OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 17, 2025

 गासायां भक्ष्यवितरणकेन्द्रे अभिसम्पातः - 

१९ मरणानि। 

गासासिटी> गासायां इस्रयेल-अमेरिकयोः सहयोगेन प्रवर्तमानस्य सन्नद्धसंघटनस्य भक्ष्यवितरणकेन्द्रे बुधवासरे आपन्नेन  अन्योन्यसम्मर्देन १९ जनाः मृत्युमुपगताः। जि एछ् एफ् इति गासा ह्युमानटेरियन् फौण्टेषन् इत्यस्य खान् यूनिसस्थे वितरणस्थाने आसीदियं दुर्घटना।

  यू एन् संस्थायाः भोज्यवितरणसंविधानस्य उपकल्पनरूपेण मेय् मासे आसीत् जि एछ् एफ् इत्यस्य प्रवर्तनमारब्धम्। ततः प्रभृति तत्र भोज्यार्थमागम्यमानान् विरुध्य आक्रमणानि भुषुण्डिप्रयोगाश्च साधारणं दृश्यन्ते। अद्यावधि ८५० जनाः मृत्युमुपगताः इति यू एन् संस्थायाः गणना।

 योगाय केरलपाठ्यक्रमे प्राधान्यं दातव्यम्। 

कोच्ची> सि बी एस् सि विद्यालयेषु योगानुष्ठानाय दीयमानं प्राधान्यं केरलपाठ्यक्रमे अपि दातव्यमिति भारतीय योग फेडरेषन् इत्यस्य उपाध्यक्षेण वार्ताहरसम्मेलने   अभ्यर्थितम्। छात्राणां सर्वतोमुखम् उन्नमनं लक्ष्यीकृत्य विश्वविद्यालयेषु योगाध्ययनम् अन्तर्भाव्यमिति यू जि सी संस्थायाः निर्देशोSपि वर्तते। 

  केरले पारम्पर्येण योगानुष्ठानं कुर्वन्तः कारयन्तश्च वरिष्ठाः योगाचार्याः सन्ति। तेषां नेतृत्वे प्रवर्तनानि समायोजनीयानि। वार्ताहरसम्मेलने संघटनस्य देशीयोपाध्यक्षः के पि भास्करमेनोन् , योग-कायिक असोसियेषन् इत्यस्य एरणाकुलं जनपदीयाध्यक्षः षाजन् पोल् इत्यादयः भागमकुर्वन्।

 पहल्गाम आक्रमणम् - 

भीकराः आकाशं प्रति भुषुण्डिप्रयोगेण तोषयामासुः। 

नवदिल्ली> जम्मु काश्मीरे पहल्गामे भुषुण्डिप्रयोगेण २६ पर्यटकानां प्राणापहरणानन्तरं भीकराः आकाशं प्रति भुषुण्डिप्रयोगं कृत्वा आत्महर्षं प्रकटयामासुः इति वृत्तान्तमस्ति। बैसरण् अधित्यकायाम् आक्रमणानन्तरं त्रयः भीकराः आकाशं प्रति चतुर्वारं भुषुण्डिप्रयोगमकुर्वन्निति एन्  ऐ ए संस्थायाः पुरतः  घटनां विशदीकृतवता दृक्साक्षिणा उक्तमिति राष्ट्रियमाध्यमैः सूच्यते।

  दृक्साक्षिणः वचनस्याधारे परिशोधनां कृतवता अन्वेषणसंघेन उक्तस्थानात् चत्वारि गोलिकाशस्त्राणि अधिगतानि। भीकरेभ्यः अभयः दत्तः इति कारणात् गतमासे  द्वौ एन्  ऐ ए संस्थया निगृहीतौ। तौ लष्कर् ई तोय्बा सम्बन्धिनौ पाकिस्थाननागरिकौ इति अधिकृतैः निगदितम्।

 परम्परागतविज्ञानेन सह एन् सि ई आर् टि संस्थायाः नूतनः अष्टमीकक्ष्यापाठ्यग्रन्थः। 

नवदिल्ली> एन् सि ई आर् टि संस्थया आविष्कृते अष्टमीकक्ष्यायाः नूतनं शास्त्रपुस्तकं भारतस्य परम्परागतशास्त्रविज्ञानेन संयुक्तं भवति। क्रिस्तोः पूर्वं जीवितवान् इति मन्यमानस्य कणादमहर्षेः परमाणुसङ्कल्पः, आयुर्वेदीयचिकित्सासम्प्रदायश्च पुस्तके परामृष्टः अस्ति। भास्करस्य द्वितीयस्य ज्योतिशास्त्रतत्त्वमपि पाठपुस्तके प्रतिपादितमस्ति।

Wednesday, July 16, 2025

 ब्रिटनस्य युद्धविमानम् आगामि सप्ताहे प्रतिनिवर्तिष्यते।

ब्रिटीषनौसेनायाः एफ् ३५ बी युद्धविमानम्। 

अनन्तपुरी> ब्रिटीषनौसेनायाः एफ् ३५ बी इति युद्धविमानस्य साङ्केतिकदोषाः परिहृताः। ब्रिटनस्य नौसेनाधिकारिणः अनुज्ञालब्धिमनुसृत्य विमानं अनन्तपुरीतः उड्डायित्वा एव प्रतिनेष्यति। 

  आरबसमुद्रे सैनिकाभ्यासे क्रियमाणे इन्धनशोषणेन जूण् २४ तमे दिनाङ्के आसीत् विमानस्य  अनन्तपुर्यामवतरणम्। अनन्तरं यन्त्रक्षमतायामपि न्यूनता अस्तीत्यवगतम्।  

 केरले अतितीव्रवृष्टिः।

सर्वेषु जनपदेषु जाग्रत्तानिर्देशः।

श्वः पञ्चसु जनपदस्थेषु विद्यालयेषु अनध्ययनं  विहितम्।

कोच्चि> केरलमशेषं द्वित्राणि दिनानि यावत् तीव्रा वृष्टिरनुवर्तते। श्वः सर्वेषु जनपदेषु जाग्रत्तानिर्देशः विहितः। मध्योत्तरकेरले नवसु जनपदेषु अतितीव्रवर्षायाः  'ओरञ्च्' जाग्रत्ता विहिता। दक्षिणकेरले पीतजागरूकता च घोषिता।

  कण्णूर्, कासरगोड्, तृश्शूर्, कोष़िक्कोट्, वयनाट् जनपदस्थेषु विद्यालयेषु गुरुवासरे अनध्ययनम् उद्घोषितम्। आगामि दिनत्रयमपि आकेरलं तीव्रवृष्टिः भवेदिति पर्यावरणविभागेन निगदितम्।

 शुभांशोः सहयात्रिकाणां च परं सप्तदिवसीयः पुनरधिवासः। 

अन्ताराष्टबहिराकाशनिलयात् 'ग्रेय्स्' पेटकं प्रतिनिवर्तनयात्रा आरभ्यते। 

हूस्टण्>  अष्टादशदिनानि बहिराकाशनिलये विविधेषु परीक्षणेषु व्यापृत्य कुजवासरे सायं वसुधां प्रत्यागतवन्तः चत्वारः बहिराकाशयात्रिकाः सप्तदिनात्मकाय पुनरधिवासाय विहिताः। इदानीं  चत्वारः अपि  हूस्टणस्थं जोण्सण् बहिराकाशकेन्द्रम् अधिवसन्तः सन्ति। भूमेः गुरुत्वाकर्षणेन सह तादात्म्यं प्राप्तुमेवायम् एकान्तवासः। 

  भारतीयवायुसेनायां ग्रूप् केप्टन् पदीयः शुभांशुः आसीत् आक्सियं - ४ दौत्यस्य मार्गदर्शी। तं विना पेग्गि विट्सण्, स्लावोस् उस्नन् स्की, टिबोर् कापु इत्येते च दौत्यस्य अंशतया  बहिराकाशनिलयं गतवन्तः। 

  जूण् पञ्चविंशे दिनाङ्के ते  ऐ एस् एस् प्रति प्रस्थितवन्तः। ऐ एस् एस् मध्ये स्थित्वा अष्टाशीत्यधिक द्विशतवारं भूमिं प्रदक्षिणं कृतवन्तः। त्रयस्त्रिंशदधिक चतुश्शतं होराः ते परीक्षणाय यापितवन्तः।

 बालानाम् 'आधार्' नवीकर्तुं यू ऐ डि ए ऐ संस्थायाः निर्देशः। 

नवदिल्ली> पञ्च - सप्त वयःप्रमाणानां बालानाम् आधारपत्रं नवीकर्तुं यू ऐ डि ए ऐ संस्थायाः निर्देशः आगतः। विद्यालयप्रवेशः, प्रवेशनपरीक्षाः, छात्राणाम् आर्थिकोपायनं  [scholarship], वित्तकोशीयानुमोदनानि इत्यादीनाम् अनर्गलसेवायै नवीकृतमाधारपत्रमावश्यमिति संस्थया निगदितम्। 

  बालानां पितरौ, रक्षितारः इत्येतेषां कस्मिंश्चित् आधारसेवाकेन्द्रे निश्चिताधारकेन्द्रे वा बालानां सूचनाः निश्शुल्केन नवीकर्तुं शक्यन्ते। ऊनपञ्चवयस्कानां छायाचित्रम्, नाम, जन्मदिवसः, लिङ्गभेदः, सङ्केतः, प्रमाणपत्राणि इत्येतानि एव आधारपत्रे युज्यन्ते। यदा पञ्चवयः प्राप्नोति तदा  अङ्गुलीरेखाः, नेत्रमण्डलमित्यादीनि अवश्यं योजनीयानि। सप्तवयःपर्यन्तम् एताः सेवाः निश्शुल्केन कर्तुं शक्यते।

Tuesday, July 15, 2025

 विम्बिल्डण्

   पुरुषकिरीटं यानिक् सिन्नराय। 


लण्टनं> पुरुषाणां विम्बिल्डण् लानक्रीडाचषकं   इटलीदेशीयः यानिक् सिन्नर् इत्येषः प्राप्तवान्। अन्तिमप्रतिद्वन्द्वे कार्लोस् अल्करास् इत्यमुमेव सिन्नरः पराजयत। पञ्चसप्ताहात् पूर्वं फ्रञ्च् ओपण् अन्तिमप्रतिद्वन्द्वे स्वीकृतस्य पराजयस्य प्रतीकारो भवति सिन्नरस्य अयं विजयः। 

  अन्तिमक्रीडायाः प्रथमकुलकं [Set] नष्टीभूय उज्वलप्रभावेण आसीत् यानिक् सिन्नरस्य अनन्तरक्रीडाः - (४-६, ६-४, ६-४, ६-४)

 तृतीया निकषस्पर्धा भारतात् विनष्टा। 

अग्रेसराणामालस्यस्य स्थाने कृतः पृष्ठगामिनां प्रयत्नोSपि विफलः। 

लोर्ड्स्> एकैकं कन्दुकमपि पक्षद्वयाय अमृततुल्यं मूल्यवदासीत्। इङ्गलण्टेन सम्मानितस्य १९३ इति विजयलक्ष्यस्य सार्थकाय अग्रेसरताडकानाम् अलसतया रविवासरे ५८/४ इति प्राप्ताङ्कसूचिका भारतेन प्राप्ता आसीत्। ततः ह्यः अष्टसु क्षेपणचक्रेषु त्रयः ताडकाः अपि बहिर्गत्वा ८२/७ इति परितापकरीम् अवस्थाम् अपतत्। अनेन पराजयः सुनिश्चितः। किन्तु ततः पुच्छस्थितैः  ताडकैः रक्षाप्रवर्तनमारब्धम्। रवीन्द्र जडेजः तस्य नेतृत्वमवहत्। सः १८१ कन्दुकेभ्यः ६१ धावनाङ्कैः अपराजितः जातः। निधीशकुमार रड्डिः  [५३ कन्दुकैः १३ धावनाङ्काः], जस्प्रीत बुम्रा (५४/५), मुहम्मद सिराजः (३०/४) इत्येवंप्रकारेण सहयोगं कृतवन्तः। किन्तु ७६ तमे क्षेपणचक्रे इङ्गलण्डदलीयस्य षोयिब् बषीर् इत्यस्य 'ओफ् स्पिन्' कन्दुकं सिराजेन प्रतिरुद्धमपि भ्रमणं कृत्वा द्वारकमपातयत्। सिराजस्य द्वारकपतनेन भारतस्यापि पतनं सम्पूर्णमभवत्। २२ धावनाङ्कानां न्यूनत्वे एव पराजयः!

  प्राप्ताङ्कसूचिका - इङ्गलण्डः ३८७, १९२। भारतं ३८७, १७०। अनेन पञ्चप्रकरणात्मिकायां परम्परायाम्  इङ्गलण्डः २-१ इति अग्रे अस्ति।