एष्यन् गयिंस् ।
भुषुण्डिप्रयोगे भारताय रजतद्वयम्।
भुषुण्डिप्रयोगे रजतं प्राप्त वा ने भारतगणः।
महिलाक्रिकटे भारतम् अन्तिमस्पर्धायाम्।
नगोया> एष्यन् कायिकक्रीडायां '१० मीटर् एयर् रैफिल्' विभागे भारतगणः रजतपदकं स्वायत्तीचकार। केरलीया विदर्शा के विनोदः, तमिलनाटप्रान्तीया इलवेनिल् वालरिवन्, महाराष्ट्रीया सोनम् उत्तं मस्कर् इत्येताः आसन् भारतगणे। अस्मिन् प्रतिद्वन्द्वे सुवर्णं चीनेन प्राप्तम्।
'१० मीटर् एयर् रैफिल्' वैयक्तिकविभागे इलवेनिल् वालरिवन् रजतपदकं प्राप्तवती। अनेन ह्यः भारतस्य प्राप्तिः द्वे रजते अभवताम्।
महिलानां टि-२० क्रिकट् स्पर्धायाः पूर्वान्त्यस्पर्धायां बंगलादेशं विरुध्य ११४ धावनाङ्कानां विजयेन भारतम् अन्त्यस्पर्धां प्राविशत्। षेफाली वर्मा भारताय शतकं प्राप्तवती - ४९ कन्दुकैः १००। अन्तिमप्रतिद्वन्द्वे श्रीलङ्का अस्ति भारतस्य प्रतियोगी।