OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, September 30, 2025

 साफ् ऊन - १७ पादकन्दुकं 

भारतस्य वीरतापदम्। 

कोलम्बो> श्रीलङ्कायां कोलम्बो नगरे सम्पन्ने साफ् संघटनराष्ट्राणां ऊन १७ वयस्कानां पादकन्दुकवीरतास्पर्धायाः अन्तिमप्रतिद्वन्द्वे किरीटं भारतेन प्राप्तम्। अनुस्यूततया पञ्चमवारमेव भारतस्य किरीटप्राप्तिः। 

  अन्तिमस्पर्धायां बङ्गलादेशम् त्वरितनिर्णये [Shoot Out] ४ - १ इति लक्ष्यकन्दुकक्रमेण पराजयत। निश्चितसमये गणद्वयमपि २ - २ इति समस्थितिमभजताम्।

 लोरन्स बिष्णोयि संघः भीकरवादिसंघटनत्वेन कल्पितः।

लोरन्स् बिष्णोय्। 

ओट्टावा> कानडां केन्द्रीकृत्य   अधोलोकप्रवर्तनानि क्रियमाणः लोरन्स बिष्णोयि नामकः कुप्रसिद्धापराधी तस्य संघश्च कानडराष्ट्रेण भीकरवादिरूपेण विज्ञापितः।  अतीतैः कतिपयवर्षैः कानडायां विद्यमानां सिख-कानडीयनागरिकोपेतां खालिस्थानानुकूलसंस्थां विरुध्य प्रवर्तन्ते इत्यस्ति बिष्णोयिसंघं भीकरवादिनमिति कल्प्यमानस्य कारणम्। राष्ट्रमधिवसतां सर्वेषां सुरक्षा स्वकीयकर्तव्यमिति कानडायाः सामान्य सुरक्षामन्त्री गारी आनन्दसंग्री इत्यनेन निगदितम्। 

  २०२३ तमे वर्षे खालिस्थान विघटनवादिनेता हर्दीप सिंह निज्जर् इत्यस्य हत्यायाः पृष्ठतः बिष्णोयि इति सूचितमासीत्। तदनन्तरं नैकेषु विध्वंसकप्रवर्तनेषु च तस्य भागभागित्वं प्रमाणीकृतमासीत्। अत एव कानडायाः अयं प्रक्रमः। इदानीं भारते अहम्मदाबादस्थे सबर्मती कारागृहे बद्धः भवति लोरन्स बिष्णोयि।

Monday, September 29, 2025

 एष्या चषकः भारतेन प्राप्तः। 

पाकिस्थानं पञ्च द्वारकैः पराजयत।

विजयश्रीलालितः भारतगणः। 

दुबाय्> आपादचूडं किरीटयुद्धस्य अखिलमुत्साहं प्रदर्शितायाः टि - २० क्रिकट् एष्या चषकस्पर्धायाः अन्तिमे प्रतिद्वन्द्वे पाकिस्थानं पञ्च द्वारकैः पराजित्य भारतं किरीटं स्वायत्तीकृतवत्। 

  प्रथमं कन्दुकताडनं कृतवान् पाकिस्थानगणः १९. १ क्षेपणचक्रेषु १४६ धावनाङ्कान् सम्प्राप्य बहिरगच्छत्। भारतं तु प्रत्युत्तरताडने १९. ४ क्षेपणचक्रेषु ५ कन्दुकताडकान् विनष्टीकृत्य १५० धावनाङ्कान् सम्पाद्य लक्ष्यं प्राप। ५३ कन्दुकैः ६९ धावनाङ्कान् सम्पाद्य तिलकवर्मा अबाह्यः संवृत्तः। 

  प्रथमचरणे  ताडकद्वयस्य विनष्टे ११३ इत्येवं वर्तितस्य पाकिस्थानस्य ४ द्वारकाणि कुलदीप यादवेन ३० धावनाङ्कान् दत्वा उन्मूलितानि।

Sunday, September 28, 2025

 अफ्गानिस्थाने यू एस् सैनिककेन्द्रं न आवश्यकम् - चीनः रष्यः इरानः पाकिस्थानः च।

 न्यूयोर्क्> अफ्गानिस्थाने परिसरेषु च  सैनिककेन्द्राणां स्थापनां विरुद्ध्य  चीनः रष्यः इरानः पाकिस्थानः इत्येतानि राष्ट्राणि तेषां विप्रतिपत्तयः प्रकाशिताः। काबुलस्य शसनाधिकारः  भौगोलिकाम् अखण्डतां च अङ्गीकरणीया इत्यस्ति तेषाम्  आवश्यकता।

 तमिळ् नाट् देशीयस्य नटस्य तथा विजयस्य दलप्रचरणपर्यटने उपचत्वारिंशत् जनाः मारिताः।

  चेन्नै> तमिळक वेट्रिकष़कम् (TVK) इत्यस्य अध्यक्षेन विजयेन आयोजिते  दलप्रचरण-पर्यटने ४० जनाः इतः पर्यन्तं मारिताः। १११ जनाः व्रणिताः। एते आतुरालये चिकित्सायां वर्तन्ते। दलसमेलनेन जातः जनसमर्दः एव दुरन्तस्य कारणत्वेन उच्चते। सर्वकारेण  अन्वेषणं ख्यापितम् अस्ति।

 एष्या चषक टि - २० क्रिकट्।

भारत-पाकिस्थानकिरीटयुद्धम् अद्य। 

दुबाय्> आराधकैः आकांक्षया अवलोक्यमानायाः एष्या चषक टि - २० क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वः अद्य सम्पद्यते। क्रिकट्क्षेत्रे चिरवैरिणौ इति सङ्कल्प्यमानौ भारत- पाकिस्थानदलौ एव कीरीटाय स्पर्धिष्येते। रविवासरे रात्रौ अष्टवादने अस्ति स्पर्धा।

 गासायुद्धम् 'ऐ बन एस् ए' राष्ट्रसंघेन अपलपितम्। 

न्यूयूर्कः> गायायाम् इस्रयेलेन क्रियमाणं युद्धं भारत-ब्रसील-दक्षिणाफ्रिकाराष्ट्राणां गणेन ऐ बन एस् ए' नामकेन शक्तियुक्तम् अपलपितम्। अधिनिवेशितपालस्तीनदेशस्य वर्तमानावस्थायाम् आशङ्का अपि प्रकाशिता। 

  न्यूयोर्के सम्पद्यमानस्य यू एन् सामाजिकसभासम्मेलनस्य विरामवेलायामासीत् प्रस्तुतत्रिराष्ट्रसंघस्य उपवेशनम्। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः, ब्रसीलस्य विदेशकार्यमन्त्री मौरो वियेरा, दक्षिणाफ्रिकायाः विदेशकार्यमन्त्री सिन् डिसिवे चिकुङिगा इत्येते उपवेशने भागं कृतवन्तः। 

   दुर्भिक्षां निर्मीय तदेव आयुधम् इत्येवं रूपेण क्रियमाणस्य इस्रयेलचेष्टां राष्ट्रनेतारः विमृष्टवन्तः। गासायां सम्पूर्णयुद्धविरामः अपेक्षितः, बन्धिताः हमासेन मोचयितव्याः इति अभ्यर्थना राष्ट्रसंघेन पुनरावर्तिता।

Saturday, September 27, 2025

 सेवानिवृत्तेभ्यः 'मिग् विमानेभ्यः' राष्ट्रस्य विरामाभिवाद्यानि। 

३६ युद्धविमानानि, ६२ संवत्सराणां सेवा, त्रीणि युद्धानि।

चण्डिगढः> ६२ संवत्सराणि भारताय सेवाम् अनुष्ठीयमानानि ३६ संख्याकानि 'मिग् २१' नामकानि युद्धविमानानि सेवानिवृत्तानि अभवन्। चण्डीगढ़ वायुसेनानिलये आयोजिते कार्यक्रमे रक्षामन्त्रिणः राजनाथसिंहस्य नेतृत्वे राष्ट्रस्य आदराभिवाद्यानि समर्पितानि। 

  भारतीयवायुसेनायाः गभीरं शक्तिस्रोतः आसीत् मिग् २१ युद्धविमानानि। १९६३ तमे वर्षे मिग् विमानानि भारतसेनायाः अंशः  अभूत्। त्रिषु युद्धेषु भारताय अभिमानकराणि प्रवर्तनानि प्रदर्शितानि।

Friday, September 26, 2025

उद्योगात् निष्कास्यन्ते कर्मचारिणः।

  अमेरीकसंयुक्तराज्यस्य शासनं वित्तीयव्ययविषयके राजनैतिकविवादे निमग्नम्। अस्य विवादस्य परिणत्या शासनस्तम्भनस्य महान् सम्भवो जातः। एतदनुसृत्य वैट् हौस् सर्वाः सङ्घीयसंस्थाः सम्भाव्य पिधानाय सज्जतामाचरितुम् आदिशत्। शासनस्य व्ययविधेयकं काङ्ग्रेस् इति विधायिकायां डेमोक्रेट् -रिपब्लिक पक्षयोर्मध्यगतेन गतिरोधेन नानुमोदितम्। अतः यदि विधेयकमिदं नियतकालात् प्राक् न  अङ्गीकरिष्यते तर्हि अनेके शासकीयविभागाः स्वकार्याणि निश्चलीकरिष्यन्ति। एवं सति लक्षशः कर्मचारिणः उद्योगात् बहिः प्रेषयिष्यन्ते। यद्यपि राष्ट्रसुरक्षादिसम्बद्धा अत्यावश्यकसेवाः अनवरतं चलिष्यन्ति तथापि इतराणि नैकानि कार्याणि रुद्धानि भविष्यन्ति॥

 'रेल् यानात्' भारतस्य अग्निशस्त्र विक्षेपणपरीक्षणम्। 

२००० कि मी दूरपरिधिः; राष्ट्रे प्रथमम्। 

ओडीशयां रेल् अधिष्ठित जंगम विक्षेपिण्याः कृतस्य अग्निशस्त्र विक्षेपणस्य दृश्यानि।  

बालसोर् [ओडीशा]> रेल् अधिष्ठित जङ्गमविक्षेपस्थात् 'अग्नि'श्रेण्यामन्तभूतम् आग्नेयास्त्रं [Missile] विक्षिप्य भारतस्य विजयकरं परीक्षणम्। २००० किलोमीटर् दूरपरिधियुक्तं नवपरम्परायाः अग्नि-प्रैम् इति आग्नेयास्त्रमेव राष्ट्रस्य प्रतिरोध गवेषण विकसनसंस्था डि आर् डि ओ इत्यनेन विक्षिप्तम्।
  ओडीशायां बालसोर् इत्यत्र आसीत् विक्षेपप्रक्रिया सम्पन्ना।  राष्ट्रिय रेल् वे श्रृङ्खलया सह संयोज्य सविशेषरीत्या सज्जीकृतवेदिकातः प्रथमविक्षेपणं भवतीति रक्षामन्त्रिणा राजनाथ सिंहेन निगदितम्।

 'अण्डर् - १७' पादकन्दुकम्। 

भारतम् अन्तिमस्पर्धायाम्।

कोलम्बो> साफ् इत्यनेन आयोज्यमानायाः ऊनसप्तदशवयस्कानां [Under 17] पादकन्दुकस्पर्धामालिकायाः  अन्तिमस्पर्धां भारतगणं प्राविशत्। पूर्वान्त्यप्रतिद्वन्द्वे नेपालगणं प्रत्युत्तररहितेन  लक्ष्यकन्दुकत्रयेण पराजित्य एव भारतस्य अन्तिमस्पर्धाप्रवेशः।

 एष्या चषकान्तिमस्पर्धा

भारतस्य प्रतियोगी पाकिस्थानम्।

दुबाय्> एष्या चषक टि - २० क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वे रविवासरे भारतं पाकिस्थानेन सह स्पर्धिष्यते। गतदिने सम्पन्ने पाकिस्थान-बङ्गलादेशयोः 'सूपर् फोर्' प्रतिद्वन्द्वे पाकिस्थानं बङ्गलादेशं ११ धावनाङ्कैः पराजित्य अन्तिमचक्रं प्राविशत्। 

  प्रथमं कन्दुकताडनं कृतवत् पाकिस्थानं २० क्षेपणचक्रेषु अष्ट ताडकानां विनष्टे १३५ धावनाङ्कानि सम्प्रापयामास। बङ्गलादेशस्य प्रत्युत्तरताडनं ९ ताडकानां विनष्टे १२४ धावनाङ्कान् सम्प्राप्य समाप्तम्।

Thursday, September 25, 2025

 सि बी एस् ई १०, १२ परीक्षाः फेब्रुवरि १७ तमदिनाङ्कतः। 

नवदिल्ली> सि बी एस् ई संस्थायाः विद्यालयेषु १०, १२ कक्ष्ययोः वार्षिकपरीक्षाः २०२६ फेब्रुवरि १७ तमदिनाङ्कतः आरप्स्यन्ते। दशमिकक्ष्यापरीक्षायाः अंशद्वयं भविष्यति। प्रथमपरीक्षा फेब्रुवरि १७ तमदिनाङ्कतः मार्च् ६ पर्यन्तं, द्वितीया परीक्षा मेय् १५ तमतः जूण् प्रथमदिनाङ्कपर्यन्तं च विधास्यति इति परीक्षाचालकः सन्यं भरद्वाजः निगदितवान्। प्रथमतया एव दशमकक्ष्यापरीक्षा वारद्वयेन विधास्यते।

 एष्या चषक क्रिकट्

भारतम् अन्तिमस्पर्धां प्राविशत्। 

दुबाय्> बङ्गलादेशं ४१ धावनाङ्कैः पराजित्य भारतम् एष्या चषक टि - २० क्रिकट् स्पर्धापरम्परायाः अन्तिमचक्रं प्राविशत्। 'सूपर् फोर्' इति चतुष्कक्रीडायां स्पर्धाद्वयमपि भारतेन विजितम्। गुरुवासरे सम्पद्यमानस्य पाकिस्थान-बङ्गलादेशप्रतिद्वन्द्वस्य विजयिदलेन सह भारतस्य अन्तिमस्पर्धा सम्पत्स्यति।

 'ले' इत्यत्र प्रक्षोभः अक्रमोपेतः।

४ मरणानि।

ले मध्ये संवृत्तस्य अक्रमस्य दृश्यम्। 

ले [लडाकः]> केन्द्रप्रशासनप्रदेशे लडाके राज्यपदं पुनःस्थापनीयम्, प्रदेशः शासनसंविधानस्य ६तमे विभागे [षेड्यूल्] अन्तर्भावयितव्यः इत्यादीनि आवश्यकानि उन्नीय राजधानीनगरे ले मध्ये विधत्तमानः प्रक्षोभः अक्रमपूर्णः अभवत्। संघर्षे चत्वारः जनाः हताः। रक्षिपुरुषान् अभिव्याप्य ४५ जनाः आहताः। 

  रक्षिपुरुषैः कृतेन भुषुण्डिप्रयोगेणैव चतुर्णां प्राणहानिरिति प्रक्षोभकाः आरोपयन्ति। प्रदेशे निरोधाज्ञा उद्घोषिता। प्रकृतिसंरक्षणप्रवर्तकः सोनं वाङ् चुक् इत्यनेन आरब्धम् अनशनान्दोलनं स्थगितम्। 

  वर्षचतुष्टयं यावत् ले प्रदेशे आन्दोलनकार्यक्रमाः अनुवर्तमानाः आसन्। गतदिने तत् अक्रमोपेतमभूत्।

Wednesday, September 24, 2025

 मोहन लालस्य संस्कृतप्रतिभां प्रकीर्त्य राष्ट्रपतिः।

कर्णभारं नाटके कर्णस्य वेषं धृत्वा मोहन लालः।

नवदिल्ली> दादा साहेब फाल्के पुरस्कारप्राप्तस्य मोहन लालस्य संस्कृतभाषानुरागितां विज्ञाय राष्ट्रपतिः द्रौपदी मुर्मू अद्भुतमभिमानं च प्राकटयत्। पुरस्कारदानानन्तरं लालस्य चलच्चित्रयात्रां विशदीकुर्वत् षट् निमेषदीर्घयुक्तं वीडियोप्रदर्शनं कृतम्। तत्र 'कर्णभारम्' इति भासनाटके कावालं नारायणपणिक्कर् वर्यस्य निदेशकत्वे कर्णस्य अंशमभिनीतवान्। तद्दृष्ट्वा आसीत् मुर्मूवर्यायाः अभिनन्दनम्। 

  केरले मोहन लालस्य संस्कृतसम्बन्धप्रवर्तनानि भाषाभ्युदयकांङ्क्षिणाम् अभिमानास्पदं भवति। 'जनम्' इति कैरलीवार्ताप्रणाल्यां प्रतिदिनसंस्कृतवार्तासंप्रेषणं संस्कृतवार्तावाचनेन अनेन महानटेन समुद्घाटितम्। इदानीमपि १५ निमेषात्मकं 'वार्तासंस्कृतम्' जनं टि वि मध्ये प्रचलदस्ति। संस्कृतोत्कर्षपरासु अनेकासु  परियोजनासु मोहनलालः भागं कृतवानस्ति।

Latest News


 पालस्तीनः फ्रान्सेनापि अङ्गीकृतः। 

यू एन्> स्वतन्त्र परमाधिकारराष्ट्ररूपेण पालस्तीनः फ्रान्सेनापि अङ्गीकृतः। इस्रयेलस्य अमेरिकायाः च सख्यराष्ट्रमस्ति फ्रान्सः। सोमवासरे यू एन् संस्थायाः सामान्यसभायाः सम्मेलने आसीत् फ्रान्सस्य राष्ट्पतिः इम्मानुवल् मक्रोणः इत्यस्य एतादृशम् उद्घोषणम्।

 कोल्कोत्तायाम् अतिवृष्टिः - नव मृताः। 

कोल्कोत्ता> दिनद्वयेन पश्चिमवंगस्य बहुषु प्रदेशेषु अतिवृष्टिरनुवर्तते। कोल्कोत्तानगरे परिसरप्रदेशेषु च जनजीवनं स्तम्भायितम्। अतिवृष्टिदुष्प्रभावेण नव जनाः मृत्युमुपगताः। विद्युदाघातेन एव बहूनि मरणानि। 

  रेल् मार्गाः विमाननिलयः च जलनिमग्नाः अभवन्। नगरे बस् यान - रेल् यानगमनागनानि छिन्नभिन्नानि जातानि। वंगसमुद्रान्तराले जातः न्यूनमर्द एव कठिनवृष्टेः कारणम्।

Tuesday, September 23, 2025

 "चलच्चित्रम् आत्मनः स्पन्दनम्" - मोहन लालः। 

फाल्के पुरस्कारः मोहनलालेन स्वीकृतः।

मोहन लालः राष्ट्रपतेः पुरस्कारं स्वीकरोति। 

नवदिल्ली> विज्ञानभवने सम्पन्ने प्रौढगम्भीरे कार्यक्रमे राष्ट्रस्य परमोन्नत चलनचित्रपुरस्कारः - दादा साहेब फाल्के पुरस्कारः - राष्ट्रपतिना द्रौपदी मुर्मू महाभागया कैरल्याः 'महानटाय' मोहनलालाय समर्पितः। ७१ तमः राष्ट्रिय चलच्चित्रपुरस्कारसमर्पणकार्यक्रमे आसीत् २३ तमं फाल्के पुरस्कारं मोहनलालः स्वीकृतवान्। "भवान् कश्चन सर्वोत्कृष्टः अभिनेता" इति वार्ताविनिमयवितरणमन्त्री अश्विनी वैष्णवः लालवर्यं अभिनन्दति स्म। 

  एषः पुरस्कारः मलयालचलच्चित्रमण्डलाय समर्प्यते इति कृतज्ञताप्रकाशने मोहन लालेन प्रोक्तम्। "चलच्चित्रमिति मम आत्मनः स्पन्दनं भवति।" लालस्य हृदान्तरालात् निर्गलितं वाक्यं श्रुत्वा प्रोक्षकाः श्रोतारश्च अभिमानपुलकिताः जाताः।

Latest News


 अमीबिकमस्तिष्कज्वरः

एकोSपि मृतः। 


अनन्तपुरी> केरले इतरः ५९ वयस्कः अपि अमीबिकमस्तिष्कज्वरेण मृत्युमुपगतः। गते दिनद्वये ५ जनाः अपि विविधजनपदेषु अमीबिकमस्तिष्कज्वरबाधिताः जाताः। 

  मलप्पुरं जनपदस्थे वष़िक्कटव् , कोष़िक्कोट्स्थे ओमश्शेरी, इटुक्कीस्थे राजाक्काट्, कोल्लं जनपदस्थे चवरा इत्येतेभ्यः प्रदेशेभ्यः नूतनतया रोगग्रस्ताः इति प्रत्यभिज्ञाताः।

 जि एस् टि परिष्करणम्

प्रयोजनं जनेभ्यः लब्धुं निरीक्षणं कर्कशं करोति। 

अनन्तपुरी>केन्द्रप्रशासनेन विधत्तस्य जि एस् टि परिष्करणस्य प्रयोजनं जनेभ्यः लभते इति दृढीकर्तुं केन्द्र वित्तमन्त्रालयस्य निर्देशः। राज्येषु वर्तमानाः केन्द्रीय पण्यकरवस्तुकार्यालयाः एव एवंप्रकारेण निर्दिष्टाः। 

  औषधानि, नित्योपयोगवस्तूनि, इलेक्ट्रोनिकोत्पन्नानि चाभिव्याप्य ५४ प्रकरणानि सविशेषनिरीक्षणे सन्ति। एषां करन्यूनीकरणात् पूर्वं परं च मूल्यं विशकलनं कृत्वा आवेदनसमर्पणाय एव निर्देशः।

 द्वौ मावोनेतारौ व्यापादितौ। 

नारायणपुरं> प्रतिशीर्षं ४० रूप्यकाणि मूल्यं विज्ञापितौ द्वौ समुन्नतौ मावोवादिनेतारौ सुरक्षासेनया सह प्रतिद्वन्द्वे निहतौ। छत्तीसगढे नारायणपुरे महाराष्ट्रं स्पृशति अभुजमादवने सोमवासरे प्रभाते आसीत् प्रतिद्वन्द्वः। 'कम्युनिस्ट पार्टी  ओफ् इन्डिया (मावोयिस्ट्) ' इत्यस्य केन्द्र समिति सदस्यौ नाम्ना राजुदादा इत्याह्वयमानः कट्ट रामचन्द्र रेड्डिः [६३], कोस दादा इति कथ्यमानः कदारि सत्यनारायण रेड्डिः [६७]  इत्येतौ एव निहतौ।

Monday, September 22, 2025

पलस्तीनदेशस्य मान्यता त्रिभिर्राष्ट्रैरभ्युपगता।

कानडा ओस्ट्रेलियाराष्ट्रयोः पदवीमनुसृत्य संयुक्तराज्यमपि (UK) पलस्तीनदेशस्य औपचारिकमान्यताप्रदानस्य निर्णयम् अघोषयत्। एते त्रयो देशाः पश्चिम-एषियाखण्डे स्थायिशान्तिम् आनेतुम् इमम् पदक्षेपम् आवश्यकम् मन्यन्ते। इदम् राजतीतिकम् परिवर्तनम् अन्येषाम् ऐरोप्यराष्ट्राणां पूर्वनिर्णयानामनुसरणं करोति। तेषाम् सर्वेषाम् उद्देश्यम् इज्रेलपलस्तीनयोर्मध्ये विद्यमानस्य सङ्घर्षस्य समाधानाय द्विराष्ट्र व्यवस्थायाः सर्जनम् अनिवार्यम् अस्ति। युक्तराज्यस्य शासनेन सूचितम् यद् इयम् मान्यता योग्ये काले प्रदास्यते यदा सा शान्तिप्रक्रियायाम् अधिकतमं योगदानं कर्तुं शक्नुयात्। एतेन निर्णयेन अन्ताराष्ट्रिये स्तरे पलस्तीनस्य स्थितये नूतनं बलं संप्राप्तम्॥

 धनार्जनोत्सवः समारब्धः - नरेन्द्रमोदी। 


नवदिल्ली> 'जि एस् टि २.०' इति पण्यसेवाकरपरिष्करणं राष्ट्रस्य आर्थिकमण्डलस्य समग्रपरिष्करणस्यापि प्रारम्भ अभवदिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्।  गतदिने सायं  राष्ट्रमभिसंबोधयन् भाषमाणः आसीदयम्। सोमवारे आरभ्यमाणस्य पण्यसेवाकरपरिष्करणस्य परिणामः भारतस्य आर्थिकाभिवृद्धिः अस्ति। नवरात्रुत्सवस्य प्रथमे दिने राष्ट्रम् आत्मनिर्भरभारतमिति दर्शनस्य नूतनपदक्षेपं करोति इति मोदिवर्यः अवोचत्।

 जि एस् टि परिष्करणम् अद्य  आरभ्य प्रवृत्तिपथमागच्छति।

१७५ वस्तूनां मूल्यं नयूनीकरोति। 

नवदिल्ली> पण्य-सेवाकरे [जि एस् टि] केन्द्रप्रशासनेन विधत्तं बृहत्तमं परिष्करणं सोमवासरतः प्रबलं भवति। १२, २८ इति प्रतिशतश्रेणीकरणं अपहाय ५, १८ प्रतिशतश्रेणीद्वयं प्रतिष्ठापितम्। अनेन ९०% वस्तूनां मूल्यं न्यूनीभविष्यतीति केन्द्रप्रशासनेन निगदितम्। 

  मध्यस्तरीयवाहनानि, ३३ प्राण सुरक्षौषधानि इत्यादीनि अभिव्याप्य १७५ उत्पन्नानां मूल्यं न्यूनीभविष्यतीत्यत‌ः सामान्यजनानां जीवनभारं लघूभविष्यति।

 भीकरसंघटनानि निवेशस्थानं परिवर्तयन्ति। 

श्रीनगरं> ओपरेषन् सिन्दूरात् परं पाकिस्थाने आस्थानं कुर्वन्ति जय्षे मुहम्मद्, हिस्बुल् मुजाहिदीन् इत्यादीनि भीकरसंघटनानि तेषां निवेशस्थानं परिवर्तयितुमारभन्त।पाकिस्थानधीनकाश्मीरतः खैबर् पख्तूण ख्व इत्यत्र एव भीकराः तेषां निवेशस्थानपरिवर्तनम्। 

  ओपरेषन् सिन्दूरं नामके सेनाप्रक्रमे भीकराणां नव आवासशिबिराणि भारतसेनया विनाशितानि। पुनः आक्रमणं भवेदिति भीतिः भीकरसंघटनेषु वर्तते।

Sunday, September 21, 2025

 पराश्रयत्वमेव भारतस्य रिपुरिति नरेन्द्रमोदी।

आत्मनिर्भरता एव परिहारः। 

भावनगरं> राष्ट्रस्य आवशयकताभ्यः इतरराष्ट्राणि आश्रयणीयानि इत्येव भारतस्य महान् रिपुः इति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। यावत् विदेशराष्ट्राणि आश्रयति तावत् भारतस्य पराजयः वर्धिष्यते इति गुजराते भावनगरे ३४,२०० कोटि रूप्यकाणां परियोजनानाम् उद्घाटनं शिलान्यासं च कुर्वन् भाषमाणः आसीत् मोदिवर्यः। आत्मनिर्भरता एव अस्य परिहारः इति तेनोक्तम्। 

  शुल्कयुद्धस्य अनुगमनेन एछ् १ बी विसापत्रस्य वार्षिकवेतनस्य वर्धापनं च पुरस्कृत्य आसीत् प्रधानमन्त्रिणः परामर्शः।

 भारतं प्रति ट्रम्पस्य दाहकक्रिया। 

'एछ् १ बी विसा'पत्रस्य उपायनं ८८ लक्षरूप्यकरूपेण वर्धापितम्। 

वाषिङ्टणः> यू एस् राष्ट्रे कार्यं कर्तुम् अभिलषताम् ऐ टी उद्योगिनः अभिव्याप्य सर्वेषां भारतीयानां मुख्याकर्षकरूपेण वर्तमानस्य 'एछ् १ बी विसा'पत्रस्य [प्रवेशानुमतिपत्रं] संवत्सरीयप्रतिफलं राष्ट्रपतिना डोनाल्ड ट्रम्पेन वर्धापितम्। वर्तमानीनकाले प्रस्तुतविसापत्राय १. ४९ लक्षंतः ४. ४ लक्षं रूप्यकाणि एव यू एस् राष्ट्रस्य कर्मदानसंस्थाभिः सांवत्सरीयः  व्ययः। एतदेव ८८ लक्षं रूप्यकाणीति वर्धितम्। 

  कर्मकुशलान् विदेशीयकर्मकरान् यू एस् संस्थाभ्यः अल्पकालिकरूपेण नियोक्तुं अनुज्ञां दीयमानं पत्रमस्ति 'एछ् १ बी विसा'पत्रम्। ऐ टि, स्वास्थ्यपरिपालनं, तन्त्र विज्ञानमित्यादिषु क्षेत्रेषु अस्य पत्रस्य विनियोगः। वर्षत्रयमेव कालपरिधिः। षट्वर्षपर्यन्तं विसापत्रं नवीकर्तुमर्हति। कर्मकरेभ्यः कर्मप्रदातृसंस्थाभिः अपेक्षा करणीया। 

  प्रतिवर्षं अनुमोदितेषु विसापत्रेषु भूरिसंख्या भारतीयेभ्यः एव प्राप्यते। २०२४ तमे वर्षे ७१% भारतीयाः अमेरिकन् विसापत्राणि प्राप्तवन्तः। अतः ट्रम्पस्य एषः प्रक्षेपः भारतीयानां महान् प्रत्याघातः भवति।

Saturday, September 20, 2025

 मोहन लालाय दादा साहेब फाल्के पुरस्कारः।


नवदिल्ली> २०२३ तमवर्षस्य दादा साहेब फाल्के पुरस्कारः कैरल्याः महते अभिनेत्रे मोहन लालाय दीयते। भारतीयचलनचित्रमण्डले दीयमानः सर्वश्रेष्ठपुरस्कारो भवति फाल्के पुरस्कारः।

  अभिनयः, चलच्चित्रनिर्माणम्, इत्यादिषु क्षेत्रेषु मोहन लालेन कृतं समग्रं योगदानं पुरस्कृत्य एव पुरस्कारप्राप्तिरिति वार्तावितरणमन्त्रालयेन निगदितम्। नैकवारं भरतपुरस्कारेण समादृतः अस्ति मोहनलालः। सैप्टम्बर् २५ तमे दिनाङ्के आयोज्यमाने राष्ट्रियपुरस्कारप्रदानवेलायां एषः पुरस्कारः अपि प्रदास्यते।

Latest News

 असमस्य अर्धसेनिकवाहनं प्रति 

मणिपुरे प्रच्छन्नाक्कमणम्।

द्वौ भटौ वीरमृत्युं प्रापतुः। 

व्रणिताः भटाःआतुरालयं नीयन्ते। 

इम्फालः> असं रैफिल्स् इति अर्थसेनाविभागस्य वाहनं लक्ष्यीकृत्य मणिपुरे विधत्ते  प्रछन्नाक्रमणे द्वौ सैनिकौ वीरमृत्युं प्रापतु‌। पञ्च भटाः व्रणिता‌ः जाताः। 

  विष्णुपुरं जनपदे नम्बोल् सबाल् लय्का इत्यत्र शुक्रवासरे सायमासीत् आक्रमणम्। असं रैफिल्स् इत्यस्य ३३ तम एककस्य ट्रक् यानं प्रति अज्ञातसंघः निलीय भुषुण्डिप्रयोगं कृतवानासीत्। निरुद्धसायुधसंघः नाम्ना पीपिल्स् लिबरेषन् आर्मी [People Liberation Army] अस्ति आक्रमणस्य पृष्ठतः इति सूच्यते।

 यू एस् दण्डशुल्कः

नवम्बरमासे परिहारो भवेत् - मुख्यार्थिकोपदेष्टा।

कोल्कोत्ता> आमेरिकया सह भारतस्य  शुल्कसमस्यानां नवम्बरमासाभ्यन्तरे परिहारः भवेदिति भारतस्य मुख्यार्थिकोपदेष्टा वि अनन्तनागेश्वरः प्रतीक्षां प्राकटयत्। 

  यू एस् - भारतयोर्मध्ये चर्चाः प्रचलन्ति। कोल्कोत्तायां 'भारत् चेम्बर् ओफ् कोमेर्से' इत्यनेन आयोजिते कार्यक्रमे भाषमाण आसीत् अनन्तनागेश्वरः।

Friday, September 19, 2025

 चतुर्दशवर्षीयस्य बालस्य हृद्रोग-प्रत्यभिज्ञानकौशलम्।

   टेक्सस्-राज्यस्य फ्रिस्कोनगरनिवासी चतुर्दशवर्षीयो नन्द्यालसिद्धार्थः सर्केडियन्ए ए ऐ नामकम् एकं कृत्रिमप्रज्ञाधारितम् अनुप्रयोगं व्यरचयत्। अयं चानुप्रयोगः केवलं सप्तक्षणेषु ९८+% (षण्णवत्यधिकप्रतिशतम्) परिशुद्धतया हृद्रोगं प्रत्यभिज्ञातुं प्रभवो भविष्यति। अमेरिकाभारतदेशयोः पञ्चशताधिकाष्टादशसहस्र-रुग्णेषु अस्य परीक्षणं कृतम् अधुना च चिकित्सावृत्तिकैः (clinical professionals) प्रयुज्यते। सः पूर्वमेव एकं STEM उपक्रमं (startup) प्रारभत साम्प्रतं च ओस्टिन्नगरे टेक्सस्-विश्वविद्यालये सङ्गणकविज्ञानम् अधीयमानः श्वासकोश-रोगस्य शीघ्रप्रत्यभिज्ञानार्थं नूतनम् अनुसन्धानं करोति। अनेन प्रकारेण किशोरा एव स्वास्थ्यसंरक्षणस्य भविष्यं रचयन्ति॥

Thursday, September 18, 2025

 गासा सिट्यां द्वितीयदिनेSपि कठोरमाक्रमणम्। 

बुधवासरे ३५ मरणानि। 

गासा सिटी> गासां मृत्युक्षेत्रं कुर्वन् गासा सिट्याम् इस्रयेलस्य स्थल-व्योमाक्रमणं कठोररीत्या अनुवर्तते। स्थाक्रमणस्य द्वितीयदिने ३५ जनाः मृत्युमुपगताः। रन्तीसी इत्यत्रस्थं शिशूनामातुरालयं लक्ष्यीकृत्य त्रिवारं तीव्रमाक्रमणमभवदिति गासायां स्वास्थ्यमन्त्रालयेन प्रस्तुतम्। दिनद्वये मृत्युसंख्या सप्ततिरतीता।

Wednesday, September 17, 2025

 नरेन्द्रमोदी @ ७५!


नवदिल्ली> भारतस्य प्रधानमन्त्री नरेन्द्र दामोदर्दास मोदी [नरेन्द्रमोदी] अद्य पञ्चसप्तत्यायुः भवति। १९५० सेप्टम्बर् १७ तमे दिनाङ्के गुजरातराज्ये लब्धजन्मा अयं भारतस्य प्रधानमन्त्रिपदे १२तमं वर्षं प्रविशति च। राष्ट्रं प्रगतिं प्रोन्नतिं च नीयमानः तथा च विश्वराष्ट्रैः दत्तकर्णः राष्ट्रनायकः इति ख्यातिं सः प्राप्तवान्। २४ होराः प्रवर्तननिरतः कर्मयोगी मोदिवर्यः आराधकानां समादरणीयः राजनैतिकमूर्तिः अस्ति। किन्तु तीव्रहिन्दुत्वदेशीयतां एकाधिपत्यप्रवणतां च राष्ट्रस्य परिवर्तनं मोदिप्रशासने भवन्निति राजनैतिकप्रतिद्वन्द्विनः विमृशन्ति। लोकतन्त्रं राष्ट्रसंविधानं च दुर्दशामाप्नोतीति ते तर्कयन्ति। 

  परन्तु राष्ट्रं विश्वस्य अग्रतां प्रापयितुं कृतनिश्चयः मोदिवर्यः अद्य सप्ताहद्वयं दीर्घमानस्य राष्ट्रव्यापक स्वास्थ्य-पोषकभोज्यप्रचरणस्य मध्यप्रदेशे समारम्भं करिष्यति। 

  डोनाल्ड ट्रम्पमभिव्याप्य बहवः राष्ट्रनेतारः नरेन्द्रमोदिने जन्मदिनाशंसाः समर्पितवन्तः।

 मेघविस्फोटनम् 

हिमाचले उत्तराखण्डे च १३ मरणानि। 

देह्रादूणः> उत्तराखण्डे सहस्रधारा नाम्नि पर्यटनकेन्द्रे कुजवासरे दुरापन्ने मेघविस्फोटनोद्भूते प्रलयदुरन्ते १० जनाः मृत्युमुपगताः। असंख्यं जनाः तिरोभूताः। वीथयः, सेतवः, भवनानि च विशीर्णानि। गर्वालक्षेत्रे व्यपकतया विनाशः अभवत्। 

  हिमाचले माण्डि इत्यत्र वासगृहस्य उपरि शिलाखण्टपातेन परिवारस्थाः त्रयः मृताः। बहुत्र वृष्टिदुष्प्रभावः विद्यते। मणिपुरे अपि कठिना वृष्टिः अनुभूयते।

 गासायाम् इस्रयेलस्य स्थलसेनायाः आक्रमणम्। 

गतदिने ७८ मरणानि। 

गासायाम् इस्रयेलस्य आक्रमणम्।

जरुसलेमः> यू एस् विदेशकार्यसचिवस्य हमासोन्मूलनप्रख्यापनस्य अनुबन्धेन इस्रयेलः स्थलाक्रमणं तीव्रं कारितम्। कुजवासरे गासासिटी स्थानस्य अन्तः प्रविश्य कृते आक्रमणे ७८. गासानिवासिनः हताः। असंख्यं जनाः व्रणिताः जाताः। 

  "गतरात्रौ अस्माभिः युद्धस्य प्रमुखः पदक्षेपः कृतः। गासासिट्यां स्थलाक्रमणं विपुलीकृतम्।" - इस्रयेलस्य सेनावक्ता अविचाय् आन्डेली नामकः निगदितवान्। यत्र आक्रमणं प्रचलति तत्र २००० - ३००० हमासीयाः विद्यन्ते इति सेनया अभिमानितम्। किन्तु गासाक्रमणं यू एन् संस्थया, यूरोपीयराष्ट्रसंघटनेन च अपलपितम्। हमासोन्मूलनं न, गासासिट्याः संग्रहणमेव अस्य युद्धस्य लक्ष्यमिति राष्ट्रनेतारः आरोपितवन्तः।

Tuesday, September 16, 2025

सम्प्रतिवार्तापत्रिका दशसंवत्सराणि अतीता 


 त्रयः मावोवादिनः व्यापादिताः।

अन्यतमः कोटिरूप्यकाणि शिरोमूल्यं कल्पितः। 

हसारिबागः> झार्खण्डस्थे हसारिबागे प्रमुखाः त्रयः मावोवादिनेतारः संयुक्तसेनया सह प्रतिद्वन्द्वे व्यापादिताः। गोहार् आरक्षकस्थानावधौ पन्तित्रि नामके वने सोमवासरे उषसि आसीत् प्रतिद्वन्द्वः। 

  हतेषु एकः नाम्ना सहदेव सोरनः एककोटिरूप्यकाणि शिरोमूल्यं प्रकल्पितः आसीत्। अन्यः रघुनाथ हेब्राम इत्यस्य २५ लक्षं, अपरः बीर्सेन् इत्यस्य दलक्षं च रूप्यकाणि शिरोमूल्यम् उद्घोषितमासीत्।

 केरले 'अमीबिक मस्तिष्कज्वरः' व्याप्यते। 

आहत्य १९ मरणानि।


अनन्तपुरी> जलाशयेभ्यः प्रसार्यमाणः अमीबिक मस्तिष्कज्वरः नामकरोगबाधया केरलराज्ये  अस्मिन् वर्षे अद्यावधि १९ जनाः मृता इति स्वास्थ्यविभागेन निगदितम्।  २० जनाः रोगबाधया राज्यस्य विविधस्थानेषु परिचर्यायां वर्तन्ते। 

  अनन्तपुरी सर्वकारीयवैद्यककलालये [Govt.Medical College] इदानीं ११ जनाः अमीबिकज्वरेण परिचर्यायां वर्तन्ते। कोष़िकोट्, कोल्लम् इत्यादिषु जनपदेषु रोगबाधा दृश्यते।

 हमासः उन्मूलनीय इति यू एस् विदेशकार्यसचिवः।

जरुसलेमः> गासायुद्धे इस्रयेलाय अचञ्चलमनुकूलनम् उद्घोषयन् यू एस् राष्ट्रस्य विदेशकार्यसचिवः मार्को रूबियो। हमासं उन्मूलनं कर्तुं स्वराष्ट्रस्य आलम्बः भविष्यतीति इस्रयेले सन्दर्शनं कुर्वन् सः उदघोषयत्। "हमासस्य उन्मूलनेन  विना गासीयजनेभ्यः श्रेष्ठजीवनं प्रदातुं न शक्यते" वार्ताहरान् प्रति सोSवदत्। 

  अमेरिकायाः अवष्टम्भे इस्रयेलप्रधानमन्त्री बञ्चमिन नेतन्याहु‌ः डोनाल्ड ट्रम्पाय कृतज्ञतां प्रकाशितवान्।

 आर्. वैशाली किरीटं प्राप्तवती।


समर्खण्डः>  उस्बकिस्थाने समर्खण्डप्रदेशे प्रचलिते 'फिडे महिलाग्रान्ट् स्विस्' चतुरङ्गप्रतिद्वन्द्वे भारतस्य आर्. वैशाली किरीटं प्राप्तवती। अनुस्यूततया द्वितीयवारमेव वैशाल्याः किरीटप्राप्तिः। अनेन विजयेन विश्ववीरतास्पर्धायां अन्तिमप्रतिद्वन्द्विनः अधिगन्तुमुद्दिष्टं 'कान्डिडेट् टूर्णमेन्ट्' इत्यमुं  च वैशाली योग्यतां प्राप्तवती। 

   अन्तिमचक्रप्रतिद्वन्द्वे चीनस्य टान् सोङ्गी नामिकां समस्थितिं गृहीत्वा एव चेन्नै निवासिनी भारतस्य 'ग्रान्ड्मास्टर्' पदीया वैशाली किरीटं प्राप्तवती। २०२३ तमे वर्षे अपि एषा एव विजेत्री अभवत्।

 असमे भूचलनम्। उत्तरपूर्वीयराज्येषु प्रकम्पनम्। 

गुवाहाट्टी> असमराज्ये रिक्टर् अङ्कने ५. ९ अङ्कितं भूचलनमभवत्। उत्तरपूर्वीयराज्येषु पश्चिमवंगे च अस्य प्रकम्पनमभवत्। रविवासरे सायमासीत् भूचलनम्। 

  असमे द्वौ आहतौ। नैकानि गृहाणि विशीर्णानि। चत्वारि भूचलनानि असमे अङ्कितानि। इतरस्थानेषु जातानि प्रकम्पनानि अधिकृत्य वृत्तान्ताः न बहिरागताः।

Monday, September 15, 2025

 नेपाले मार्च् ५ तमे सार्वजनिकनिर्वाचनम्। 

काठ्मण्डुः> सामाजिकमाध्यमनिरोधनेन जाते प्रक्षोभझंझावाते के पि शर्मा ओली सर्वकारस्य उन्मूलनमापन्ने नेपालराष्ट्रे २०२६ मार्च् पञ्चमदिनाङ्के    सार्वजनीननिर्वाचनं विधास्यति। राष्ट्रपतेः रामचन्द्र पौडेलस्य कार्यालयेन निगदितमिदम्। 

  निर्वाचनस्य कार्यकर्तृत्वमावहितुं राष्ट्रे शान्तिपुनःसंस्थापयितुं  च भूतपूर्वमुख्यन्यायाधिपायाः सुशीलाकर्क्याः नेतृत्वे अल्पकालीनसर्वकारः शुक्रवासरे शपथवाचनं करोति स्म।

 एष्या चषक क्रिकट् 

पाकिस्थानं विरुध्य भारतस्य उज्वलविजयः। 

कुलदीपयादवः - ३ द्वारकाणि, ४७*, श्रेष्ठक्रीडकः। 


दुबाय्> अत्रस्थे अन्तर्देशीयक्रीडाङ्कणे सम्पन्ने भारत-पाकिस्थानयोः क्रिकट्प्रतिद्वन्द्वे भारतस्य उज्वलविजयः। पाकिस्थानं सप्त द्वारकैः पराजयत। 

  प्रथमं कन्दुकताडनं कृतवन्तं पाकिस्थानगणं २० क्षेपणचक्रेषु ९ ताडकान् बहिर्नीत्वा १२७ धावनाङ्कैः भारतगणं बबन्ध। प्रत्युत्तरताडने १५.५ क्षेपणचक्रेषु केवलं त्रयाणां द्वारकाणां विनष्टे १३१ धावनाङ्कान् प्राप। 

  भारताय 'स्पिन्'क्रीडकः नायकः च कुलदीप यादवः त्रीणि द्वारकाणि सम्प्राप्तवान्। सः अबाह्यः सन् ४७ धावनाङ्कान् सम्प्राप्य श्रेष्ठक्रीडकपदमपि अवाप। अनेन विजयेन त्रीन् विजयानवाप्य भारतम् ए नामके स्वकीये संघे  प्रथमगणनीयतामवाप।


 मणिपुरे पुनरपि संघर्षः।

इम्फालः> प्रधानमन्त्री नरेन्द्रमोदी मणिपुरराज्यं सन्दर्श्य यदा  निवृत्तवान् तदनन्तरं चुराचन्दपुरे पुनः संघर्षः आपन्नः। प्रधानमन्त्रिणः सन्दर्शनवेलायां ये  अलङ्करणवस्तूनि विनाशितवन्तः ते निगृहीताः आसन्। एतत् विरुध्य सुरक्षासेनां प्रति पाषाणखण्डविक्षेपः जातः।

 केरले विधानसभासम्मेलनम् अद्य आरभ्यते। 


अनन्तपुरी> केरलस्य १४ तमविधानसभायाः १५तमं सम्मेलनं सोमवासरे आरभ्यते। १७ विधेयकानि परिगणनार्हाणि सन्ति। तेषु आक्रमणकारिणां वन्यजीविनां वधसम्बन्धविधेयकं प्राधान्यमर्हति। एतदभिव्याप्य त्रीणां विधेयकानां नियमपरिरक्षणाय राष्ट्रपतेः अनुज्ञा आवश्यकी। 

  सम्मेलनस्य त्रीणि सोपानानि भविष्यन्ति। प्रथमसोपानं १५ तमदिनाङ्कतः १९ पर्यन्तं भविष्यति। २९, ३० दिनाङ्कयोः द्वितीयं, ओक्टोबर् ६ - १० तृतीयं च।

Sunday, September 14, 2025

 मणिपुरे प्रशान्तिं पुनःस्थापयिष्यति - प्रधानमन्त्री। 


चुरा चन्दपुरं> मणिपुरराज्ये विनष्टां  शान्तिं पुनःसंस्थायितुं यतिष्यते इति  प्रधानमन्त्री नरेन्द्रमोदी उद्घोषितवान्। केन्द्रप्रशासनं मणिपुरेण सह वर्तते इति प्रधानमन्त्रिणा उक्तम्। 

  ह्यः चुरा चन्दपुरे ७३०० कोटिरूप्यकाणां विकसनभण्डागारस्य उद्घाटनं कृत्वा अनन्तरं जनान् प्रति भाषितवान् प्रधानमन्त्री मणिपुरं शान्तेः समृद्धेः च प्रतीकं करिष्यतीति उक्तवान्। राज्यात् ये निष्कासिताः तेषां पुनरधिवासाय ७००० वासगृहाणि निर्मास्यन्ति। तदर्थं ३००० कोटिरूप्यकाणाम् अभियोजना उद्घोषिता आसीत्। सविशेषसाहाय्यार्थं ५०० कोटिरूप्यकाणां परियोजना अपि विज्ञापिता। 

  अतिवृष्टिकारणेन इम्फालतः वीथीद्वारा एव प्रधानमन्त्री चुराचन्दपुरं प्राप्तवान्। राज्यपालः अजयकुमार भल्ला इत्यादयः कार्यक्रमे भागं गृहीतवन्तः। इम्फाले १२०० कोटि रूप्यकाणां १७ परियोजनाः अपि प्रधानमन्त्रिणा विज्ञापिता। २०२३ मेय् मासे वंशीयकलहारम्भात् परं प्रथमतया एव प्रधानमन्त्री नरेन्द्रमोदी मणिपुरं प्राप्तवान्।

 गणेशमूर्तिघोषयात्रां प्रति 'ट्रक् यानं' संघट्य नव मरणानि। 

दुर्घटनादृश्यम्। 

हासन्> कर्णाटके गणेशमूर्ति निमज्जन घोषयात्रां प्रति अमितशीघ्रेण आगतं ट्रक् यानं संघट्य नव जनाः मृताः। विंशत्यधिके कठिनतया व्रणिताः। 

  गतरात्रौ होले नरसिंहपुरमित्यत्र होसहल्लीस्थाने आसीदियं दुर्घटना। व्रणिताः हासने विविधान् आतुरालयान् प्रवेशिताः। ट्रक् यानस्य अमितशीघ्रता एव दुरन्तकारणमिति सूच्यते। दुर्घटनानन्तरं चालकः पलायितवान्।

प्रगत्यर्थं शान्तिरावश्यकी मणिपूरस्य सौन्दर्यं हिंसया दूषितम्। - नरेन्द्रमोदी

   प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् कस्यापि क्षेत्रस्य समुन्नत्यै शान्तिपूर्णं वातावरणम् अत्यावश्यकं वर्तते। तेनोदितं यद् विगतकाले मणिपूरराज्ये प्रवृत्ता हिंसाचाराः राष्ट्रस्य कृते महतीं चिन्ताम् अजनयन्। एभिः सङ्घर्षैः न केवलं जनजीवनम् अस्तव्यस्तम् अभवत् अपितु तस्य प्रदेशस्य नैसर्गिकं सांस्कृतिकं च वैभवं कलङ्कितं जातम्। अतः शान्तेः पुनःस्थापनाय सर्वे नागरिकाः समेत्य प्रयतेरन्निति प्रधानमन्त्रिणा समाहूतम्। केन्द्रशासनमपि राज्ये सौहार्दपुनर्निर्माणाय सर्वथा प्रतिबद्धमस्तीति तेन दृढीकृतम्॥

Saturday, September 13, 2025

 प्रधानमन्त्री अद्य मणिपुरे।


नवदिल्ली> वंशीयकलहेन कलुषितं मणिप्पुरं राज्यं प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे सम्पश्यति। भूरिशः  कुक्की समुदायांगैः अधिवसन्तं चुराचन्दपुरम्, इम्फाल इत्येतेषु प्रदेशेषु कतिपयकार्यक्रमेषु प्रधानमन्त्री भागं करिष्यति।

  २०२३ मेय् मासे प्रक्षोभमारभ्य ८६४ दिनानन्तरमेव प्रधानमन्त्री मणिप्पुरं प्राप्नोति। चुराचन्दपुरे होर्टोक्की-तैरङ्ग रेल् मार्गं सः उद्घाटनं करिष्यति। ७३०० कोटि रूप्यकाणां विकसनाभियोजनानां शिलान्यास अपि तेन करिष्यते।

 'जेन् सी' प्रक्षोभः - ५१ जनाः हताः ।

एकः भारतीयः। 

नेपालं शान्तिमुपगच्छति।

काठ्मण्डुः> युवजनानां प्रक्षोभेण कलुषितः  नेपालदेशः क्रमेण शान्तिमुपगच्छति। दिनद्वयेन अक्रमघटनाः न वृत्तान्तीकृताः। किन्तु सेनया विधत्तं 'कर्फ्यू' नामकनियन्त्रणम् अनुवर्तते। 

  प्रत्युत, अद्यावधि अक्रमघटनासु एकं भारतीयं,  त्रीन् रक्षिपुरुषान् चाभिव्याप्य ५१ जनाः हताः इति आधिकारिकतया स्थिरीकृतम्। विशदांशाः न लब्धाः। वृत्तान्तप्रसारणे अपि  नियन्त्रणं वर्तते इति सूच्यते।

 सुशीला कर्की नेपालस्य ह्रस्वकालीनप्रधानमन्त्री।

राष्ट्रस्य प्रथमा महिलाप्रधानमन्त्री।

सुशीला कर्की राष्ट्रपतेः रामचन्द्र पौडेनस्य पुरतः शपथवाचनं करोति। 

काठ्मण्डुः> युवजनानां प्रक्षोभकारणात् प्रधानमन्त्री के पी शर्मा ओली इत्यस्य स्थानभ्रष्टेन नेपालदेशे सञ्जातस्य राजनैतिकानिश्चितत्वस्य अल्पकालीनविरामः। ह्रस्वकालीनप्रधानमन्त्रिरूपेण नेपालस्य  सर्वोच्चन्यायालयस्य भूतपूर्वीया मुख्यन्यायाधिपा सुशीला कर्कीवर्या [७३] शपथवाचनं कृतवती। शुक्रवासरे रात्रौ नववादने आसीत् कार्यक्रमः। नेपालस्य प्रप्रथमा महिलाप्रधानमन्त्री अस्ति सुशीला कर्कीवर्या।

  सामाजिकमाध्यमानां निरोधः, भ्रष्टाचारः, स्वजनपक्षपातित्वम् इत्यादीनि विरुध्य 'जेन् सी' नामकप्रक्षोभकाणां सम्मर्देन प्रधानमन्त्री के पी ओली शर्मा स्थानभ्रष्टः अभवत्। [१९९७ तमवर्षस्य २०१२ तम वर्षस्य चाभ्यन्तरे लब्धजन्मनां संघटनमस्ति 'जेन् सी'।] ततः सेनाधिकारिणः राष्ट्रपतिः रामचन्द्र पौडेनः इत्यादिभिः सह प्रक्षोभकारिणां प्रतिनिधिभिः कृतायाः चर्चायाः परिणामो भवति सुशीलावर्यायाः शपथवाचनम्। नेपालस्य प्रथमा महिला सर्वोच्चमुख्यन्यायाधिपा तथा  प्रथमा महिलाप्रधानमन्त्री च भवति सुशीला कर्कीवर्या।

 सि पि राधाकृष्णः शपथवाचनमकरोत्। 

नवदिल्ली> भारतस्य १५ तमोपराष्ट्रपतिरूपेण सि पि राधाकृष्णः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः पुरतः शपथवाचनमकरोत्। प्रधानमन्त्री नरेन्द्रमोदी इतरे मन्त्रिणः नेतारश्च कार्यक्रमेSस्मिन् भागमकुर्वन्। भूतपूर्वः उपराष्ट्रपतिः जगदीपधन्करश्च सन्निहित आसीत्।

Friday, September 12, 2025

 सि पि राधाकृष्णः अद्य शपथवाचनं करोति। 

नियुक्तोपराष्ट्रपतिः सि पि राधाकृष्णः। 

नवदिल्ली> नियुक्तोपराष्ट्रपतिः सि पि राधाकृष्णः  भारतस्य १५ तमः उपराष्ट्रपतिः इति रूपेण शपथवाचनं करोति। अद्य प्रभाते दशवादने राष्ट्रपतिभवने आयोज्यमाने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू प्रतिज्ञावाचनं कारयिष्यति। 

  तमिलनाडु राज्यीयः सि पि राधाकृष्णः  ततः उपराष्ट्रपतिरूपेण चितानां मध्ये तृतीयो देशस्नेही भवति। तमिलनाटे भाजपादलस्य वरिष्ठसेवार्थी इति प्रवर्तितः सः २०२४ तमे वर्षे महाराष्ट्रस्य राज्यपालत्वेन नियुक्तवानासीत्।  गतदिने सः तत्स्थानस्य परित्यागं कृतवान्।  

  जुलाई २१ तमे दिनाङ्के जगदीप धन्करः उपराष्ट्रपतिपदं त्यक्तवान् इत्यतः नूतनोपराष्ट्रपतिनिर्वाचनम् आवश्यकमभवत्।

Latest news


Thursday, September 11, 2025

 पालियेक्करा वीथीशुल्कनिरोधः दीर्घितः। 

पालयेक्करा वीथीशुल्कसंग्रहणकेन्द्रम्। 

कोच्ची> केरले राष्ट्रियमार्गे - NH 544 - पालियेक्करा इत्यत्र उच्चन्यायालयेन विहितः वीथीशुल्कनिरोधः सेप्टम्बर् १५ तम दिनाङ्कपर्यन्तं दीर्घितः। 

  तात्कालिकसेवामार्गस्य न्यूनतापरिहारकर्णाणि समुचितरीत्या पूर्तीकर्तुं देशीय राष्ट्रियमार्गाधिकरणसंस्था [NHAI] निर्दिष्टा इति जनपदाधिकारी अर्जुन पाण्ड्यः न्यायालयं निगदितवान्। केन्द्रसर्वकाराय सोलिसिटर् जनरल् पदीयः ए आर् एल् सुन्दरेशः समुपस्थितः आसीत्।

 नेपाले प्रशासनविरुद्धप्रक्षोभः तीव्रः।

राष्ट्रपतिः, प्रधानमन्त्री, इतरे मन्त्रिणश्च स्थानत्यागं कृतवन्तः।

नेपालेयुवकप्रक्षोभस्य दृश्यम्। 

'जेन् सी' आन्दोलनमनुवर्तते। 

काठ्मण्डुः> नेपालराष्ट्रे सामाजिकमाध्यमानां निरोधात् गतशुक्रवासरे आरब्धः  युवजनानां छात्राणां च प्रक्षोभः दिनद्वयेन सीमामुल्लङ्घितः। आराष्ट्रं प्रक्षोभकारिणः अक्रमासक्ताः अभवन्। प्रधानमन्त्री के पि शर्मा ओली स्थानमत्यजत्। दिनद्वयानन्तरं राष्ट्रपतिः रामचन्द्रपौधेनः त्यागपत्रं समर्पितवान्। इतरे मन्त्रिणोSपि प्रभोक्षसम्मर्देन स्थानं त्यक्तवन्तः। आराष्ट्रम् अरक्षितावस्था वर्तते। प्रशासननियन्त्रणं सैन्येन स्वीकृतमिति सूच्यते। 

  कतिपयमासेभ्यः पूर्वं नेपालप्रशासनस्य अत्याचारमधिकृत्य युवजनैः  फेस् बुक्, इन्स्टग्रामः, वाट्स् आप् इत्यादिसमाजिकमाध्यमद्वारा प्रतिषेधचर्चाः, बोधवत्करणमित्यादीनि आरब्धानि। प्रशासनं विरुध्य जनानां प्रतिषेधे शक्ते जाते सर्वकारेण २६ सामाजिकमाध्यमाः निरुद्धाः। युवकानां प्रक्षोभः 'जेन् सी' [Gen Z] आन्दोलनमिति व्यवहृतः। आक्रमणे कलहे च १९ जनाः हताः; ३४५ जनाः आहताः इति सेनाधिकारिभिः सूचितम्। 

  अतीते सोमवासरे सामाजिकमाध्यमनिरोधः अपसृतः अपि युवजनप्रक्षोभः अनुवर्तमानः अस्ति। राष्ट्रे विद्यमानाः भ्रष्टाचाराः, कर्माभावः, दारिद्र्यावस्था इत्येते उन्मूलनीयाः इत्येव युवकानाम् लक्ष्यम्।

Wednesday, September 10, 2025

 एष्याचषकहोकी - भारतमजय्यं; किरीटप्राप्तिः। 

भारतदलस्य आह्लादः। 

+ विश्वचषकस्पर्धां प्रति योग्यताप्राप्तिः। 

+ दिल्प्रीत सिंहस्य युगलक्ष्यकन्दुकप्राप्तिः। 

राजगिरिः> होक्कीस्पर्धायां भारतमजय्यमिति एकवारमपि प्रमाणीकृत्य बिहारे राजगिरौ सम्पन्नायां एष्याचषकयष्टिक्रीडावीरतास्पर्धायां भारतस्य किरीटोपलब्धिः। अत्यन्तमुत्साहभरिते अन्तिमप्रतिद्वन्द्वे ४ - १ इति लक्ष्यकन्दुकक्रमेण दक्षिणकोरियां पराजयत। अनेन एष्याचषकविजयेन भारतं आगामिवत्सरे सम्पत्स्यमाने पुरुषाणां विश्वचषकप्रतिद्वन्द्वे क्रीडितुं योगतामवाप। 

  अष्ट संवत्सरेभ्यः परमेव एष्याचषके भारतस्य किरीटप्राप्तिः। २८, ५४ निमेषतमे दिल्प्रीत सिंहः लक्ष्ययुगलं प्राप्तवान्। तमतिरिच्य सुखजीत सिंहः, अमित रोहितदासः च एकैकं लक्ष्यकन्दुकं च सम्प्राप्य भारतस्य अजय्यताम् उद्घोषितवन्तौ। दक्षिणकोरियायाः डेय्न् सणः  लक्ष्यमेकं सम्पाद्य दक्षिणकोरियायै आश्वासं चकार। आहत्य सम्पन्नेषु ६ प्रतिद्वन्देषु एकस्मिन्नपि भारतं पराजयं नानुबभूव। पञ्च विजयाः, एका समस्थितिश्च।

 सि पि राधाकृष्णः भारतस्य १५तमः उपराष्ट्रपतिः।


नवदिल्ली> गतदिने  सम्पन्ने उपराष्ट्रपतिनिर्वाचने एन् डि ए सख्यस्य स्थानाशी सि पि राधाकृष्णः विजयी अभवत्। ७६७ लोकसभा-राज्यसभासदस्याः स्वाभिमतं प्रकटितवन्तः। तेषु ७५२ मतानि साधूनि अभवन्। तत्र ४५२ मतानि राधाकृष्णेन प्राप्तानि। प्रतिद्वन्दी बी सुदर्शन रड्डिः ३०० मतानि प्राप्तवान्। राज्यसभायाः कार्यकर्ताप्रमुखः [Secretary General] निर्वाचनप्रक्रियायाः अधिकारी आसीत्। 

  भारतस्य १५ तमः उपराष्ट्रपतिः सि पि राधाकृष्णः तमिलनाटतः तृतीयः उपराष्ट्रपतिः अस्ति। प्रथमः उपराष्ट्रपतिः डा एस् राधाकृष्णः, द्वितीयः आर् वेङ्किट्टरामश्च। सि पि राधाकृष्णवर्यः तमिलनाटीय भा ज पादलस्य वरिष्ठनेता अस्ति।

Tuesday, September 9, 2025

 उपराष्ट्रपतिनिर्वाचनम् अद्य। 

नवदिल्ली> भारते उपराष्ट्रपतिनिर्वाचनस्य मतदानप्रक्रिया अद्य प्रातः १० वादनतः ५ वादनपर्यन्तं प्रचलिष्यति। एन् डि ए सख्यस्य स्थानाशिरूपेण सि पि राधाकृष्णः, ऐ एन् डि ऐ ए सख्यस्य स्थानाशिरूपेण न्याया. बि सुदर्शन रड्डिः च शक्तिपरीक्षणे वर्तेते। लोकसभा-राज्यसभयोः सदस्याः उपराष्ट्रपतिनिर्वाचने मतदानं करिष्यन्ति।

 रूसीयविश्वविद्यालयेषु हिन्दी अध्ययनं व्यापकं कारयते।

मोस्को> रष्यादेशे हिन्दीभाषायां व्यापकतया तात्पर्यं वर्धते। अतः विश्वविद्यालयेषु नूतनतया हिन्दी अध्ययनम् आरब्धुं निर्णयः कृत इति रूसीयोन्नतस्तरीयशैक्षिकसहमन्त्री अवदत्। 

   "रष्यायामध्ययनं कुर्वन्तः छात्राः दैनन्दिनजीवने आङ्गलमपेक्षया हिन्दीभाषायै प्रामुख्यं कल्पयन्ति। तथा च रूसीयछात्रेष्वपि हिन्दीतात्पर्यं दृश्यते। अत एव अधिकेषु विश्वविद्यालयेषु हिन्दी अध्यापनस्य निर्णयः कृतः।"- मन्त्रिणा विशदीकृतम्। इदानीं मोस्कोक्षेत्रे केवलं चतुर्षु विश्वविद्यालयेषु हिन्दी अध्ययनं वर्तते।

Monday, September 8, 2025

 अद्य अन्ताराष्ट्रिय विद्यावत्तादिनम्। 

> आविश्वं जनान् विद्यावन्तः कर्तुं विद्यावत्तायाः प्राधान्यं जनानुद्बोधयितुं च सेप्टम्बर् अष्टमदिनाङ्कः अन्ताराष्ट्रीय विद्यावत्तादिनत्वेन आमन्यते। १९६७ तमे वर्षे आसीत् युनेस्को संस्थया प्रथमं दिनमिदं अन्ताराष्ट्रीय विद्यावत्तादिनत्वेन आमिनितुं निर्णय‌ः कृतः। 

   व्यक्तेः सामाजिक-आर्थिक-सांस्कृतिकविकासाय विद्यावत्ता अत्यन्तापेक्षितमिति सार्वदेशीयेन अङ्गीक्रियते। 'अस्मिन् डिजिटल् [digital]युगे विद्यावत्ताप्रोत्साहन'मिति अस्य वर्षस्य ध्यानास्पदविषयः।

 प्रलयबाधितानि उत्तरभारतराज्यानि प्रधानमन्त्री सम्पश्यति।


चण्डीगढः>  अतिवृष्ट्या प्रलयेन च महान्तं क्लेशमनुभवन्ति उत्तरभारतराज्यानि प्रधानमन्त्री नरेन्द्रमोदी अचिरेण सन्द्रक्ष्यति। कुजवासरे पञ्चाबं प्राप्स्यमाणः मोदिवर्यः गुरुदासपुरजनपदं सन्द्रक्ष्यति। अतीतेषु ५० संवत्सराभ्यन्तरेषु जातात् अधिककठिनतीव्रप्रलयः अस्मिन् वर्षे अत्र जातः। आराज्यं १३,२८९ कोटिरूप्यकाणां नाशः आपन्न इति राज्यसर्वकारस्य गणना। 

  पुनरागम्यमानेषु दिनेषु हिमाचलप्रदेशः, जम्मुकाशमीरम्, उत्तराखण्डः इत्येतानि राज्यान्यपि प्रधानमन्त्री सन्द्रक्ष्यति । एतानि राज्यानि अतिरिच्य दिल्ल्यामपि अतिवृष्टिदुष्प्रभावः तीव्रेण बाधते स्म। 

  पूर्वोक्तेषु राज्येषु वृष्टेः लघुशमनमभवदपि जनजीवनं सामान्यस्तरं नापन्नम्।

 नासायाः यानत्रितयम् एकक्षेपण्या सूर्यमभिलक्ष्य।

    पञ्चविंशत्यधिकद्विसहस्रतमे सप्ताम्बर् मासे नासाशासनमेकम् अनन्यसाधारणम् अभियोजना आरप्स्यते। अस्या: अभियोजनाया: वैशिष्ट्यमिदं यदेकेनैव प्रक्षेपणयानेन त्रीणि पृथक् वैज्ञानिकानि कार्याणि अन्तरिक्षं प्रेषयिष्यन्ते येषां मुख्यं लक्ष्यं सूर्यस्याध्ययनं भविष्यति।

Sunday, September 7, 2025

 अद्य पूर्णचन्द्रग्रहणम्। 


विरलः 'रक्तचन्द्र'प्रतिभासः द्रष्टुं शक्यते।

कोच्ची> सेप्टम्बर् ७ रात्रौ ८. ५८ वादनतः आरभ्य अष्टमदिनाङ्के प्रत्युषसि २. २४ वादनपर्यन्तं विश्वस्य बहुषु भागेषु पूर्णचन्द्रग्रहणं सम्भविष्यति। भारतमतिरिच्य अशेषम्  एष्याभूखण्डं, आफ्रिकायाः पूर्वभागः, आस्ट्रेलिया इत्येतेषु प्रदेशेषु अयं दृश्यविस्मयः अनुभोक्तुं शक्यते।

  अद्य रात्रौ ११ वादने चन्द्रः पूर्णतया आच्छाद्यते। तदा Blue Moon इति चन्द्रे रक्तवर्णप्रतिभासः द्रष्टुं शक्यते।

 ट्रम्प्मोदिनोः मैत्री इदानीमपि स्थिरा।

  भारतसंयुक्तराज्ययोः राजनय-संबन्धविषये भारतशासनस्य विदेशकार्यमन्त्री एस्॰जयशङ्करः स्वविचारान् प्राकाशयत्। तेन प्रतिपादितं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः संयुक्तराज्याध्यक्षस्य डोणाल्ड् ट्रम्पस्य च मैत्री अद्यापि सुदृढा वर्तते। शीघ्रमेव एतौ नेतारौ दूरभाषेण संवदेताम् इति अपि तेन सूचितम्। उभयोः राष्ट्रयोः मध्ये विद्यमानानां केषाञ्चित् राजनय संबन्धविवादानां परिस्थित्याम् इदं सम्भाषणमतीव महत्त्वपूर्णं मन्यते। एषा वार्ता राष्ट्रद्वयस्य सम्बन्धेषु नूतनम् अध्यायम् उद्घाटयिष्यतीति आशास्यते॥


Latest News


 गुजराते 'कार्गो रोप् वे' [Cargo Ropeway] प्रभञ्य षट् मरणानि।

दुर्घटनादृश्यम्।

अहम्मदाबादः>  राज्ये पावगढ् इत्यत्र कालिक मातामन्दिरस्य पुनर्निर्माणे उपयुज्यमानं 'कार्गो रोप् वे' प्रभञ्ज्य ट्रोलीयन्त्रं  विशीर्य ६ कर्मकराः अकालमृत्युं प्राप्ताः। 

  शनिवासरे सायं ५. ३० वादने आसीत् दुर्घटना। द्वौ लिफ्ट् चालकौ, द्वौ कर्मकरौ, इतरौ द्वौ एव मृताः। चत्वारः आहताः। ८०० मीटर् मितम् उच्चे वर्तमाने स्थाने अस्ति मन्दिरम्। तत्र सामानानि आनेतुम्  रोप् वे द्वारा ट्रोली उपयुज्यमानमस्ति। एतत् रोप् वे एव भग्नम्।

 आरक्षकस्थानेषु 'सि सि टि वि छायाग्राहिण्यः' [CCTV Cameras] न सन्ति।

सर्वोच्चन्यायालयेन अपराधप्रकरणं पञ्जीकृतम्। 


नवदिल्ली> आराष्ट्रं सर्वत्र आरक्षकस्थानेषु सि सि टि वि छायाग्राहिण्यः' कार्यक्षमाः न वर्तन्ते इत्यतः भारतस्य सर्वोच्चन्यायालयेन स्वेच्छया अपराधप्रकरणं पञ्जीकृतम्। 

  आरक्षकस्थानेषु मानवाधिकारध्वंसनानि निरोधुम् उद्दिश्य २०१८ तमे वर्षे सर्वेषु आरक्षकस्थानेषु सि सि टि वि छायाग्राहिण्यः स्थापनीयाः इति सर्वोच्चन्यायालयेन आदिष्टम्। किन्तु राष्ट्रे अतीतेषु अष्टसु मासेषु ११ निगृहीतजनाः आरक्षकसकाशे हताः इति माध्यमवार्तानुसारमेव प्रकरणं स्वीकृतम्।

 केरले २० पेटिकायुक्तं वन्दे भारत रेल् यानं कुजवासरात् आरभ्य। 

कण्णूर्> १६ पेटिकाभिः  सह सेवां कुर्वत् आलप्पुष़ा मार्गेण सञ्चरत् मङ्गलुरु-अनन्तपुरी वन्दे भारत रेल् यानं [२०६३१/ २०६३२]  नवमदिनाङ्कतः २० पेटिकाभिः सह सेवां करिष्यति। अनेन यात्रिकाणां संख्या ३२० वर्धापयित्वा १३३६ भविष्यति।

Saturday, September 6, 2025

 एष्या चषक होक्की

'सूपर् 4 मध्ये अद्य चीन-भारतस्पर्धा। 

भारतगणं स्पर्धामध्ये।

विजयी चेत् अन्तिमस्पर्धायाम्।

राजगिरिः> बिहारस्थे राजगिरौ प्रचाल्यमानायाः एष्या चषक होक्कीस्पर्धायाः  'सूपर् 4' नामकपूर्वान्त्यप्रतिद्वन्द्वस्य तृतीयचरणे अद्य भारतं चीनेन सह स्पर्धते। रात्रौ ७. ३० वादने एव स्पर्धा। भारतगणम् अद्य विजयं प्राप्स्यते तर्हि अन्तिमस्पर्धां प्रवेक्ष्यति। 

  इदानीं भारतस्य द्वाभ्यां 'सूपर् 4' स्पर्धाभ्यां चत्वारः अङ्काः सन्ति। गतदिने मलेष्यां ४-१ लक्ष्यकन्दुकरीत्या पराजयत। इतरस्मिन्  'सूपर् 4' प्रतिद्वन्द्वे मलेष्या कोरियां प्रति स्पर्धते।

 ट्रम्पं प्रति पुतिनस्य कठोरविमर्शः।

चीनं भारतं च ट्रम्पस्य व्यवहारः सीमातीतः। 

पुतिनः ट्रम्पश्च। (छायाचित्रसंग्रहात्)

बीजिङ्> अधिकशुल्कमभिव्याप्य आर्थिकप्रक्रमान् उपयुज्य भारतस्य चीनस्य चोपरि यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन उपयुज्यमानः सम्मर्दः सीमातीत इति रूसराष्ट्रस्य अधिपः व्लादिमीर पुतिनः व्यमर्शयत्। "'कोलनिवत्करणस्य' कालः अतीतः इति ट्रम्पेण स्मर्तव्यम्। १५० कोटिसंख्याकैः जनैः विश्वस्य बृहत्तमं जनाधिपत्यराष्ट्रं भवति भारतम्। तथा च सर्वथा विकसितराष्ट्रमस्ति चीनः। उभयोरपि राष्ट्रयोरभिमानः माननीयः" - पुतिनः प्रावोचत्। षाङ् हाय् शिखरसम्मेलने तथा चीनस्य 'मिलिटरि परेड्' इत्यस्मिन् च भागं कृत्वा, तस्मिन्नवसरे  वार्ताहरैः सह भाषमाणः आसीत् पुतिनः।

 '6G चिप्' साक्षात्कृत्य गवेषका‌ः। 

5G अपेक्षया दशगुणितस्य शीघ्रता।

AI उपयुज्य विरचितं ६जि चिपस्य प्रतीकात्मकचित्रम्।

कैलिफोर्निया> १०० क्षणमात्रे १०० गिगा बिट्स् [100 Gbs] मिताधिकम् अन्तर्जालीयशीघ्रतां सम्प्राप्तुं शक्तियुक्तं 'प्रोटो टैप् [prototype] '6G चिप्' गवेषकैः पुष्टीकृतम्। पेकिङ्ग् विश्वविद्यालयः, City University of Hongkong, University of California, Santa Barbara इत्येतेषु विश्वविद्यालयेषु गवेषणं कुर्वन्तः तन्त्रज्ञाः एव शास्त्रमण्डले एतादृशप्रगतेः कारणभूताः जाताः। 

  वर्तमानीनस्य ५ जि युक्तस्य   अधिकतमवेगात् दशगुणिता शीघ्रता ६ जि युक्तस्य अन्तर्जालस्य अस्ति। प्रायेण सर्वेषाम् उपभोक्तॄणां  सामान्यतया लभ्यमानात् वेगात् ५०० गुणितवेगः अनेन लभते इति 'नेचर् जेर्णल्' मध्ये प्रकाशिते लेखने सूचितमस्ति।  'मिल्लीमीटर्'मात्रमानयुक्तमिदं  चिप् उपकरणं ०.५ GHzतः  आरभ्य ११५ GHz पर्यन्तं विद्यमानस्य बृहत् frequency band मध्ये प्रवर्तयितुं शक्यम् इति लेखने विशदीक्रियते।

Latest News


Friday, September 5, 2025

 मणिप्पुरे राष्ट्रियवीथिम् पुनरुद्घाटयितुं कुक्किजनसमूहस्य सम्मतिः। 

राज्ये शान्तिस्थापनं लक्ष्यम्। 

नवदिल्ली> सामुदायिकसंघर्षेण अराजकत्वं वर्तमाने मणिप्पुरराज्ये शान्तिपुनःस्थापनाय केन्द्रसर्वकार-कुक्किसमुदायश्च मिथः सन्धिमकुर्वाताम्। यात्रिकाणां सञ्चारसुविधायै अवश्यवस्तूनां सुगमानयनाय च इम्फाल-चुराचन्दपुरं राष्ट्रीय मार्गः [NH 2] पुनरुद्घाटयितुं कुक्कीसमुदायसंघटनेन अनुज्ञा दत्ता। राज्ये शान्तिसंस्थापनाय सुरक्षासेनया सह सर्वथा आनुकूल्येन व्यवहरिष्यतीति  'कुक्की सो कौसिल्' [KZC] संस्थया शपथं कृतम्। सेप्टम्बर् द्वितीयवारे प्रधानमन्त्री नरेन्द्रमोदी मणिप्पुरं सन्द्रक्ष्यति इत्यतः अयं पदक्षेपः प्राधान्यमर्हति।

 सेप्टम्बर् ७, ८ दिनाङ्कयोः भारते पूर्णं चन्द्रग्रहणम्। 

केरले 'रक्तचन्द्र'प्रतिभासः।

कोच्ची> आगामिरविवासरे सोमवासरे च आकाशम् अपूर्वविस्मयदृश्यस्य वेदिका भविष्यति। सेप्टम्बर् सप्तमदिनाङ्के पूर्णिमायां ९ वादनतः अष्टमदिनाङ्कस्य  [सोमवासरः] प्रत्युषसि २. २४ पर्यन्तं चन्द्रग्रहणं भारते अनुभववेद्यं भविष्यति। न केवलं भारते अपि तु एष्याभूखण्डमशेषं, आफ्रिकाखण्डस्य पूर्वभागेषु, आस्ट्रेलियायां च एषः दृश्यविस्मयः अनुभविष्यते। 

 रविवासरे रात्रौ ११ वादने चन्द्रः पूर्णतया आच्छाद्यते। तदा केरले चन्द्रस्य रक्तवर्णप्रतिभासः [Blue Moon] द्रष्टुं शक्यते। रक्त ओरञ्जवर्णे वा चन्द्रमण्डलं प्रतिभास्यते। ८१ मिनिट् समयं यावत् पूर्णचन्द्रग्रहणं भविष्यति।

Thursday, September 4, 2025

 राष्ट्ररक्षणाय रष्यातः अधिकं 'एस् 400' प्रतिरोधसंविधानम्। 

रष्यायां विन्यस्तम् एस् ४०० इति प्रतिरोधसंविधानम्। 

नवदिल्ली> राष्ट्ररक्षां संवर्धयितुं रष्यातः अधिकं 'एस् 400' इति प्रतिरोधसंविधानं क्रेतुं भारतप्रशासनेन निश्चितम्। वर्तमानकाले तादृशानि पञ्चसंख्याकानि क्रेतुं सन्धिरस्ति। तेषु त्रीणि भारताय दत्तानि। अवशिष्टे द्वे २०२७ तमे वर्षाभ्यन्तरे स्वीकर्तुं रष्यायाः रक्षाविभागेन सह चर्चा प्रचलन्ती अस्ति। 

  रूसराष्ट्रस्य सर्वोत्कृष्टं भूतल-व्योम अग्निशस्त्र [Surface to Air Missile]  प्रतिरोधसंविधानं भवति 'एस्  ४००'। एतदतिरिच्य भारतेन सह प्रतिरोधसहयोगं प्रबलीकर्तुं चर्चाः प्रचाल्यन्ते इति रष्यायाः Federal Service for Military Technical Co operation इत्यस्य उन्नताधिकारी दिमित्री षुगयेव् इत्यमुं पुरस्कृत्य 'टास्' इति रूसीयवार्तामाध्यमेन निगदितम्।