OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, June 20, 2026

 शान्त्युपस्थापनसन्धिम् उल्लंघ्य

 लबनने इस्रयेलस्य आक्रमणम्। 

१८ लबननीयाः ४ इस्रयेलिभटाश्च हताः। 

इरान-यू एस् अन्तिमसन्धिचर्चा परिवर्तिता।

सूरिच्> इरान-यू एसयोः  अन्तिमसन्धिचर्चाम् अनिश्चितत्वं निपात्य लबनने इस्रयेलस्य निशितमाक्रमणम्।

 बुधवासरे उपस्थापिते सन्धिपत्रे मुख्यव्यवस्थासु अन्यतमा आसीत् लबननं प्रति युद्धविरामः। तदुल्लंघ्य गुरुवासरे रात्रौ दक्षिणलबनने हिस्बुल्लासंघटनं लक्ष्यीकृत्य  इस्रयेलेन विधत्ते तीव्रे आक्रमणे १८  लबननीयाः हताः। हिस्बुल्लायाः प्रत्याक्रमणे  लफ्टनन्ट् केणल् पदीयम् अभिव्याप्य चत्वारः इस्रयेलिभटाश्च मृताः। अनेन शुक्रवासरे स्विट्सर्लान्टे आरब्धुं निश्चिता अन्तिमशान्त्यधिष्ठिता चर्चा व्याक्षिप्ता। चर्चायै यू एस् उपराष्ट्रपतिः जे डि वान्स् इत्यस्य स्विट्सर्लान्टं प्रति गमनं त्यक्तम्। 

  किन्तु, यू एस्-खत्तरयोः नेतृत्वे इस्रयेलेन इरानेन च सह विधत्तायां चर्चायां शुक्रवासरे आक्रमणनिवृत्तिरभवत्।