ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री स्ववृत्तिं पुनःप्रविष्टः। .jpeg)
ऋषि सुनकः।
लण्टनं> ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री ऋषि सुनकः पूर्वं भूतां वित्तकोशवृत्तिं पुनःप्रविष्टवान्। यू एस् राष्ट्रम् आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इति वित्तकोशालये [Bank] वरिष्ठोपदेशकरूपेण वृत्तिं पुनःप्राविशत्।
राजनैतिकसेवाम् आरब्धात् पूर्वम् ऋषि सुनकः यू एस् आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इत्यत्र 'अनलिस्ट्' पदीयः सन् वृत्तिं कृतवानासीत्। निर्वाचने पराभूय वर्षैकानन्तरमेव सः वृत्तिं प्रत्यागच्छति।
ब्रिटनस्य नियमानुसारं प्रशासनकाराः स्थानत्यागानन्तरं वर्षद्वयाभ्यन्तरे वृत्तिप्रवेशमिच्छन्तः तर्हि तेभ्यः 'बिसिनस् अपोयिन्ट्मेन्ट्स्' [Business appointments] उपदेशकसमित्याः अनुज्ञा आवश्यकी। बह्व्यः व्यवस्थाः परिपाल्य एव सुनकाय अनुज्ञा दत्ता।



.jpg)







.jpeg)
.jpeg)




.jpeg)
.jpeg)
