अल् ख्वायिदा सम्बन्धः
यू पि प्रान्तीयः कोयम्पुत्तूरे निगृहीतः।
कोयम्पुत्तूर्> अल् ख्वायिदा नामकेन भीकरवादसंघटनेन सम्बन्धमारोप्य उत्तरप्रदेशीयः १९ वयस्कः तमिलनाटे कोयम्पुत्तूरे निगृहीतः। सित्तारनगरजनपदनिवासी मक्सूद अलिनामकः एव उत्तरप्रदेशस्य भीकरवादविरुद्धसेना कोयम्पुत्तूर् आरक्षकसेनायाः साहाय्येन निगृहीतः।
सामाजिकमाध्यमैः प्रचरणं कृत्वा जनान् तीव्रवादसंघटनं योजयित्वा राष्ट्रविरुद्धप्रवर्तनाय परिशीलनं च करोती मक्सूदः इति आरक्षकाधिकारिणा उक्तम्। कतिपयकालेन एषः यू पि आरक्षकसेनायाः निरीक्षणे आसीत्।