OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, May 19, 2025

 द्वौ ऐ एस् भीकरौ मुम्बई विमाननिलयात् निगृहीतौ। 

मुम्बई> ऐ एस् इति आगोलभीकरसंघटनेन सहवर्तमानौ द्वौ  एन् ऐ ए संस्थया मुम्बई विमाननिलयात् निगृहीतौ। डयपर्वाला इति कथ्यमानः अब्दुल्ला फयास् षेकः, तल्ह खानः इत्येतौ वर्षद्वयेन एन् ऐ ए संस्थया मार्गमाणौ आस्ताम्। 

  २०२३ तमे वर्षे पूनेय्याम् ऐ ई डि स्फोटकं निर्माय परीक्षितमित्यस्मिन् प्रकरणे अपराधिनौ एतौ इन्डोनेष्यायां निलीयमानौ आस्ताम्।

Sunday, May 18, 2025

 चक्रवातः - यू एसे विंशत्यधिकानि मरणानि। 

वाषिङ्टणः> यू एस् राष्ट्रस्य दक्षिणराज्येषु शुक्रवासरे रात्रौ महान् चक्रवातः प्रभावितः। विंशत्यधिकाः जनाः विनष्टप्राणाः जाताः। ५००० अधिकानि भवनानि विशीर्णानि। 

   केन्टक्की राज्ये १४ जनाः मृत्युमुपगताः। मिसौरी राज्ये सेन्ट् लूयि नगरे ५ मरणानि जातानि। लक्षं गृहेषु विद्युत् स्थगिता। रक्षाप्रवर्तनानि अनुवर्तन्ते।

 लियो १४ तम पापावर्यस्य स्थानारोहणसमारोहः अद्य। 

वत्तिक्कानं> कातोलिका क्रिस्तीयसभायाः आगोलपरमात्मीयाचार्यस्य लियो १४ तम मार्पापावर्यस्य स्थानारोहणसमारोहः अद्य प्रातः दशवादने [भारती।समयानुसारं मध्याह्ने १. ३०] सेन्ट् पीटेर्स् देवालयाङ्कणे आरभ्यते। 

 'धीवरकङ्कणस्य अङ्कवस्त्रस्य' च धारणमेव समारोहस्य प्रधानकार्यक्रमः।  मेय् अष्टमे दिनाङ्के आसीत् कर्दिनाल् रोबर्ट फ्रान्सिस् प्रेवो नामकः  नूतनपापारूपेण चितः।

 ज्ञानपीठपुरस्कारः समर्पितः। 

राष्ट्रपतिः रामभद्राचार्याय पुरस्कारं समर्पयति। 

नवदिल्ली> २०२३ तमवर्षस्य ज्ञानपीठपुरस्कारं  संस्कृतपण्डिताय जगद्गुरु रामभद्राचार्याय राष्ट्रपतिः द्रौपदी मुर्मू समर्पितवती। सुप्रसिद्धः उरुदुकविः हिन्दीगानरचयिता चलच्चित्रकारः गुल्सार् वर्यश्च ज्ञानपीठपुरस्कारेण समादृत अपि स्वास्थ्यविषयकारणेन सः न प्राप्तवान्। 

  नवदिल्ल्यां विज्ञानभवने आयोजिते कार्यक्रमे आसीत् पुरस्कारसमर्पणम्।

Saturday, May 17, 2025

 बृहन्नयतन्त्रपदक्षेपेन भारतम्। 

पाक्भीकरताम् अनाच्छादयितुं सप्तसंघाः ५० राष्ट्राणि सन्दर्शयन्ति। 

नवदिल्ली> भीकराणां कृते सर्वविधसाहाय्यं दीयमानस्य पाकिस्थानप्रशासनस्य व्यवहारान् विश्वराष्ट्राणां पुरतः अनाच्छादयितुं बृहत्तरं नयतन्त्रपदक्षेपं स्वीकरोति भारतम्। पाकिस्थानाय ऐ एम् एफ् संस्थया दीयमानं द्रव्यसाह्यं भीकरप्रवर्तनाय एव उपयुज्येत इति वादमुन्नीय आर्थिकसाह्यनिरोधाय भारतेन यतितम्। तदनुबन्धतया संसदः सर्वपक्षयुक्तान् संघान् विदेशराष्ट्राणि प्रेषयितुं निश्चितम्। नयतन्त्राधिकारिणः वनितासदस्याः च प्रतिसंघं भविष्यन्ति। १० -१२ दिनानि यावत् संघस्य विदेशपर्यटनं भविष्यति।

 १३ प्रकारस्य अर्बुदस्य प्रतिरोधाय पादचरणम् औषधं, - नवीनम् अध्ययनम्।

  त्रयोदशप्रकारस्य अर्बुदव्याधेः परिहाराय नवीनतमम् अध्ययनं दर्शयति यत् प्रतिदिनं पादचरणं कृत्वा अर्बुद (Cancer) रोगं न्यूनं कर्तुं शक्यते इति। इदम् अनुसन्धानम् ओक्सफोर्ड् विश्वविद्यालयस्य वैज्ञानिकैः यु के देशस्य ८५,००० जनानां स्वास्थ्यविवरणानि विश्लेष्य कृतम्। षट् वर्षपर्यन्तम् निरन्तरं पठनं कृत्वा पश्चात्, वैज्ञानिकाः निगमनम् इदं प्राप्तवन्तः यत्  येन प्रतिदिनं पादाभ्यां चरति चेत् तेनैव अर्बुदः  न्यूनी भविष्यति इत्युच्यते। 

  अध्ययनस्य अनुसारं, प्रतिदिनं ७,००० पादचरणानि करोति चेत् अर्बुदस्य व्यापनशीलः प्रतिशतं एकादश (११%) इति न्यूनं भविष्यति, यदा ९,००० पादचरणानि क्रियते तर्हि रोगस्य व्यापनशीलः प्रतिशतं षोडश (१६%) इति न्यूनं भवति।   

  वैज्ञानिकाः सूचयन्ति यत् दीर्घकालात् उपवेशनस्य स्थाने मन्दगत्याः शारीरिकक्रियाः अपि रोगः न्यूनीकर्तुं सहायकं भवति। विशेषतया, यकृत्, श्वसनकोशः, वृक्का, गर्भाशयः, 'कोलन्', शिरः-कण्ठः, गर्भाशयः स्तनम् इत्यादि प्रदेशेषु व्याधिः पादचारणेन परिशुष्यते इति अध्ययनं सूचयति।

 प्रासक्षेपणे नीरजः ९०.२३ मीटर् लक्ष्यं प्राप्तवान्। 

नीरजः स्पर्धामध्ये। 

दोह> खत्तरे सम्पद्यमाने दोह डयमण्ड् लीग् अत्लटिक्स्' स्पर्धायां भारतस्य नीरज चोप्रः प्रासक्षेपणे ९०.२३ मीटर् क्षिपित्वा द्वितीयस्थानं प्राप्तवान्। जर्मनीयः क्रीडकः जूलियन् वेबरः ९१. ०६ मी क्षिप्त्वा प्रथमस्थानं सम्प्राप्तवान्। 

 नूतनः परिशीलकः चेको स्लावियः यान् सेलन्सि इत्यस्य शिक्षणे अस्ति नीरजस्य नूतनस्थानलब्धिः। प्रासक्षेपे  ९० मीटर् तरितवान् प्रथमो भारतीयः भवति नीरज चोप्रः। एष्यायां तृतीयः च।

 तुर्कीराष्ट्रेण सह व्यापारव्यवहारान् बहिष्कृत्य भारतीयव्यापारिणः।

मुम्बई> भारत-पाकिस्थानयोः संघर्षे तुर्की, असर बैजान् राष्ट्रद्वयं पाकिस्थानेन सह अनुकूल्यं प्राकट्य साह्यमकरोत् इत्यस्मात् कारणात् तेन  राष्ट्रद्वयेन सह व्यापारव्यवहाराः पूर्णतया भारतीयव्यारारिभिः बहिष्कृताः। २४ राज्यानां व्यापारिसंघटनानां 'Confederation of All India Traders' नामकेन संघटनेन अयं निर्णयः। 

  एष्याभूखण्डस्य बृहत्तमं फल-शाकाविपणनकेन्द्रं दिल्लीस्थम् 'आसादपुर् मण्डि, वाषीस्थं 'ए पि एम् सि' इत्येताभ्यां तुरकीतः आप्पिल् फलस्य आयातः निरुद्धः इति निगदितम्।

 त्रयः लष्करभीकराः निगृहीताः। 

बद्गामः> लष्कर् ई तोय्बा इति निरुद्धभीकरसंघटने प्रवर्तमानाः त्रयः भीकराः जम्मु काश्मीरस्थात् बद्गामात्  आरक्षकैः निगृहीताः। मुसमिल् अहम्मदः, इस्पात पण्डिट्, मुनीर् अहम्मदः इति तेषां नामानि। एकः भुषुण्डी, कतिपय बोम्बाः इत्याद्यायुधानि अपि निगृहीतानि।

Friday, May 16, 2025

 पृथिव्याः अन्तःस्थितं महाधनम् ।  1,70,000 संवत्सरपर्यन्तं पर्याप्तं हैड्रोजनस्य स्रोतांसि इति अध्ययनम्।

  पृथिव्याः गर्भभागे रूपीकृताः स्वाभाविकाः हैड्रोजन-सञ्चयाः वैश्विकम् इन्धन-आवश्यकतां 1,70,000 (सप्तति सहस्राधिक एक लक्षं) वर्षाणि यावत् उपयोक्तुं समर्थाः स्युः इति नवीनम् अध्ययनम् सूचयति।

   विश्वस्य अनेकप्रदेशेषु विशेषतया अमेरिकादेशस्य त्रिंशतधिक-राज्येषु एवं प्रकारस्य हाइड्रोजन्-स्रोतांसि सन्तीति अध्ययनम् दर्शयति। एतदनुसन्धानम् ओक्सफोर्ड्-विश्वविद्यालयस्य भू-रसायनविभागाध्यक्षस्य प्रोफेसर् क्रिस् बलन्टैन्  इत्यस्य नेतृत्वेन कृतम्।। Nature Reviews Earth and Environment इत्यस्यां  प्रख्यातायां वैज्ञानिक-पत्रिकायाम् एषः शोधः प्रकाशितः अस्ति।

   पाषाणानि जलम् च मिलित्वा याः स्वाभाविकाः रासायनिकक्रियाः जाताः, ताभ्यः हैड्रोजनस्य उत्पत्तिः भवति। एते नैसर्गिकानि हैड्रोजन् स्रोतांसि कार्बण्-रहितस्य ऊर्जस्य दिशायाम् अस्मान् नेष्यन्ति। अल्पकालात् पूर्वमेव अल्बेनियायाः पश्चिम-अफ्रिकायाः च प्रदेशयोः क्रोमियम्-खननक्रियासु सत्सु,पृथिव्याः अधस्तले विशालः हाइड्रोजन्-सञ्चयः अस्ति इत्यपि ज्ञातम्। इदम् अध्ययनम् भाविष्यस्य हरित-ऊर्जानीतये महत्त्वपूर्णम् एकं द्वारम् उद्घाटयिष्यति।