दिल्ल्यां पुनरपि संघटितबलात्कारः।
१६ वयस्कां जघान; मृतशरीरं शुनकैः खादितम्।
नवदील्ली> राष्ट्रराजधानीनगरसमीपस्थे प्रदेशे १६ वयस्का बालिका संघटितबलात्काराधीना भूत्वा हता विजनस्थाने परित्यक्ता। अधिगतं मृतशरीरं शुनकैः भुक्तावस्थायमासीत्। घटनायां चत्वारः अपराधिनः आरक्षकैः निगृहीताः। एषु त्रयः अपक्ववयस्काः भवन्ति।
बाह्यदिल्ल्यां स्वरूपनगरे सेप्तम्बर दशमदिनाङ्के आसीदियं दारुणघटना। अपराधिषु अन्यतमः बालिकायाः सखा इति सूच्यते। तं द्रष्टुं गृहात् प्रस्थितां बालिकां एषः सुहृत् तस्य अन्यानि मित्राणि चाहूय केनचित् पण्यवाहनेन विजनप्रदेशं प्रापयित्वा मद्यपानं कृत्वा संघटितबलात्कारं चक्रुः।
ततः बालिकां कुट्टनेन मारयित्वा मृतशरीरमुपेक्ष्य ते प्रस्थिताः। १३ तमे दिनाङ्के शुनकैः खाद्यमानं मृतशरीरं दृष्ट्वा प्रदेशवासिनः पुलीसदलं न्यवेदयन्। अन्वेषणे चत्वारः निगृहीताः। १९ वयस्कः शिवं नामकः एव अपराधिषु पक्ववयस्कः।