OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, June 19, 2026

 फिफा विश्वचषकः।

कानडा खत्तरं भग्नीचकार। [६-०]

त्रितयं, २ रक्तदण्डपत्रं, घटनाबहुलम्। 

कानडायै लक्ष्यकन्दुकत्रयं सम्पादितवान् जोनाथन् डेविडः। 

वान्कूवर्> अद्य प्रत्युषसि  कानडायां वान्कूवर् क्रीडाङ्कणे सम्पन्ने कानडा - खत्तर प्रतिद्वन्द्वे प्रत्युत्तररहितैः षट् लक्ष्यकन्दुकैः कानडा खत्तरं भग्नीचकार। कानडायाः जोनाथन् डेविडः लक्ष्यकन्दुकत्रयं [hattrick goal] प्राप्तवान्। 

  आद्यन्तम्  अत्यन्तं कठोरया क्रीडया घटनाबहुला आसीत् स्पर्धा। कानडायाः घोरमाक्रमणं प्रतिरोद्धुं निन्द्यकर्माणि कुक्रीडाश्च  खत्तरीयाः प्रादर्शयन्। द्वौ खत्तरक्रीडकौ रक्तदण्डपत्रेण [red card] बहिर्गतौ। बहूनि पूर्वसूचनापत्राणि [yellow cards] च क्रीडानियन्त्रकेन प्रदर्शितानि। इस्मयिन् कोने नामकः कनेडियक्रीडकः गुरुतरेण आहतः। 

  जोनाथनस्य त्रीणि लक्ष्यकन्दुकानि  २९, ५४+२, ९०+३ निमिषेषु च जातानि। अपि च, कैल् लारिन् [१७], नतान् सालिसः [६४] च कानडायै लक्ष्यं प्राप्तवन्तौ। षट्सु अन्यदेकं खत्तरस्य मुहम्मद मनानी इत्यस्य स्वकीयलक्ष्यकन्दुकं [self goal] चासीत्।

  Latest newsLatest news