OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 10, 2026

 उत्तरभारते अतिवृष्टिः। 

व्यापकतया कष्टनष्टानि, मरणानि। 


नवदिल्ली> मण्सूण् वर्षाकाले आभारतं प्राप्ते उत्तरभारतम् अतिवृष्ट्या क्लिश्यते। उत्तरप्रदेशः, उत्तरखण्डः, हिमाचलप्रदेशः, दिल्ली, हरियानं, पञ्चाबः, जम्मु-काश्मीरम् इत्यादिराज्येषु कठिनया वृष्ट्या बहुविधक्लेशाः मरणानि च वृत्तान्तीक्रियन्ते। बहुत्र प्रलयः, मृत्स्खलनं, मार्गरोधनं च अभवन्। 

  उत्तरप्रदेशे दश जनाः वृष्टिदुष्प्रभावेण मृताः। यमुनोत्री राष्ट्रियमार्गे जलोपप्लवेन मृत्स्खलनेन च यातायातं स्थगितम्। 

 उत्तरखण्ड हिमाचलप्रदेशराज्ययोः पर्वतोपान्तप्रदेशेषु तीव्रा वृष्टिः कतिपयदिनानि यावत् अनुभूयते। कतिचनस्थानेषु भूस्खलनानि दुरापन्नानि।  आगामिदिनेषु अपि तीव्रवृष्टिः अनुवर्तिष्यते इत्यतः प्रदेशवासिनः विनोदयात्रिकाश्च जागरूकाः भवेयुः इति केन्द्रपर्यावरणविभागेन निगदितम्। 

दिल्ली, हरियानं, पञ्चाबः इत्यादिराज्येष्वपि वृष्टिः शक्तिमती वर्तते। कतिपयदिनानि यावत् वृष्टिः अनुवर्तिष्यते।