OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 20, 2026

 भारते जातः योगः विश्वव्यापी जातः - यू एन् कार्यदर्शिमुख्यः।

न्यूयोर्के कृतं योगदिनाचरणम्। 

न्यूयोर्क्> पुरातनभारते लब्धजन्म योगदर्शनं ततः प्रसृत्य सर्वथा विश्वव्यापी अभवदिति संयुक्तराष्ट्रसंघटनस्य [U N] मुख्यकार्यदर्शी अन्टोणियो गुटरस् वर्यः अवोचत्। अन्ताराष्ट्रिय योगदिनाचरणस्य प्राक् कृते सन्देशे अस्ति गुटरस्य अयं परामर्शः। 

  यू एन् संस्थायाः भारतस्य स्थिरकार्यालयेन न्यूयोर्कस्थे आस्थाने गुरुवासरे १२ तमं अन्ताराष्ट्रयोगदिनं समाचरितम्। तत्रस्थायाः गान्धिप्रतिमायाः समीपे नयतन्त्रज्ञाः, यू एन् अधिकारिणः इत्यादयः योगासनानि कृतवन्तः। प्रायशः ८०० अधिकारिणः अस्मिन् कार्यक्रमे भागं गृहीतवन्तः।