OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 18, 2026

 फिफा विश्वचषकः।

पोर्चुगलं समस्थितिं संबद्ध्य कोंगो।

कोंगोदलस्य योने विस्सा सम स्थिति कारण बी ते लक्ष्यकन्दुकं प्राप्नोति। 

हूस्टणः>  लयोणल् मेसी इव षष्ठवारं विश्वचषकं क्रीडता क्रिस्टियानो  रोणाल्डो वर्येण नीयमानं पोर्चुगलदलं कोंगो नामकस्य आफ्रिकीयदलस्य पुरतः समस्थित्या तृप्तिमभजत। रोणाल्डो वर्यस्य पादाभ्यां न किमपि लक्ष्यकन्दुकं प्रासूत च।

   क्रीडामारभ्य षष्ठनिमिषे एव जोवा नेविस् इत्यनेन कोंगो दलस्य  लक्ष्यकन्दुकजालं प्रकम्पितवतः पोर्चुगलात् आराधकाः बहु प्रतीक्षितवन्तः। किन्तु ४१ वयस्कः  'DR7' इति प्रख्यातः पोर्चुगलनायकः कोंगोक्रीडकैः बन्धनस्थः जातः। अपि च, तैः आक्रमणोत्सुकक्रीडा प्रदर्शिता। तस्याः परिणामः दृष्टश्च। प्रथमार्धकालस्य अपचयपरिहारसमयस्य [injury time] अन्तिमे निमिषे कोंगोदलस्य योने विस्सा नामकः स्वदलं पोर्चुगलेन समं नीतवान्। 

  ५२ वर्षेभ्यः परमेव कोंगो इति आफ्रिकादलं विश्वचषकं क्रीडति। १९७४ तमवर्षस्य  विश्वचषके तिस्रः स्पर्धाः क्रीडित्वा १४ कक्ष्यकन्दुकानि वशीभूय  एकमपि लक्ष्यकन्दुकं न दत्वा विरतस्य कोंगोदलस्य पुनर्जन्म गतरात्रौ दृष्टम्।