उज्जयिन्यां त्रिदिवसीयराष्ट्रियशोधसङ्गोष्ठयाः शुभारम्भः
-वार्तासंयोजक:-डॉ. दिनेश: चौबे
उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य वेदव्याकरणविभाग-दर्शनविभागयो: तथा नवदेहलीस्थभारतीयदार्शनिकानुसन्धानपरिषदः संयुक्ततत्त्वावधानेन वैदिकभाषादर्शनमुच्चारणविज्ञानञ्च इति विषयमाश्रित्य समायोजितायाः राष्ट्रियशोधसंगोष्ठ्याः शुभारम्भः षड्विंशे दिनाङ्के प्रातः एकादशवादने महाकालमन्दिरप्राङ्गणस्थे माधनसेवान्यासपरिसरस्य सभागारे सञ्जातः। उद्घाटनसमारोहस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन दीपदीपनेन च जातः। दीपदीपनकाले वैदिकमङ्गलाचरणं डॉ. अङ्कितसांडिल्येन, सरस्वतीवन्दना अनुरूद्धत्रिपाठिना च विहितम्। तदनु विश्वविद्यालयस्य कुलगानं समुपास्थापितम्। उद्घाटनसत्रे मुख्यातिथिरूपेण प्रदेशस्य उच्चशिक्षामन्त्रिणः डॉ.मोहनयादवमहोदयाः समुपस्थिता आसन्। महोदयेन उक्तं यत् संस्कृतभाषया महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। वैदेशिका अस्या महिम्नः परिचिताः सन्ति। संस्कृतं विज्ञानस्य भाषा अस्ति। संस्कृतेनैव भारतस्य अस्तित्वम् अस्ति। सारस्वतातिथिरूपेण समुपस्थिता आसन् विक्रमविश्वविद्यालयस्य कुलपतयः प्रो. अखिलेशकुमारपाण्डेयमहोदयाः, ते उक्तवन्तो यत् संस्कृतं विज्ञानस्य जननी अस्ति, संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। संस्कृतस्य ज्ञानाभावात् अस्माकं महान् हानिः सञ्जाता। अतः सम्प्रति संस्कृतम् अवश्यं पठनीयम् इति।





.jpg)
.jpg)
