेन अफ्खानक्रीडकेण समावस्था सम्प्राप्ता। अनन्तरं नष्टपरिहारकालस्य आद्यनिमिषे एव सहलस्य लक्ष्यकन्दुकेन भारतस्य विजयप्राप्तिरभवत्।
भारतस्य द्वितीयो विजय एवायम्। प्रथमे द्वन्द्वे कम्बोडियां अभिभूतवत्। अस्मिन् चक्रे भारतस्य अन्तिमक्रीडा १४तमे दिनाङ्के होङ्कोङ्ङं प्रति भविष्यति।
Saturday, June 11, 2022
राज्यसभानिर्वाचनं - महाराष्ट्रे हरियाने च मतगणना स्थगिता।
नवदिल्ली> मतदानवेलायां निर्वाचनानुशीलनानि लङ्घितानि इत्यारोपेण महाराष्ट्रे हरियाने च मतगणना स्थगिता। अद्य उषसि आगतं निर्वाचनायोगस्य औद्योगिकफलप्रख्यापनमनुसृत्य हरियानस्य स्थानद्वयमपि भाजपादलेन प्राप्तम्। विजयप्रतिक्षामवलम्बितः कोण्ग्रस् स्थानाशी अजयमाक्कः पराजितः। महाराष्ट्रस्य औद्योगिकं फलं नागतम्।
राज्यसभानिर्वाचनं सम्पन्नम्।
नवदिल्ली> चतुर्षु राज्येषु राज्यसभायाः १६ स्थानानि प्रति सम्पन्नं निर्वाचनं घटनावैविध्येन समाप्तम्। महाराष्ट्रं - ६, राजस्थानं -४, हरियानं -२, कर्णाटकं - ४ इत्येवं १६ स्थानेभ्यः आसीत् निर्वाचनम्।
राजस्थानस्य त्रीणि स्थानानि कोण्ग्रस् दलेन एकं स्थानं भा ज पा दलेन च प्राप्तानि। कर्णाटके त्रिषु स्थानेषु भा ज पा दलेन प्राप्तेषु एकं स्थानं कोण्ग्रस् दलेन प्राप्तम्। वित्तमन्त्रिणी निर्मलासीतारामः कर्णाटकतः विजितेषु प्रमुखा भवति।
बहिराकाशदौत्येषु भारतीय बहिराकाश - अनुसन्धान-संस्थया साकम् अन्याः निजीयसंस्थाः च। इन्स्पेस् आस्थानमन्दिरम् उद्घाटितम्।
अहम्मदाबाद्>विश्वस्मिन् बहिराकाशविपण्यां भारतस्य योगदानं संवर्धनीयम्। तदर्थं निजीय मण्डलाय नूतनाशयाय च वेदिकां दातव्यमस्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम्। इन्स्पेस् आस्थानमन्दिरं उद्घाटनं कृत्वा भाषमाणः आसीत् सः। बहिराकाशदौत्येषु भागं स्वीकर्तुं निजीयसंस्थाभ्यः सौकर्यं प्रददातुमेव इन्स्पेस् इत्यस्य प्रारम्भः कृतः।तद्वारा राष्ट्रे विविध निजीयसंस्थायाः ऐ एस् आर् ओ संस्थया सह मिलित्वा प्रवर्तयितुं अवसरो लभते। बहिराकाशानुसन्धानदौत्येषु तथा नूतनसूचनप्रौद्योगिकविद्याविकसन प्रवर्तनेषु च ऐ एस् आर् ओ संस्थायाः सौकर्याणि अपि उपयोक्तुं इन्स्पेस् साहाय्यं प्रदास्यति। बहिराकाशमण्डले निजीयनिक्षेपाणां तथा नूतनाशयानां च प्रोत्साहनार्थं भारतसर्वकारेण गुजरात् राज्ये स्थापितं भवति इन्स्पेस्।
Friday, June 10, 2022
मिताली राजः निवृत्ता।
नवदिल्ली> महिलाक्रिक्कट्दलाय भासमानं मुखं सङ्केतं च दत्तवती भारतस्य महिलाक्रिक्कट्दलस्य नायिका मिताली राजः क्रीडायाः सर्वेभ्यः प्रकारेभ्यः निवर्तते इति ट्विट्टर् द्वारा प्रख्यापितवती।
१९९९ तमे वर्षे स्वस्याः १६ तमे वयसि अयर्लान्डं विरुध्य एकदिनक्रीडया अन्तर्राष्ट्रीयक्रिक्कट्क्रीडाक्षेत्रे प्रारम्भं कृतवती मिताली २३ संवत्सराणि क्रीडाङ्कणेषु अभिमानार्हाभिः क्रीडाभिः प्रशोभितवती। एकदिनेषु निकषास्पर्धासु च भारतदलस्य नायिका आसीत्। १०,८६८ धावनाङ्कैः महिलाक्रिक्कट्क्रीडासु अधिकतमधावनाङ्कप्राप्ता इति श्रेष्ठपदं च प्राप्तवती। वनिताएकदिनस्पर्धासु अधिकतमधावनाङ्कार्हा च [७८०५] अभवत्।
Thursday, June 9, 2022
राष्ट्रे कोविड् प्रकरणानि वर्धन्ते। विमानेषु मुखावरणम् अनिवार्यम् ।
भारते प्रतिदिनकोविड्बाधा ७००० अतीता।
नवदिल्ली> राष्ट्रे ९३ दिनानामनन्तरं प्रतिदिनकोविड्व्यापनं ह्यः ७००० अतीतम्। बुधवासरे प्रभाते समाप्ते २४ होराकाले ५२३३ जनाः नूतनतया कोविड्बाधिताः अभवन्। १. ६७ प्रतिशतमेव प्रतिदिनरोगस्थिरीकरणमानम्।
अनेन राष्ट्रे सम्पूर्णे आहत्य कोविड्बाधिताः ४,३१,९०,२८२ जाताः। इदानीं २८,८५७ रोगिणः परिचर्यायां वर्तन्ते।गतदिने सप्त जनाः मृताः। आहत्य ५,२४,१५ जनाः मृत्युवशं प्राप्ताः। आराष्ट्रं १९४. ४३ कोटि प्रत्यौषधमात्राः वितरीताः।
Wednesday, June 8, 2022
केरले कोविड्प्रकरणानि वर्धन्ते।
अनन्तपुरी> केरलराज्ये कोविड्प्रकरणानि अनुदिनं वर्धन्ते। ह्यः २२३१ जनाः रोगबाधिताः अभवन्। गतसाप्ताहिके प्रतिदिनसंख्या सहस्रातीता अनुवर्तमाना आसीत्। एरणाकुलं, तिरुवनन्तपुरं, कोट्टयं, तृश्शिवपेरूर् जनपदेषु एव नूतनाः कोविड्बाधिताः अधिकतया दृश्यन्ते।
रोगः तीव्रस्वभावरूपः नास्तीति स्वास्थ्यविभागेन निगदितम्। किन्तु मुखावरक-हस्तप्रक्षालनादिकानि कोविडनुशीलनानि पालनीयानीति निर्दिष्टमस्ति।
अष्टादश रोगिणः अर्बुदरोगात् मुक्तिं प्राप्तवन्तः । परीक्षणौषधम् फलप्रदम्।
Tuesday, June 7, 2022
भारतेन पुनरपि अग्नि -४ नाम क्षेपणास्त्रं विजयरूपेण परीक्षितम्।
भुवनेश्वरम्> आणवायुधवाहक-क्षमतायुक्तम् अग्नि ४ नाम दीर्घदूरक्षेपणास्त्रं भारतेन विजयरूपेण परीक्षितम्। ओडिषायाः तीरे डो. अब्दुल् कलाम् द्वीपस्थे इन्टग्रेड् टेस्ट् रेञ्ज् इति स्थानात् सायङ्काले सार्धसप्त वादने आसीत् विक्षेपणम्। स्ट्राट्टजिक् फोर् कमाण्ड् इत्यस्य नेतृत्वे समायोजितस्य नित्यपरिशीलनस्य भागतया एव परीक्षणमिदं समायोजितम्। परीक्षणं सम्पूर्णतया विजयप्रदमिति प्रतिरोधमन्त्रालयेन आवेदितम्।
'फ्रञ्च् ओपण् टेन्निस्' - पुरुषकिरीटं राफेल नदालेन प्राप्तं; महिलाकिरीटं इगा स्वियाटेक् इत्यनया च।
पारीस्> फ्रञ्च् ओपण् नामके टेन्निस् खेलने पुरुषाणाम् एकलस्पर्धायाः अन्तिमचक्रे स्पेयिन् देशीयः रफेल् नडालः किरीटं प्राप्तवान्। नोर्वे राष्ट्रस्य कास्पर् रूड् इत्येनं [६-३, ६-३, ६-०] इति क्रमेण नडालः अभिभूतवान्। तस्य १४तमं फ्रञ्च् ओपण् किरीटं भवत्येतत्। २२ तमः 'ग्रान्ड् स्लां' लाभश्च।
महिलानां फ्रञ्च् ओपण् प्रतियोगितायां पोलण्ट् देशीया इगा स्विया टेक् नामिका अमेरिक्कायाः कोको गाफ् इत्येनां [६-१, ६-३] इति क्रमेण पराजितवती। २१ वयस्का इगा द्वितीयवारमेव फ्रञ्च् ओपण् विजितवती।
Sunday, June 5, 2022
काश्मीरि पण्डितविभागानां कृते सविशेषसुरक्षा दास्यते।
नवदिल्ली> जम्मु-काश्मीरे 'पण्डित'नामकविभागे अन्तर्भूताः जनाः निरन्तरं भीकराक्रमणविधेयाः भवन्ति इत्यतः तेषां कृते सविशेषसुरक्षां दास्यति। गृहमन्त्रिणः अमितषाहस्य नेतृत्वे सम्पन्ने उच्चस्तरीयोपवेशने आसीदयं निर्णयः। भीकराक्रमणं प्रतिरोद्धुं कर्कशप्रक्रमान् अवलम्बितुमपि निर्णीतम्।
अमर्नाथतीर्थाटनं प्रति भीकराक्रमणसाध्यता वर्तते इत्यतः सुरक्षाशक्तीकरणाय गुप्तचरविभागविन्यासाय अपि निर्णयः कृतः। उपवेशने राष्ट्रियसुरक्षाउपदेष्टा अजित् डोवलः, स्थलसेनाधिकारी जन. मनोज् पाण्डे, जम्मु-काश्मीरस्य लफ्टनन्ट् राज्यपालः मनोज सिंहः इत्यादयः भागं स्वीकृतवन्तः।
Saturday, June 4, 2022
विधानसभा उपनिर्वाचनानि - उत्तरखण्डे मुख्यमन्त्री विजयीभूतः।
अन्यस्मिन् स्थानद्वये वर्तितदलश्च।
नवदिल्ली> राष्ट्रे गते ३१तमे दिनाङ्के सम्पन्नानां त्रयाणां विधानसभाउपनिर्नाचनानां मतगणनाफलं प्रख्यापितम्। उत्तराखण्डस्य चम्पावत विधानसभामण्डले सम्पन्ने उपनिर्वाचने मुख्यमन्त्री पुष्करसिंहधामी विजयीभूतः।
कृतेषु मतदानेषु ९२.९४% संलभ्य एव सः मुख्यमन्त्रिपदं दृढीकृतवान्। मुख्यप्रतियोगी कोण्ग्रस्दलस्य निर्मला गह्तोरी इत्येनमपेक्ष्य ५५,००० मतदानानि धामिने अधिकतया लब्धानि। विगते विधानसभानिर्वाचने भा ज पी दलाय शासनाधिकारः पुनर्लब्धोSपि खातिमामण्दडले स्पर्धितः भाजपादलस्य मुख्यमन्त्रिस्थानाशी धामी पराजितः आसन्। किन्तु धामी एव मुख्यमन्त्रिरूपेण दलेन नियुक्तः। ततः मुख्यमन्त्रिणः स्पर्धायै भाजपादलप्रतिनिधी विधानसभाङ्गः कैलाष चन्द्र गह्तोरी स्वस्थानं परित्यक्तवान्। तत्रैव धामी उज्वलविजयं प्राप्तवान्।
अन्ययोः मण्डलयोः वर्तितस्य राजनैतिकदलस्य प्रतिनिधिः एव विजितः। ओडीषायां ब्रजराजनगरविधानसभामण्डले प्रशासनदलस्य बिजु जनता दलस्य अलक मोहन्ती विजयीभूतः। तथा च केरले तृक्काक्कर मण्डले कोण्ग्रस् दलस्य स्थानाशिनी उमातोमसः उज्वलविजयेन स्वदलस्य मण्डलं सुरक्षितमकरोत्।
हिमालयस्य उपत्यकायां संभूता पुष्पवाटिका यात्रिकाणां कृते उद्घाटिता।
Friday, June 3, 2022
तुर्कीराष्ट्रं नूतनं नाम स्वीकृतम्; संयुक्तराष्ट्रसंख्येन अङ्गीकृतम्।
Thursday, June 2, 2022
Wednesday, June 1, 2022
केरलराज्ये कोविड्-प्रकरणेषु महती वृद्धिः;
तिरुवनन्तपुरम्> अद्यत्वे ११६१ जनाः अस्मिन् रोगेण पीडिताः सन्ति। एर्णाकुलम् जनपदे भवन्ति अधिके रोगिणः। प्रायः ३६५ जनाः अद्य रोगबाधिताः सन्ति। द्वौ मृतौ। अन्येषु जनपदेषु अपि कोविड् प्रकरणाः वर्धमानाः सन्ति। सम्प्रति देशे सर्वत्र १७८८३ कोविड्-रोगिणः चिकित्सां स्वीकुर्वन्ति। रोगबाघितेषु केवलं ०.०४% एव चिकित्सा स्वीक्रियन्ते। विगत२४ होरासु २१३४ जनाः स्वस्थतां प्राप्तवन्तः। एतेन रोगान्मुक्तानां संख्या ४२६१५५७४ अभवत्। अनेन रोगमुक्तिमानः प्रतिशतं ९८.७४ भवति। विगत २४ होरासु २३३८ नूतनाः प्रकरणानि प्राप्तानि। दैनिकं रोगव्यापनमानः प्रतिशतं ०.६४ इति भवति। साप्ताहिकं रोगव्यापनमानं प्रतिशतं ०.६१ इत्यपि भवति। केन्द्रसर्वकारस्य गणनानुसारम् इतः पर्यन्तं ८५.०४ कोटिः कोविड् परीक्षाः कृताः, विगत २४ होरासु ३६३८८३ परीक्षणानि कृतानि च।
Tuesday, May 31, 2022
अतिवृष्टिदुष्प्रभावेन असमे चत्वारः अपि मृताः।
असमदेशे विगत-चतुर्विंशतिहोरासु चत्वारः अपि मृताः अभवन्। नवगांव एवं चाचर प्रदेशयोः च चत्वारः मृताः। एतावता जलप्रलयेन ३६ जनाः मृताः इति असमराज्यस्य दुरन्तनिवारणायोगेन निगदितम्। नवगांवमण्डलं जलप्रलयेन सर्वाधिकं क्षतिग्रस्तम् आसीत्। नवगाव मण्डले ३.४६ लक्षं जनाः प्रलयबाधिताः सन्ति।
असमस्य अनेकेषु भागेषु अद्यापि पृथक् वृष्टिः प्रचलति। राज्ये ५०० संख्याधिकानि दुरिताश्वासशिबिराणि स्थापितानि सन्ति। सम्प्रति शिबिरेषु प्रायः एकलक्षं जनाः निवसन्ति।
Saturday, May 28, 2022
उग्रप्रहरक्षमतायुक्तानां सैनिकोपकरणानां विदेशविक्रयणाय अनुमतिं दातुं जप्पान् सर्वकारः निरनोत्।
नवदिल्ली> भारतसहितं १२ देशेभ्यः क्षेपणास्त्रसहितं घातकशस्त्राणां विदेशविक्रयणं कर्तुं जप्पानः सज्जते। अग्निबाणादि उगप्रहरक्षमतायुक्तानि सैनिकोपकरणानि प्रतिरोधशस्त्रनिर्माणमण्डले भारतजप्पानयोः मिथः बन्धं दृढीकर्तुं प्रभवति। सैनिकोपकरणानां विदेशविक्रयणम् अनुबन्ध्य २०२३ मार्च् मासादारभ्य नियन्त्रणानि लघूकरिष्यति इति जप्पानस्य माध्यमेन निक्किना प्रतिवेदितम्।
Friday, May 27, 2022
अमेरिक्कायां विद्यालये १८ वयस्केन कृते भुषुण्डिप्रहारे २१ अपमृत्यवः।
हूस्टण्> अमेरिक्कायां टेक्सस् राज्ये युवाल्डिस्थाने 'रोब् एलिमेन्टरि' विद्यालये केनचन १८ वयस्केन कृते भुषुण्डिप्रहारे १९ छात्राः द्वावध्यापकौ च हताः। घातक इति सन्दिग्धः साल्वदोर् रामोस् नामकं युवकं आरक्षिसंघः गोलिकाप्रहारेण जघान। १० संवत्सराभ्यन्तरे अमेरिक्काराष्ट्रे दुरापन्नः महत्तमः भुषुण्डिप्रहारः एषः। ७ - १० वयस्काः बालका एव हताः।
हत्याप्रकरणे राष्ट्रपतिः जो बैडनः अत्यन्तवैकारिकतया दःखं प्रतिषेधं च प्रकाशितवान्।
राजनैतिकक्षेत्रे महिलाप्रातिनिध्यं न्यूनं - राष्ट्रपतिः।
अनन्तपुरी> राजनैतिकमण्डले महिलानां कृते तासां सामर्थ्यानुसारं स्थानं न लभते इति राष्ट्रपतिः रामनाथकोविन्दः प्रास्तूयत्। केरलविधानसभया आयोजिते भारतस्य महिलासामाजिकानां राष्ट्रियसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् राष्ट्रपतिः।
"राजनैतिकक्षेत्रे महिलानां पश्चाद्गमनत्वं लोके सर्वत्र दृश्यते। मनोभावस्य परिवर्तनमेव परिहारः।" - राष्ट्रपतिना उक्तम्।
भारतस्वातन्त्र्यस्य ७५ तमसंवत्सराोत्सवः 'आसादी का अमृतमहोत्सव' इत्यस्य अंशतया सम्पद्यमाने अस्मिन् सम्मेलने महिलाः लोकसभा-विधानसभासामाजिकाः भागं कुर्वन्ति। अद्य सम्पत्स्यमानं समापनसम्मेलनं लोकसभाध्यक्षः ओं बिर्लावर्यः करिष्यति।
महिलानां स्वतन्त्र्यं मा ध्वंसयतु । सङ्कल्पान् परिवर्तयन्तु - तालिबानं प्रति यु एन्।
Thursday, May 26, 2022
श्रीलङ्कायाम् आर्थिकमन्त्री प्रधानमन्त्री एव।
कोलम्बो> राष्ट्रस्य वित्तमन्त्रिरूपेण प्रधानमन्त्री रनिल् विक्रमसिंगे राष्ट्रपतिना गोताबय राजपक्से वर्येण नियुक्तः। अन्येषु सर्वेषु विभागेषु मन्त्रिषु नियुक्तेष्वपि वित्तमन्त्रिस्थाने अनिश्चितत्वं वर्तितमासीत्। ह्यः एव वित्तविभागः प्रधानमन्त्रिणा एव बिभर्तु इति राष्ट्रपतिः निर्णयमकरोत्।
Wednesday, May 25, 2022
क्वाड् उच्चशिखरमेलनमध्ये जप्पानस्य आकाशोपरि रष्यस्य चीनस्य च विमानानि ।
डोक्यो> क्वाड् राष्ट्रनेतृणां मेलनमध्ये स्वव्योमसीमायाः समीपे चीनेन रष्येण च संयोज्य विमानोड्डयनं कृतमिति कारणेन जप्पानस्य प्रतिरोधमन्त्रिणा नोबुवो किषिणा खेदः प्रकटितः । चीनस्य रष्यस्य च प्रवृत्ततिं न्यायीकर्तुं न शक्यते इति तेन प्रोक्तम्। क्वाड् राष्ट्राणां अमेरिक्का, इन्ड्या, ओस्ट्रेलिया, तथा जप्पानस्य च राष्ट्रनेतारःप्रादेशिक सुरक्षामधिकृत्य परस्परं चर्चिते सन्दर्भे एव विमानानि जप्पानस्य व्योमसीम्नि प्रविष्टानि।
Tuesday, May 24, 2022
'क्वाड्' शिखरसम्मेलनम् अद्य।
नवदिल्ली> Quadrilateral Security Dialogue (QUAD) इति कृतनामधेयस्य भारत-अमेरिक्का-आस्त्रेलिया-जापानराष्ट्राणां संघस्य तृतीयं शिखरसम्मेलनम् अद्य टोकियो नगरे समपद्यते। रूस्-युक्रेनयुद्धः, भारत-पसफिक् क्षेत्रे जाताः समस्याः, कोविड् व्यापनं प्रतिरोधश्च इत्यादयः विषयाः सम्मेलने चर्चाविधेयाः भविष्यन्ति।
शिखरसम्मेलनमध्ये भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अमेरिक्कायाः राष्ट्रपतिः जो बैडनः, जापानीयप्रधानमन्त्री फुमियो किषिदः, आस्ट्रेलियायाः नूतनः प्रधानमन्त्री आन्टणी अल्बनीसः इत्येभिः सह उभयराष्ट्र चर्चां करिष्यति।
मूल्यातिवर्धनं तीव्रं - सामान्यजनाः महासङ्कटे।
कोच्ची> साप्ताहिकं यावत् केरले जनाः भोज्यवस्तूनां नित्योपयोगवस्तूनां च मूल्यातिवर्धने महान्तं क्लेशमनुभवन्ति। इन्धनमूल्यातिवर्धनस्य कारणतः राष्ट्रे सञ्जातस्य द्रव्यातिवर्धनस्य परिणितफलमिति आर्थिककुशलाः अभिप्रयन्ति।
केरलेषु सर्वत्र शाकादीनां मूल्यमनुदिनं वर्धते। मासैकस्मात् पूर्वं शतरूप्यकैः पञ्चकिलोपरिमितं रक्तफलं लब्धमासीत्। किन्तु इदानीं एककिलोपरिमिताय रक्तफलाय १०० - १२० रूप्यकाणि दातव्यानि। तथा च अन्येषां शाकानामपि २० % - ३० % मूल्यवर्धनमभवत्। तण्डुलस्यापि मूल्यं अष्टरूप्यकपर्यन्तं किलोपरिमिताय वर्धितम्।
जनानां सङ्कटपरिहाराय सर्वकारस्य पदक्षेपः अत्यन्तापेक्षित इति बहुभिः संघटनैः आवेदितम्।
वानरज्वरः - द्वादशराष्ट्रेषु यावत् शताधिकप्रकरणानि प्रतिवेदितानि।
जनीव> विश्वराष्ट्राणां मध्ये आशङ्कां जनयन् वानरज्वरव्यापनं विविधराष्ट्रेषु अनुवर्तते । कोविड्व्यापनं विविधराष्ट्रेषु अनुवर्तमाने सन्दर्भे अस्मिन् वानरज्वरस्य व्यापनम् आशङ्कां जनयन् अस्ति। मेय् मासस्य एकविंशतितमदिनाङ्कपर्यन्तां औद्योगिकगणनामनुसृत्य द्वादशराष्ट्रेभ्यः द्विनवति प्रकरणानि प्रतिवेदितानि। तानि प्रकरणानि अतिरिच्य २८ जनाः वानरज्वरस्य लक्षणानि प्रकटयन्तः सन्ति । कोविड् व्यापनम् अनुवर्तमानेभ्यः द्वादशराष्ट्रेभ्य: एव विश्वस्वास्थ्यसंस्थायाः प्रतिवेदनानि लब्धानि। वानरज्वरबाधया मरणानि इतःपर्यन्तं न प्रतिवेदितानि ।
Monday, May 23, 2022
प्रधानमन्त्री नरेन्द्रमोदी 'क्वाड्' नेतृतलसम्मेलने सहभागित्वं कर्तुं जप्पानं प्रति प्रस्थितवान्।
नवदिल्ली> क्वाड् नेतृत्वतलसम्मेलने सहभागित्वं कर्तुं प्रधानमन्त्री नरेन्द्रमोदी जप्पानं प्रति प्रस्थितवान्। जप्पानस्य प्रधानमन्त्रिणः फुमियो किषिदस्य निमन्त्रणं अनुसृत्यैव प्रधानमन्त्री नरेन्द्रमोदी जाप्पानं प्रति प्रस्थितवान्। भारतं, अमेरिक्का, जप्पानः तथा ओस्ट्रेलियाराष्ट्रः च क्वाड् सख्ये अन्तर्भवन्ति। क्वाड् योगः अद्य डोक्यो मध्ये समारप्स्यते। चतुर्विंशतिहोरापर्यन्तम् आयोज्यमाने दिनद्वयात्मके कार्यक्रमे विविधेषु त्रयोविंशति कार्यक्रमेषु सः भागं स्वीकरिष्यति। क्वाड् नेतृत्वतलयोगाभ्यन्तरे प्रधानमन्त्री नरेन्द्रमोदी अमेरिक्कायाः राष्ट्रपतिना जो बैडनेन सह मेलनं भविष्यति।
.webp)



.webp)
.webp)




