मेप्पाडि मृत्स्खलनं - मरणानि षट्।
तिरोभूतेषु त्रयाणां शरीराणि अधिगतानि। 
दुरन्तस्थाने अन्वेषणं पुरोगम्यते।
मेप्पाडि> केरले वयनाट् जनपदस्थे कल्लाडी इति स्थाने भूगर्भमार्गनिर्माणस्थाने दुरापन्ने मृत्स्खलने मृतानां संख्या षट् अभवत्। मृत्स्खलनस्य तृतीयदिने त्रीणि मृतशरीराण्यपि अधिगतानि। मृताः त्रयः अपि निर्माणसंस्थायाः युवकाः कार्यकर्तारः इतरराज्यस्थाः च भवन्ति।
बिहारीयः मुहम्मद इम्रान् अन्सारी (३०), हिमाचलप्रदेशीयः राहुल शर्मा (२७), उत्तरप्रदेशीयः अस्हरुद्दीन् अन्सारी (३१) इत्येतेषां मृतदेहाः एव गतदिने अधिगताः। द्वौ इतरराज्यीयौ कार्यकर्तारौ अधिगतव्यौ वर्तेते। एताभ्याम् अन्वेषणम् अनुवर्तिष्यते।