OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 11, 2026

 बल्जियं विजित्य स्पेयिनः पूर्वान्त्यचक्रं प्राविशत्। 

प्रतिद्वन्दी फ्रान्सः। 

लोस् आन्जलस्> प्रपूर्वान्त्यचक्रस्य द्वितीये प्रतिद्वन्द्वे बल्जियम् एकं विरुध्य लक्ष्यद्वयेन स्पेयिनः विश्वचषकस्य पूर्वान्त्यचक्रं प्राविशत्।

 प्रथमार्धः उभावपि गणौ एकैकं लक्ष्यं सम्पाद्य   समस्थितिमपालयताम्। ३० तमे निमिषे स्पेयिनस्य रूयिस् नामकः बल्जियं विरुध्य प्रथमं लक्ष्यं सम्पादितवान्। ततः ४१ तमे निमिषे बल्जियस्य ले कटेलारे नामकेन लक्ष्यं प्रत्यर्पितम्। अस्मिन् विश्वचषके स्पेयिनस्य जालस्य प्रथमप्रकम्पनम्!

  द्वितीयार्धे विजयं लक्ष्यीकृत्य उभाभ्यामपि दलाभ्यां चटुलानि कन्दुकचालनानि कृतानि। विजयतृष्णा स्पेयिनगणे अधिकतया दृष्टा। ८८ तमे निमिषे स्पेयिनस्य मेरिनो नामकक्रीडकः द्वितीयं लक्ष्यकन्दुकं बल्जियस्य जालं पुनः प्रकम्पयति स्म।  स्पेयिनस्य पूर्वान्त्यचक्रप्रवेशः।