एष्यन् गयिंस् - अद्य उद्घाटनम्।
उद्घाटनवेदी पलोमा मिसुहो क्रीडाङ्कणम्।
नगोया> एशिया भूखण्डस्य बृहत्तमः कायिकोत्सवः - एष्यन् गयिंस् - शनिवासरे सार्धद्विवादने [भारतीयसमयः] जापानस्थे नगोयानगरे उद्घाट्यते। एष्यन् गयिंस् कायिकोत्सवस्य २० तमं संस्करणमेव अत्र सम्पद्यते। जापानराष्ट्रस्य चक्रवर्ती नारुहितो उद्घाटनं करिष्यति। चक्रवर्तिनी मसाको, राजकुमारः अकिषिनो, राजकुमारी किको इत्येते राजपरिवारसदस्याः अपि कार्यक्रमे भागं करिष्यन्ति।
नगोया नामके महानौकाश्रयनगरस्थे 'पलोमा मिसुहो' इति अत्लटिक् क्रीडाङ्कणे अस्ति उद्घाटनकार्यक्रमाः। जापानस्य चरित्र-कला-सांस्कृतिकपारम्पर्यम् अभिव्यक्तमानाः भविष्यन्ति कार्यक्रमाः।
तृतीयवारमस्ति एशियायाः कायिकोत्सवे जापानदेशस्य आतिथ्यम्। जापानीयपारम्पर्ये पौराणिकजीविषु अन्यतमः , जापानीयवास्तुशास्त्रे संरक्षणस्य प्रतीकरूपेण मन्यमानः 'षचिहोको' इत्यस्मात् प्रचोदितः 'होनोहोनः' [Honohon] भवति कायिकोत्सवस्य भाग्यचिह्नम्। ऊर्जोत्साहस्पर्धावीर्याणां द्योदकं भवति।