OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 10, 2026

 फिफा विश्वचषकः।

 फ्रान्सः पूर्वान्त्यचक्रं प्राविशत्। 

एम बापे। 

बोस्टणः> यू एसे बोस्टणक्रीडाङ्कणे सम्पन्ने प्रथमे चतुर्थांशप्रतिद्वन्द्वे फ्रान्स गणः मोरोकोगणं २- ० इति लक्ष्यक्रमेण पराजित्य प्रपूर्वान्यचक्रं प्रविवेश। आक्रमणे फ्रान्सस्य सर्वाधिपत्यं दृष्टायां क्रीडायाम् एं बापे, डम्बले इत्येतौ एकैकं लक्ष्यं प्राप्तवन्तौ। 

 २८ तमे निमिषे फ्रान्साय लब्धः, एं बापेवर्येण कृतः दण्डप्रहारः मोरोकोगणस्य लक्ष्यरक्षकस्य  रक्षणेन  निष्फलः जातः। मोरोकोदलमपेक्ष्य फ्रान्सदलेन क्रीडावैभवः प्रदर्शितः अपि मोरोकोदलस्य प्रतिरोधं भेत्तुं वैभवः न दृष्टः।  एवं प्रथमार्धांशः लक्ष्यरहितः परिसमाप्तः।

  द्वितीयार्धे ६० तमे निमिषे किलियन् एम बापेवर्यस्य मनोहरेण लक्ष्येन फ्रान्सः अग्रमागत‌ः। ६६ तमे निमिषे 'ओसुमाने डम्बले' इत्यनेन  फ्रान्सस्य द्वितीयं लक्ष्यं सम्पादितम्। द्वितीयार्धस्य अन्तिमनिमिषेषु एकं लक्ष्यमपि प्रतिदातुं मोरोकोगणस्य तीव्रप्रयत्नः अभवदपि फलवत्तः नाभवत्। भूतपूर्वः विश्ववीरः  फ्रान्सः प्रपूर्वान्त्यं प्राविशत्।