सकारात्मकशक्त्यैव शैक्षिकवातावरणस्य निर्माणम् - "डा. शैलपुत्री"
वार्ताहर:- कुलदीपमैन्दोला
श्रीनगरस्थे हेमवतीनन्दनबहुगुणागढवालविश्वविद्यालयस्य सीनेटसभागारे १८ सितम्बर २०२६ तमे दिने छात्रपरामर्शसमितेः तथा नवनिर्वाचितछात्रसङ्घपदाधिकरिणां प्रतिनिधीनां च मध्ये संवादात्मकगोष्ठ्या: आयोजनम् अभवत्। अस्याः संगोष्ठ्याः मुख्योद्देश्यः नवनिर्वाचितप्रतिनिधीनां स्वागतं, तेषां विचाराणां प्राधान्यानां च श्रवणं तथा विश्वविद्यालयस्य शैक्षिकवातावरणे, छात्रकल्याणे, आधारभूतसौविध्येसु विद्यार्थिसम्बद्धसमस्यासु च विमर्शः आसीत्।
कार्यक्रमस्य प्रारम्भे डाॅ. कविता भट्टवर्या, उपछात्रपरामर्शदात्री, नवनिर्वाचितप्रतिनिधीनां स्वागतं कृत्वा निर्वाचनसफलतायै शुभकामनाः प्रदत्तवती। तया उक्तं यत् छात्रसङ्घस्य सक्रियः सकारात्मकः रचनात्मकश्च सहभागः विश्वविद्यालयस्य उन्नतौ महत्त्वपूर्णं योगदानं दास्यति। छात्रपरामर्शसमितिः छात्राणां प्रशासनस्य च मध्ये सुदृढः संवादसेतुरिति अपि प्रतिपादितम्।
प्रो. ममता राणा, संयुक्तछात्रपरामर्शदात्री (टिहरीपरिसरत:), छात्रप्रतिनिधीन् विश्वविद्यालयस्य चुनौतीनां समाधानार्थं सामूहिकरचनात्मकप्रयत्नान् कर्तुं प्रेरितवती। तया नियमितकक्षोपस्थितेः, सकारात्मकशैक्षिकवातावरणस्य तथा विश्वविद्यालयस्य शैक्षिकपरिचयस्य सुदृढीकरणस्य आवश्यकता प्रतिपादिता।
संगोष्ठ्यां छात्रसङ्घाध्यक्षः श्री हिमांशुभण्डारी सहितं प्रतिनिधिभिः बहवः महत्त्वपूर्णाः विषयाः प्रस्तुताः। तेषु उत्तमस्थानप्राप्तिसौविध्यं, सेवावसरोन्मुखकार्यक्रमाः, स्वास्थ्यधनलाभसंस्था:, शोधार्थिनां परिवहनसौविध्यं, स्मार्तकक्षाः, प्रयोगशालासु उपकरणरसायनानां उपलब्धता, स्वास्थ्यकेन्द्रे नियमितवैद्यव्यवस्था तथा राष्ट्रीयशिक्षा नीति:–२०२० अनुरूपनवीनग्रन्थानां पुस्तकालये समावेशः प्रमुखाः आसन्। तदतिरिक्तं छात्रावासेषु स्वच्छता, शुद्धपेयजलम्, आधारभूतसुविधानां सुधारः, आईटैपविद्यार्थिनां पर्याप्तकक्षाः, नियमिताध्यापकव्यवस्था, लैङ्गिकसमानता, अकादमिकसांस्कृतिकक्लबानां सञ्चालनम्, कौशलविकासकार्यशालाः तथा यू.पी.एस.सी. मार्गदर्शनसुविधा इत्यादिषु विषयेष्वपि सार्थकः विचारविमर्शः अभवत्।
प्रो. सीमा धवन:, संयुक्तछात्रपरामर्शदात्री, विद्यार्थिनां समस्याश्रवणस्य प्रभावीसंवादस्य संस्थागतसहयोगस्य च महत्त्वम् अवदत्। तया उक्तं यत् समस्याणां समाधानार्थं रचनात्मकसुझावाः अपि अपेक्षिताः। छात्रपरामर्शसमितेः भूमिका पौड़ी-टिहरीपरिसरयोः अपि विस्तरिष्यते इति स्पष्टं कृतम्।
प्रो. एम. एम. सेमवाल:, मुख्यछात्रपरामर्शदाता, नवनिर्वाचितप्रतिनिधीन् अभिनन्द्य लोकतान्त्रिकमूल्यानां, संवादस्य, धैर्यस्य उत्तरदायित्वपूर्णप्रतिनिधित्वस्य च महत्त्वं निरूपितवान्। तेन छात्रसङ्घः विश्वविद्यालयस्य सकारात्मकशैक्षिकसंस्कृतेः संवर्धने सहयोगं कर्तुम् आहूतः।
विद्यार्थिभिः प्रस्तुतविषयाणां प्रभावीअनुवर्तीकार्यवाह्यर्थं पञ्चदशदिनानाम् अन्तरे विभागाध्यक्षैः निदेशकमहाभागैः सह पुन: संगोष्ठ्या: आयोजनस्य प्रस्तावः स्वीकृतः। तस्यां विभागैः कृतकार्याणां समीक्षा, लम्बितप्रकरणानां स्थितिः तथा विद्यार्थिभ्यः प्रतिपुष्टिप्रदानम् इत्यादिविषयाः चर्चायाः केन्द्रे भविष्यन्ति।
अन्ते डाॅ. अमरजीतसिंहपरिहारः सर्वेभ्यः छात्रप्रतिनिधिभ्यः उपस्थितसदस्येभ्यश्च धन्यवादं ज्ञापितवान्। तेन उक्तं यत् विद्यार्थिनां सर्वे विषयाः संस्थागतप्रक्रियया सम्बन्धिताधिकारिभ्यः प्रेषयिष्यन्ते तथा समाधानदिशि आवश्यकप्रयत्नाः करिष्यन्ते। संगोष्ठ्याः समापनं सकारात्मकसंवादस्य, पारस्परिकसहयोगस्य तथा छात्रहिताय सामूहिकरूपेण कार्यकरणस्य दृढसंकल्पेन अभवत्।
