OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 19, 2026

 नीट् विषयः- उपदश छात्राः प्राणान् त्यक्तवन्तः। 

नवदिल्ली> नीट् यू जी पुनःपरीक्षायै कतिपयदिनेषु अवशिष्टेषु परीक्षायै सिद्धतां कुर्वाणाः उपदश छात्राः मानसिकसम्मर्देन विविधेषु राज्येषु प्राणान् त्यक्तवन्तः इति वृत्तान्तः। 

  दिल्ल्यां पालं निवासिनी रेणू (१७), राजस्थाने सीक्कर् जुन् जुनु प्रदेशीयः उमेष् माली (२२), दह्रादूणवासिनी रिया कुमारी (२३), तमिल नाटे कोयम्पुत्तूर निवासिनी अनुकीर्तना (१९) इत्येते मृतेषु केचन सन्ति।

   जूण् २१ तमे दिनाङ्के पुनः परीक्षां विना दोषं सञ्चालयितुं सर्वकारेण निश्चितमस्ति।