पठान्कोट्ट् - व्योमनिलये संवृत्तं भीकराक्रमणं सुरक्षाराहित्यहेतुतः जातमिति केन्द्र रक्षामन्त्री मनोहरपरीक्करः अवदत्। तीव्रवादिनः अन्तःप्रवेशः आशङ्कां जनयति इत्युक्त्वा परं विशदीकरणाय विमुखःअभवत्।व्योमकेन्द्रसन्दर्शनानन्तरं वार्ताहरान् प्रति भाषमाणः आसीत् मन्त्रिवर्यः।
OUR YouTube Channel 1. SampratiVartah |
marquee
Wednesday, January 6, 2016
Tuesday, January 5, 2016
इम्भाल् > भारतस्य पूर्वोत्तर भागेषु जायमानायां भूकम्पदुर्घटनायां १४ जना: मृताः २१० जनाः व्रणिताः। तेषु ९ जना: भारतीयाः पञ्च जना: बङ्गलादेशीया: च। रक्षा प्रवर्तनेषु इदानीमपि सैनिकाः निरताः। रिक्टर् मापिन्यां ६.८ अङ्ग: कम्पन तीव्रता मापिता । मणिपुरम्, असम् राज्ययो: तीव्रता अधिकतया अनुभूता। ब्राह्म यामे ४.३५ वादने आसीत् कम्पः। आहतेषु भारतात् ११० बङ्गलादेशात् १०० जना: च अभवन्। म्यान्मर् तिबत् सीमा च कम्पिता ।Monday, January 4, 2016
सि पि एम् नेतृत्वे धर्मातीत-योगप्रदर्शनम्।
पठान्कोट्ट्व्योमनिलये पुनरपि संघट्टनम्
सैनिकाः वीरमृत्युं प्राप्तः।
कोमण्वेल्त् सुवर्णपतकजेता पत्ते सिंहः ,गुरुसेवकसिंहः, हवील्दार् कुल्वन्त् सिंह, जगदीशसिंहः , सञजीव् कुमारः इत्येते मृत्युमुपगताः अन्ये सैनिकाः।
Sunday, January 3, 2016
संस्कृतेन प्रभावितः मुख्यमन्त्री।
विदर्भा >महाराष्ट्रराज्ये संस्कृत -अकादमी 'गठिता'(प्रारभेत) भवति इति मुख्यमन्त्रिणा देवेन्द्र फडणवीस महोदयेन उद्घोषितम्। ह्य:संस्कृतभारत्या: विदर्भप्रान्तीयसम्मेलने मुख्यातिथिरूपेण उपस्थित: आसीत् मुख्यमन्त्री। शालेयसंस्कृतशिक्षणक्षेत्रे अपि परिवर्तनम् करिष्यति इत्यपि तेन प्रतिपादितम्।
१०३तमस्य भारतीयविज्ञानसम्मेलनस्य कर्णाटकराज्ये मैसूरुनगरे श्रीगणेशः श्रीमोदिनः पाणिपद्माभ्याम्। व्यासनद्यां हैदराबादस्य २४बी.टैक-छात्राणां प्रवाहदुर्घटनाम् आलक्ष्य तेषां परिवारेभ्यः प्रत्येकस्मै विंशतिलक्ष्यरूप्यकात्मकः क्षतिपूर्तिराशिः।
Saturday, January 2, 2016
Friday, January 1, 2016
त्रिपुराराज्येषु विद्यालयेषु योग शास्त्राध्यनम्
अगर्तल > पाठ्यपद्धत्यां योगासनमपि सन्निवेश्य त्रिपुरा राज्यस्य सर्वकारः आदर्शराज्यः अभवत्। अत्र सि पि एम् सर्वकारः शासनं कुर्वन्नस्ति। प्रथमकक्ष्यातः अष्टमकक्ष्या पर्यन्तं अद्य आरभ्य योगापरिशीलनस्य शुभारम्भ: |
एतत् अनुशासनमधिकृत्य शिक्षामन्त्रिणा तपन् वर्येण उक्तः I
प्रथमश्रेण्यां शतं विद्यालयेषु आरम्भं कृत्वा पुनः नगरेषु ग्रामेषु आदिवासि जनविभागानां प्रदेशेषु च प्रसारयितुमुद्दिश्यते इत्यपि तेनोक्तम्।
छात्राणां शरीरस्य मनसः च स्वास्थ्य वर्धनमेव अनेन उद्धिश्यते । शैशवे एव योगाध्ययनेन धर्मनिष्ठानां नवयुवकानां निर्माणमेव संभवति।
राज्यस्य संपूर्णेषु विद्यालयेषु योगाध्यापकानां नियुक्तिः विलम्बं विना भविष्यति। मुख्यमन्त्री माणिक् सर्कारस्य नेतृत्वेन विराजमानेन मन्त्रिसभायोगेन निश्चयमिदं स्वीकृतम्।
Thursday, December 31, 2015
प्रधान वार्ता: 31-12-2015
प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य दिल्लीमेरठ-एक्सप्रेसवे इति मार्गपरियोजनायाः शिलान्यासो विधास्यते।
म्याँमारदेशे त्रिदेशीयराजमार्गमालक्ष्य एकोनसप्ततिः सेतूनां निर्माणाय केन्द्रीयमन्त्रिमण्डलेन स्वीकृतिर्दत्ता।
मोदिनो लाहौरयात्रया समुत्साहितो नवाज़शरीफ़ो ब्रवीति यद् भारतपाकिस्तानाभ्यां वैरत्यागस्य कालः खलु समागतः।
मावोवादिनः स्वाधीनतायां आगता:
राय्पूर् > छत्तीस्गड् राज्ये मावो वादिनः सर्वकारस्य पुरतः अधीनाः। सर्वकारेण आयोजिता स्वाधीनता योजनायां एव २३ संख्याका: भीकरवादिनः तेषां आशयान् विहाय राष्ट्रस्य भागभाजः अभवन् । तेषु षट् जनाः कुटुं कोन्द्र स्वदेशीयाः। बियास् पुरतः एकादशसंख्यकाः चन्द्रगिरीतः पञ्चजनाः च स्वाधीनतायाम् आगता : I बस्तर् देशे आयोजिते राली मेलने लब्धः आशयः मनसः परिवर्तनाय कारणभूतः अभवत् इति ते वदन्ति। गत सप्ताहे ७० जनाः सुख्मदेशे स्व - आशयान् त्यक्त्वा आगतवन्तः आसन्।
Wednesday, December 30, 2015
न्यूयोर्क् > जलमालिन्यानि निमिषाभ्यन्तरेण शुद्धीकर्तुम् शक्त: राससंयुक्तः अमेरिकाराष्ट्रस्य गवेषकैः निर्मिताः। अल्पेन व्ययेन जलं मालिन्यात् मुक्तं कर्तुं शक्याते इति कूपी जलवाणिज्ये गृहेषुजलशुद्धीकरणाय व्ययः न्यूनीकतुं सहायक एव।कोर्णल् विश्वविद्यालयस्य गवेषकैः पर्यवेषिता इयं विद्या । सितायाः बृहदाकारा तन्मात्रा(सैक्लोडेक्स्ट्रिन्) भवति अयं संयुक्तेषु एक:I आक्टिवेटड् कारबण् सङ्केत:भवति इदानीं उपयुज्यमाना विद्या। एतस्याः काचन अंशेन सितांश: च निवेश्य निर्मीतः अयं संयुक्तः निमिषान्तरेण जलं शुद्धीकरोति इति गवेषकानां नेता प्रोफ. विल् डिच्चल् महोदय: अवदत् । जलप्रवाहः नालिकायाः प्रवाह: अपि अनेन शुद्धीकर्तुं शक्यते अविकसितेषु राज्येषु पानीयजलसमस्यायाः परिहारवत् विराजते अयम् । लोकेषु आश्वासदायका इयं वार्ता :।
व्योमसेनायाः उद्योगस्थ: गृहीतः।
Tuesday, December 29, 2015
Sunday, December 27, 2015
नवदिल्ली - भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः अप्रतीक्षितेन पाकिस्तानसन्दर्शनेन राष्ट्रयोर्मध्ये शुभप्रतीक्षा सञ्जाता। विदेशाविभागकर्यकार्यदर्शिनो: मेलन पर्यालोचनं जनुवरि १५ दिनाङ्के इस्लामबादनगरे स्यात्। ततः समग्रचर्चायाः दिनाङ्कादिकं विज्ञापयिष्यति। मोदिनः रष्यासन्दर्शनं समाप्य प्रत्यागमनवेलायामेव पाक्-सन्दर्शनं जवेन निश्चितम्। लाहोर् विमाननिलये पाकिस्तानस्य प्रधानमन्त्री नवास् षरीफः मोदिनं स्वीकृतवान्। ततः एकघण्डां यावत् चर्चा कृता। रात्रावेव मोदिवर्यः दिल्लीं प्राप्तवान्।
तोटुपुषा (केरलम्)- संस्कृतभाषा प्रचरणमण्डले नूतनाविष्कारैः प्रवर्तमानायाः
संस्कृतभारत्याः केरलविभागेन विश्वसंस्कृतप्रतिष्ठानेन संस्कृताध्यापकानां
कृते प्रतिवर्षम् शर्माजी पुरस्कारः दीयते । विद्यालयाध्यापनेन साकं
सामाजिकप्ररिवर्तनाय अपि कार्यं कुर्वतां संस्कृताध्यापकानां कृते एव अयं
पुरस्कारः दीयते । अस्य वर्षस्य शर्माजी पुरस्काराय चितःटी. के सन्तोष्कुमार: केरल संस्कृताध्यापक फेडरेषन् कार्यदर्शी तथा कोषिक्कोड् नन्मण्डा करुणारां यु पि विद्यालयस्य संस्कृताध्यापकश्च भवति।विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा अन्तर्देशीय संस्कृत कण्सल्टन्ट पण्डितरत्नं डो.जी. गङ्गाधरन् नायर् महोदयः श्री.टी. के. सन्तोष्कुमाराय पुरस्कारं ददाति। १०००१ रूप्यकाणि प्रशस्तिफलकम् च अस्मिन् पुरस्कारे अन्तर्भवति । पुरस्कार: संस्कृत अद्यापक फ़ेटरेशन् संस्थाया: लब्धः अङ्गीकारमिति मन्ये इति संतोष् वर्यः प्रत्यवदत् ।
संस्कृतस्य कृते निस्वार्थ सेवनम् कृतवानयं इति गङ्गाधर महाभागेन उक्तम् ।
Saturday, December 26, 2015
सप्तम देशीय श्रीशङ्करनृत्तसंगीतोत्सवस्य अद्य शुभारम्भः ।
कालटी - केरलस्य अद्वतभूमिः कालटी तावत् अद्य आरभ्य पञ्च दिनं यावत् लोकप्रशस्तानां नृत्तसंगीतकलाकाराणां वैभवेन सम्पन्ना भविष्यति।
कालटी श्रीशङ्करनृत्तविद्यालयस्य नेतृत्वे आयोज्यमानः सप्तमः नृत्तोत्सवः डिसं.२६ - ३० पर्यन्तं श्रीशङ्करनाट्यमण्डपस्य समीपे सविशेषरीत्या कृतायां २२५० चतुरश्रपादमितायां नृत्तवेदिकायां प्रचलिष्यति।
२६तमदिनाङ्के सायं ५.४०वादने प्रसिद्धः कथक् नर्तकः अषिं बन्धु भट्टाचार्यः,(कोल्कत्ता) कथक् नृत्तमवतारयति। २७ - सायं श्री रञ्जित् श्रीमति विज्ना (चेन्नै)इत्येताभ्याम् अवतार्यमाणं भरतनाट्यम् , २८ - सरिता मिश्रायाः (बङ्गलूरु)ओडीसी ,२९ -डो. द्रौपदी प्रवीण् ,डो . पद्मिनिकृष्णन् (केरलं) इत्येतयोः भरतनाट्यं-कुच्चिप्पुटी फ्यूषन्नृत्तं ,जयप्रभा मेनोन् (नवदिल्ली) महाभागाया: मोहिनियाट्टं , कलारत्नं दीपिका रड्डि (हैदराबाद्) वर्यायाः कुच्चिप्पुटी च भविष्यन्ति।समापनदिने - ३० -सायं कलाश्री सुनन्दा नायर् (मुंबई) महाभागया अवतार्यमाणं मोहिनियाट्टं च भविष्यति।
Prashikshana Shibiram
*
|
कुमारमङ्गले प्रवर्तमाने शिक्षकप्रशिक्षणशिबिरे ह्यः परीक्षा आसीत् । परीक्षा कीदृशी भविष्यति इति भिया आगतानां शिक्षार्थिनां पुरतः विविधाभिः भाषाक्रीडाभि: आगत्य शिक्षकाः तान् आश्चर्यचकितान् कृतवन्तः । | |
| प्रशिक्षणे वररुचिगणः सरण्यां सरस्वतीगणः च प्रथमं स्थानं प्राप्तवन्तौ। प्रत्येकगणेन निर्मितानां भित्तिपत्रिकाणां प्रकाशनमपि जातम्। राष्ट्रियस्वयंसेवकसङ्घस्य सङ्घचालक : नारायनन् महोदयः आशंसाभाषणं कृतवान्। | ||
जिद्दा- सौदी- यमन् राष्ट्रयोः सीमायां जिसान् प्रदेशे सौदीसर्वकारातुरालये संजाते अग्निदुरन्ते २५ जनाः मृताः। १०७ जनाः दग्धाश्च। अरब्वंशीयाः रुग्णाः तेषां सहायिनश्च दुरन्ते बलिभूताः।Friday, December 25, 2015
Akshaya Thrithiya Kanakadhara
The yajnam is held in remembrance of the legend that there was a rain of golden gooseberries when Sri Sankaracharya recited slokas after seeing the plight of a Brahmin lady living in abject poverty. The lady was upset as she could only provide gooseberries as alms to Sri Sankaracharya when he visited her house. Seeing her plight, Sri Sankaracharya was moved and he recited slokas addressing Lakshmi Devi. It is believed that golden gooseberries fell when Sri Sankaracharya completed the 19th sloka. The chief priest of the ceremony will be the senior-most member of Swarnathu Mana. Sri Sankaracharya is believed to have recited the 19 slokas while visiting this house.
कोच्ची - भारते दक्षिणकैलासः मङ्गल्यवरदायिनीमन्दिरम् इति च प्रख्याते तिरुवैराणिक्कुलं महादेवमन्दिरे अस्य संवत्सरस्य श्रीपार्वतीदेव्याः गर्भगृहस्य द्वारोद्घाटनं देवीदर्शनं च अद्य आरभते।श्रीपरमेश्वरः पार्वतीदेवी च एकस्मिन्नेव गर्भगृहे अनभिमुखं प्रतिष्ठितौ तथापि देवीदर्शनं प्रतिसंवत्सरं धनुमासस्य आतिरनक्षत्रादारभ्य द्वादशदिनपर्यन्तमेव साध्यमिति अस्य मन्दिरस्य सविशेषता। मङ्गल्यसौभाग्याय इष्टसन्तानलब्धये दीर्घमंगल्याय च देवीदर्शनं विशिष्टमिति भक्तजनाः मन्यन्ते।
केरले एरणाकुलं जिल्लायाम् आलुवा अंशे तिरुवैराणिक्कुलं प्रदेशे पूर्णानद्याः (पेरियार्) तीरे इदं मन्दिरं वर्तते। कोच्ची अन्तःराष्ट्रविमाननिलयः १० कि.मी दूरे अस्ति। आलुवा, अङ्कमाली , पेरुम्पावूर् के एस् आर् टि सि बस्याननिस्थानेभ्यः सविशेषलोकयानसेवनानि च अस्मिन् काले लभ्यन्ते।
Thursday, December 24, 2015
गासियाबाद् - तीव्रवादान् विरुध्य तीव्रवादि नेतु: दावूद् इब्राहिमस्य कार् यानम् अग्निसात्करोत्।
हिन्दुमहासभायाः प्रवर्तकाः गासियाबादस्य इन्दिरा पुरा देशे जनानां पुरतः कारयानम् अग्निसात् कृत्वा तेषां प्रतिषेधः ज्ञापितवन्तः। दावूदस्य डि नाम संस्थायाः भीषणिमगणयन् एव प्रतिषेधः कृतवन्तः। | ब्रूणे - अस्य राष्ट्रस्य नेता सुल्त्तान् हसनल् बोलक्कय्या एव क्रिस्तुमस् आघोषाय निरोधानां कृतवान् जानुवरी मासस्य 16 दिने दक्षिणपूर्व एष्यायां बार्णियो द्वीपे विद्यमानं राष्ट्रमेतत्। |
-
|
गतवर्षेषु अपि एतादृश निरोधः आसीत्। 4,20,000 जनाः अत्र वसन्ति्। तस्मिन् प्रतिशतं द्वात्रिंशत् जनाः विविधधर्मावलम्बिनः सन्ति । |
नवदिल्ली-भारत-पाक् देशयोः विदेशविभागसचिवानां उभयाभिमुखं जानुवरीमासस्य 16 दिने भविष्यति। पाक्क् प्रधानमन्त्रिणः विदेशविभागस्य निदेशकेन सर्ताज् असीसेन निर्दिष्टा इयं चर्चा इस्लामबादे प्रचलिष्यते। विदेशकार्यमन्त्रिण्या: सुषमा स्वराजस्य पाक्क् प्रथानमन्त्रिणा सह सम्पन्ने मेलने एवायं निश्चयः जातः।
नवदिल्ली - गुरुतरापराधान् क्रियमाणाः १६-१८ मध्ये वयस्काः कुमारकाः प्रौढा इव नैतिकविचारविधेयाः भवितुं सप्तसंवत्सरपर्यन्तं कारागृहवासं च व्यस्थापयितुम् उद्दिष्टं बालनीतिभेदगतिविधेयकं राज्यसभया अपि अङ्गीकृतम्।पूर्वमेव लोकसभया अङ्गीकृतमिदं विधेयकं राष्ट्रपतेः हस्ताक्षरविन्यासेन नियमः भविष्यति।
नरेन्द्रमोदी मोस्को प्राप्तः।
Wednesday, December 23, 2015
कोल्क्कत्त- कोल्क्कात्तायां राज्यान्तरीयव्योमयान निलये बस् यानं विमानेन सह घट्टितम्। जेट्ट् एयर् वेय्सस्य भवति बस् यानम्। एयर् इन्त्यायाः स्थगिते विमाने आसीत् घट्टनम्। तस्मिन् समये विमाने यात्रिकाः नासीत्। विमान गृहे सुरक्षायाः अभावः अस्ति इति अनया दुर्घटनया सूच्यते। अस्य वर्षस्य शर्माजी पुरस्काराय टी. के सन्तोष्कुमार: चितः इति पुरस्कारनिर्णयसमित्या सूचितम् ।
Tuesday, December 22, 2015
नव दिल्ली- केरलस्य स्वाभिमाने भवतः केरला मङ्गला इति नामके द्वे रेल् याने । केरलतः बहवः जनाः ताभ्यां यानाभ्यां यात्रां कुर्वन्तिI तत्र यात्रिकाणां कृते अवश्यसौकर्याणि अपि न सन्तिI दुष्टान्नं शुचित्वरहितः यानान्तर्भागः क्षालनाय दुर्लभं जलम् उपयोगेन नाशोन्मुखा शय्या जङ्गमदूरवाण्याः कृते विद्युत्प्रदानाय विद्युत्स्थानस्य अभावः दौर्लभ्यता च शय्या श्रेण्यां अधुनापि वर्तन्ते। यथाकालं यात्राशुल्कं वर्धन्ते तथा केरलानां यात्राक्ळेशः अपि।
जनानां कृते निर्वाचितै: नेतृभिः किमपि करणीयम्
![]() |
| उद्घाटनं - पेरुवा गीतामन्दिर् मठाधिपतिः वेदानन्द सरस्वती |
तोडुपुष़ा कुमारमङ्गलम् एम् .के .एन् एम्.एच् .एस् .एस् . मध्ये विश्वसंस्कृतप्रतिष्टानद्वारा आयोजित शिक्षक - प्रशिक्षण- शिबिरस्य उद्घाटनं कृत्वा भाषमाण आसीत् सः।
तपस्या अध्यक्षः प्रोफ़ पि जि हरिदासः अध्यक्ष आसीत्।
संस्कृतभारत्याः राज्याध्यक्षः एम् पि उण्णिकृष्णः भाषणं कृतवान्।
पि नारायणः मुख्यातिथिः आसीत् । केरलक्षेत्रसंरक्षणसमिति अध्यक्षः स्वामी अय्यप्पदासः मुख्यभाषणं कृतवान्। कुमारमङ्गलम् पञ्चायत् अध्यक्षः निसार् पष़ेरी , एम् .के .एन् एम्.एच् .एस् .एस् . प्राचार्यः के . अनिलः, विश्वसंस्कृतप्रतिष्ठानस्य कार्यदर्शी वि श्रीकुमारः , पञ्चायत् अङ्ग: उषाराजशेखरः धनेष्कुमारः , एम् . जी .राजशेखरः इत्येते भाषणं कृतवन्तः । शिबिरं २७ दिनाङ्के समाप्तिमेष्यति।
Monday, December 21, 2015
केरलेषु विपण्यां विक्रीयमानानि शाकादीनि विशलिप्ताः तेन कारणेन जनाः अर्बुदादिभिः रोगैः बाधिताः च। निरोधिताः कीटनाशिन्यः अधुनापि तमिल् नाडु राज्यस्य विपणिषु सुलभाः। केरलेषु उपयुज्यमानेषु शाकासु प्रतिशतनवतिपर्यन्तं 90% अपि तमिल् नाडु देशात् आगच्छति ।
बेय्जिङ् - दक्षिणचीनायां षेन् षान् नगरे गतदिने संवृत्ते भूपाते २२जनाः अदृश्याः अभवन्। नगरस्थे व्यावसायिकोद्यान एव दुरन्तः सञ्जातः। तत्र २२ भवनानि पूर्णतया मृदन्तर्भूतानि। अदृष्टेषु १७ पुरुषाः ५ महिलाश्च अन्तर्भवन्ति।
समीपस्थात् वप्रात् अशास्त्रीयं मृद्घननमेव दुरन्तकारणमिति उच्यते।
![]() |
| संस्कृतं किमर्थम् इति विषये प. नन्दकुमारः |











