इस्रयेलस्य लबननाक्रमणम्।
होर्मुस् पुनरपि पिहितम्।
टेहरानं> लबनने इस्रयेलस्य आक्रमणे अनुवर्तमाने होर्मुस् समुद्रधुनिः शनिवासरे इरानेन पिहितः। समुद्रसङ्कोचद्वारा कस्याः अपि महानौकायाः सञ्चारः नानुमोदयिष्यतीति इरानस्य केन्द्रसैनिकाधिकारिभिः उद्घोषितम्।
इरानस्य आनुकूल्येन प्रवर्तमानं हिस्बुल्ला संघटनं लक्ष्यीकृत्य अस्ति लबनने इस्रयेलः आक्रमणं । इदमाक्रमणं स्थगयितव्यमिति यू एस्-इरानसन्धेः व्यवस्थासु अन्यतमा आसीत्। सा एव इस्रयेलेन उल्लंघिता।
शान्त्युपस्थापनसन्धेः हस्ताक्षरीकरणं विधाय होराणामाभ्यन्तरे दक्षिणलबननस्य २० प्रदेशेषु इस्रयेलस्य आक्रमणं विधत्तम्। आक्रमणे २३ जनाः मृताः, १३ आहताः इति लबननेन निगदितम्।
