रष्यां विरुध्य युक्रेनस्य महत्ड्रोण् आक्रमणम्।
६ मरणानि, २० जनाः क्षताः।
मोस्को> रष्यायाः राजधनीं मोस्को नगरं लक्ष्यीकृत्य युक्रेनस्य महत् ड्रोण् आक्रमणमभवत्। आक्रमणे न्यूनातिन्यूनं षट् जनाः मृताः, २० जनाः व्रणिताः जाताः इति अन्ताराष्ट्रियवार्तामाध्यमैः वृत्तान्तीकृतम्। मोस्कोनगरस्था प्रमुखा तैलशुद्धीकरणशाला अपि आक्रमणे दुष्टाः जाताः।
प्रत्युत, १६०० तः अधिकानि ड्रोणानि स्वस्य प्रतिरोधसंविधानम् उपयुज्य विनाशितानीति रष्यया निगदितम्। तेषु ४५० ड्रोणानि मोस्कोनगरं लक्ष्यीकृत्य आसन्निति मेजर् पदीयः सेर्जी सोबियानिन् इत्येषः अवोचत्। भग्नं ड्रोणं पतित्वा २१ स्तरीयं भवनम् अग्निबद्धं जातम्। किन्तु ४०० जनाः तत्रतः निवारिताः।