OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, July 10, 2026

 सर्वकारविद्यालयेषु प्रवेश्यमानानां छात्राणां संख्या वर्षद्वयाभ्यन्तरे ८६ लक्षं न्यूनीकृता। 

निजीयविद्यालयेषु ८९ लक्षं वर्धिता। 


नवदिल्ली> राष्ट्रे सर्वकारीयविद्यालयेषु प्रवेशं क्रियमाणानां छात्राणां संख्या गणनीयरीत्या आकुञ्चति। किन्तु निजीयविद्यालयेषु संख्या वर्धमाना अस्ति। केन्द्रशिक्षामन्त्रालयस्य यू डी ऐ एस् ई [Unified District Information System for Education plus- UDISE] संस्थया प्रकाशिते अनुशीलितपत्रे अस्ति अयं विवरणम्। 

UDISE आवेदनपत्रमनुसृत्य गते वर्षद्वये सर्वकारीयविद्यालयेषु प्रवेशनं कृतवतां छात्राणां संख्यायां ८६ लक्षस्य न्यूनता जाता। किन्तु अस्मिन् काले निजीयविद्यालयेषु ८९ लक्षं वर्धितम्। 

  २०२३ - २४ अकादमिकवर्षे मध्यमस्तरपर्यन्तं आहत्य २४. ८ कोटि छात्राः विद्यालयं प्रविष्टाः। २०२५ - २६ वर्षे एषा संख्या २४. ७२ कोटि इति न्यूनीकृता । सर्वकारीयविद्यालये १२. ७५ कोटि इत्यतः ११. ८९ कोटि इतिरूपेण छात्रसंख्या आकुञ्चिता। निजीयविद्यालयानां छात्रसंख्या पूर्वोक्तवर्षद्वये ९ कोटि इत्यतः ९. ८९ कोटीति वर्धिता। किन्तु इदानीमपि निजीयविद्यालयान् अपेक्ष्य, छात्राः अधिकतया आराष्ट्रं सर्वकारीयविद्यालयेषु एव प्रवेशमिच्छन्ति। 

 विद्यालयाः न्यूनिताः; शिक्षकाः वर्धिताः।

 राष्ट्रमशेषं विद्यालयानां संख्या १४. ७२ लक्षम् इत्यस्मात् १४. ६७ लक्षमिति न्यूना अभवत्। परन्तु शिक्षकाणां संख्या ९८. ०८ लक्षात् १. ०३ कोटि अभवत्। छात्र-शिक्षकानुपातः २५ : १ इत्यस्मात् २४ : १ इति भद्रतरमभवत्।