इरान-यू एस् शान्त्युपस्थापनसन्धिः
साक्षात् हस्ताक्षरीकृतः। 
शान्त्युपस्थापनसन्धिपत्रे डोनाल्ड ट्रम्पः हस्ताक्षरं करोति।
एविया (फ्रान्स्)> पश्चिमेष्यायां शाश्वतशान्तिम् उपस्थातुं लक्ष्यीकृत्य विस्तरचर्चायै मार्गदर्शकरूपः अल्पकालीनशान्तिसन्धिः बुधवासरे हस्ताक्षरीकृतः। जी-७ शिखरसम्मेलनस्थाने फ्रान्सस्थे एविया नगरे यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः फ्रन्ञ् राष्ट्रपतेः इमानुवल् मक्रोणस्य साक्षित्वे सन्धिपत्रे हस्ताक्षरीकृतवान्। ततः इरानस्य राष्ट्रपतिः मसूद् पेसष्कियानः टेहराने च सन्धिपत्रं हस्ताक्षरीकृतवान्।
एप्रिल् अष्टमदिनाङ्के प्रबलीभूतम् अल्पकालीनयुद्धविरामसन्धिं ६० दिनानि यावत् दीर्घीकर्तुम् उद्दिष्टः एव अयं सन्धिः। हस्ताक्षरीकरणेन सन्धिः प्रबलीकृत इति मध्यस्थराष्ट्रेण पाकिस्थानेन निगदितम्। प्रत्युत, इरानेन सन्धिलङ्घनं भवेत्तर्हि तं विरुध्य तीव्रं बोम्बाक्रमणं करिष्यतीति ट्रम्पः वार्ताहरान् प्रति भाषमाणावसरे प्रोक्तवान्।