OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, July 10, 2026

 ई-२० पेट्रोल् 'टर्बो चार्ज्ड् एन्जिन्'विरोधी इति ए आर् ए ऐ संस्था।

मुम्बई> भारते एथनोलोपेतपेट्रोल् तैलेन्धनं प्रति परिवर्तयितुम् उत्साहिते सति, आशङ्कां प्रकटयति Automotive Research Association of India (ARAI) नामिका केन्द्रसर्वकारीयसंस्था। संस्थायाः अनुशीलनपत्रमनुसृत्य २०% एथनोलमिश्रितस्य तैलेन्धनस्य उपयोगः Turbocharged यन्त्रोपेतानां वाहनानां दोषाय भविष्यतीति सूच्यते। ई-१० इन्धनोपयुज्यमानेषु  वाहनेषु Rubber अधिष्ठितवस्तूनां नाशाय भविष्यति। एथनोल् अधिकतया मिश्रते चेत् जलवाहनालिका [ hose], दृढीकारः [seal], O-ring, gas ket इत्यादीनि उपकरणानि नाशयेयुः इति अनुशीलनपत्रे सूच्यते। 

  B S -4 विभागे वर्तमानानि यन्त्राणि ई-२० पेट्रोल् सामान्येन तृप्तिकरं प्रवर्तनं प्रदर्शयन्ति। किन्तु B S 6 विभागे अन्तर्भूतेषु turbocharged यन्त्रेषु  कतिपयानि २६५ होरासु अतीतासु दोषयुक्तानि अभवन्। 

  वाहनेभ्यः बहिः वर्तमानं ज्वलनसहायकं वायुं [Oxygen] मर्दनोपकरणम् [compressor] उपयुज्य सम्मर्द्य यन्त्रान्तः प्रवेश्य वायोः अधिकलाभेन इन्धनक्षमतां वर्धयति इत्येव turbocharged यन्त्राणां सविशेषता। केन्द्रप्रशासनस्य अधीने वर्तमाना राष्ट्रे प्रमुखा गवेषण-परिशोधक-प्रमाणनिर्णयाभिकर्ता भवति ए आर् ए ऐ संस्था।